Click on words to see what they mean.

देवतानां वचः श्रुत्वा भगवान्वै पितामहः ।प्रत्युवाच सुसंत्रस्तान्कृतान्तबलमोहितान् ॥ १ ॥
यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः ।कापिलं रूपमास्थाय धारयत्यनिशं धराम् ॥ २ ॥
पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः ।सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम् ॥ ३ ॥
पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमः ।देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥ ४ ॥
सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम् ।पृथिव्यां भिद्यमानायां निर्घातसमनिस्वनः ॥ ५ ॥
ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् ।सहिताः सगराः सर्वे पितरं वाक्यमब्रुवन् ॥ ६ ॥
परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः ।देवदानवरक्षांसि पिशाचोरगकिंनराः ॥ ७ ॥
न च पश्यामहेऽश्वं तमश्वहर्तारमेव च ।किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ॥ ८ ॥
तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ।समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन ॥ ९ ॥
भूयः खनत भद्रं वो निर्भिद्य वसुधातलम् ।अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ ॥ १० ॥
पितुर्वचनमास्थाय सगरस्य महात्मनः ।षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ॥ ११ ॥
खन्यमाने ततस्तस्मिन्ददृशुः पर्वतोपमम् ।दिशागजं विरूपाक्षं धारयन्तं महीतलम् ॥ १२ ॥
सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन ।शिरसा धारयामास विरूपाक्षो महागजः ॥ १३ ॥
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः ।खेदाच्चालयते शीर्षं भूमिकम्पस्तधा भवेत् ॥ १४ ॥
तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् ।मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ॥ १५ ॥
ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः ।दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ॥ १६ ॥
महापद्मं महात्मानं सुमहापर्वतोपमम् ।शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् ॥ १७ ॥
ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः ।षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ॥ १८ ॥
पश्चिमायामपि दिशि महान्तमचलोपमम् ।दिशागजं सौमनसं ददृशुस्ते महाबलाः ॥ १९ ॥
तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् ।खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा ॥ २० ॥
उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् ।भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ॥ २१ ॥
समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् ।षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ॥ २२ ॥
ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् ।रोषादभ्यखनन्सर्वे पृथिवीं सगरात्मजाः ॥ २३ ॥
ददृशुः कपिलं तत्र वासुदेवं सनातनम् ।हयं च तस्य देवस्य चरन्तमविदूरतः ॥ २४ ॥
ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ।अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् ॥ २५ ॥
अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ।दुर्मेधस्त्वं हि संप्राप्तान्विद्धि नः सगरात्मजान् ॥ २६ ॥
श्रुत्वा तद्वचनं तेषां कपिलो रघुनन्दन ।रोषेण महताविष्टो हुंकारमकरोत्तदा ॥ २७ ॥
ततस्तेनाप्रमेयेन कपिलेन महात्मना ।भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥ २८ ॥
« »