Click on words to see what they mean.

विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दन ।उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥ १ ॥
श्रोतुमिछामि भद्रं ते विस्तरेण कथामिमाम् ।पूर्वको मे कथं ब्रह्मन्यज्ञं वै समुपाहरत् ॥ २ ॥
विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ।श्रूयतां विस्तरो राम सगरस्य महात्मनः ॥ ३ ॥
शंकरश्वशुरो नाम हिमवानचलोत्तमः ।विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् ॥ ४ ॥
तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः स पुरुषोत्तम ।स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि ॥ ५ ॥
तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ।अंशुमानकरोत्तात सगरस्य मते स्थितः ॥ ६ ॥
तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ।राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् ॥ ७ ॥
ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ।उपाध्याय गणाः सर्वे यजमानमथाब्रुवन् ॥ ८ ॥
अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ।हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् ॥ ९ ॥
यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय नः ।तत्तथा क्रियतां राजन्यथाछिद्रः क्रतुर्भवेत् ॥ १० ॥
उपाध्याय वचः श्रुत्वा तस्मिन्सदसि पार्थिवः ।षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ॥ ११ ॥
गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ।मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ॥ १२ ॥
तद्गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ।समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत ॥ १३ ॥
एकैकं योजनं पुत्रा विस्तारमभिगच्छत ॥ १४ ॥
यावत्तुरगसंदर्शस्तावत्खनत मेदिनीम् ।तमेव हयहर्तारं मार्गमाणा ममाज्ञया ॥ १५ ॥
दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम् ।इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम् ॥ १६ ॥
इत्युक्त्वा हृष्टमनसो राजपुत्रा महाबलाः ।जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥ १७ ॥
योजनायामविस्तारमेकैको धरणीतलम् ।बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्भुजैः ॥ १८ ॥
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।भिद्यमाना वसुमती ननाद रघुनन्दन ॥ १९ ॥
नागानां वध्यमानानामसुराणां च राघव ।राक्षसानां च दुर्धर्षः सत्त्वानां निनदोऽभवत् ॥ २० ॥
योजनानां सहस्राणि षष्टिं तु रघुनन्दन ।बिभिदुर्धरणीं वीरा रसातलमनुत्तमम् ॥ २१ ॥
एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः ।खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥ २२ ॥
ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः ।संभ्रान्तमनसः सर्वे पितामहमुपागमन् ॥ २३ ॥
ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ।ऊचुः परमसंत्रस्ताः पितामहमिदं वचः ॥ २४ ॥
भगवन्पृथिवी सर्वा खन्यते सगरात्मजैः ।बहवश्च महात्मानो वध्यन्ते जलचारिणः ॥ २५ ॥
अयं यज्ञहनोऽस्माकमनेनाश्वोऽपनीयते ।इति ते सर्वभूतानि निघ्नन्ति सगरात्मजः ॥ २६ ॥
« »