Click on words to see what they mean.

पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन ।नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥ १ ॥
शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा ।पितॄणां गतिमन्विच्छ येन चाश्वोऽपहारितः ॥ २ ॥
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥ ३ ॥
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि ।सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥ ४ ॥
एवमुक्तोंऽशुमान्सम्यक्सगरेण महात्मना ।धनुरादाय खड्गं च जगाम लघुविक्रमः ॥ ५ ॥
स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः ।प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः ॥ ६ ॥
दैत्यदानवरक्षोभिः पिशाचपतगोरगैः ।पूज्यमानं महातेजा दिशागजमपश्यत ॥ ७ ॥
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् ।पितॄन्स परिपप्रच्छ वाजिहर्तारमेव च ॥ ८ ॥
दिशागजस्तु तच्छ्रुत्वा प्रीत्याहांशुमतो वचः ।आसमञ्जकृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥ ९ ॥
तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् ।यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥ १० ॥
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।पूजितः सहयश्चैव गन्तासीत्यभिचोदितः ॥ ११ ॥
तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥ १२ ॥
स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा ।चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः ॥ १३ ॥
यज्ञियं च हयं तत्र चरन्तमविदूरतः ।ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥ १४ ॥
ददर्श पुरुषव्याघ्रो कर्तुकामो जलक्रियाम् ।सलिलार्थी महातेजा न चापश्यज्जलाशयम् ॥ १५ ॥
विसार्य निपुणां दृष्टिं ततोऽपश्यत्खगाधिपम् ।पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥ १६ ॥
स चैनमब्रवीद्वाक्यं वैनतेयो महाबलः ।मा शुचः पुरुषव्याघ्र वधोऽयं लोकसंमतः ॥ १७ ॥
कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः ।सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥ १८ ॥
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।भस्मराशीकृतानेतान्पावयेल्लोकपावनी ॥ १९ ॥
तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया ।षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति ॥ २० ॥
गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ ।यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि ॥ २१ ॥
सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् ।त्वरितं हयमादाय पुनरायान्महायशाः ॥ २२ ॥
ततो राजानमासाद्य दीक्षितं रघुनन्दन ।न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा ॥ २३ ॥
तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः ।यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥ २४ ॥
स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः ।गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥ २५ ॥
अगत्वा निश्चयं राजा कालेन महता महान् ।त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥ २६ ॥
« »