Click on words to see what they mean.

संजय उवाच ।ततः प्रववृते युद्धं कुरूणां भयवर्धनम् ।सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम् ॥ १ ॥
नरा रथा गजौघाश्च सादिनश्च सहस्रशः ।वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम् ॥ २ ॥
नागानां भीमरूपाणां द्रवतां निस्वनो महान् ।अश्रूयत यथा काले जलदानां नभस्तले ॥ ३ ॥
नागैरभ्याहताः केचित्सरथा रथिनोऽपतन् ।व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः ॥ ४ ॥
हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः ।शरैः संप्रेषयामासुः परलोकाय भारत ॥ ५ ॥
सादिनः शिक्षिता राजन्परिवार्य महारथान् ।विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा ॥ ६ ॥
धन्विनः पुरुषाः केचित्संनिवार्य महारथान् ।एकं बहव आसाद्य प्रेषयेयुर्यमक्षयम् ॥ ७ ॥
नागं रथवरांश्चान्ये परिवार्य महारथाः ।सोत्तरायुधिनं जघ्नुर्द्रवमाणा महारवम् ॥ ८ ॥
तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून् ।नागा जघ्नुर्महाराज परिवार्य समन्ततः ॥ ९ ॥
नागो नागमभिद्रुत्य रथी च रथिनं रणे ।शक्तितोमरनाराचैर्निजघ्नुस्तत्र तत्र ह ॥ १० ॥
पादातानवमृद्नन्तो रथवारणवाजिनः ।रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम् ॥ ११ ॥
हयाश्च पर्यधावन्त चामरैरुपशोभिताः ।हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम् ॥ १२ ॥
तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशां पते ।अशोभत यथा नारी करजक्षतविक्षता ॥ १३ ॥
वाजिनां खुरशब्देन रथनेमिस्वनेन च ।पत्तीनां चापि शब्देन नागानां बृंहितेन च ॥ १४ ॥
वादित्राणां च घोषेण शङ्खानां निस्वनेन च ।अभवन्नादिता भूमिर्निर्घातैरिव भारत ॥ १५ ॥
धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम् ।कवचानां प्रभाभिश्च न प्राज्ञायत किंचन ॥ १६ ॥
बहवो बाहवश्छिन्ना नागराजकरोपमाः ।उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम् ॥ १७ ॥
शिरसां च महाराज पततां वसुधातले ।च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः ॥ १८ ॥
शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुंधरा ।तपनीयनिभैः काले नलिनैरिव भारत ॥ १९ ॥
उद्वृत्तनयनैस्तैस्तु गतसत्त्वैः सुविक्षतैः ।व्यभ्राजत महाराज पुण्डरीकैरिवावृता ॥ २० ॥
बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महाधनैः ।पतितैर्भाति राजेन्द्र मही शक्रध्वजैरिव ॥ २१ ॥
ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे ।हस्तिहस्तोपमैरन्यैः संवृतं तद्रणाङ्गणम् ॥ २२ ॥
कबन्धशतसंकीर्णं छत्रचामरशोभितम् ।सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा ॥ २३ ॥
तत्र योधा महाराज विचरन्तो ह्यभीतवत् ।दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः ॥ २४ ॥
मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः ।पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे ॥ २५ ॥
गजानीकं महाराज वध्यमानं महात्मभिः ।व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव ॥ २६ ॥
ते गजा घनसंकाशाः पेतुरुर्व्यां समन्ततः ।वज्ररुग्णा इव बभुः पर्वता युगसंक्षये ॥ २७ ॥
हयानां सादिभिः सार्धं पतितानां महीतले ।राशयः संप्रदृश्यन्ते गिरिमात्रास्ततस्ततः ॥ २८ ॥
संजज्ञे रणभूमौ तु परलोकवहा नदी ।शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा ॥ २९ ॥
भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला ।मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा ॥ ३० ॥
कवचोष्णीषसंछन्ना पताकारुचिरद्रुमा ।चक्रचक्रावलीजुष्टा त्रिवेणूदण्डकावृता ॥ ३१ ॥
शूराणां हर्षजननी भीरूणां भयवर्धिनी ।प्रावर्तत नदी रौद्रा कुरुसृञ्जयसंकुला ॥ ३२ ॥
तां नदीं पितृलोकाय वहन्तीमतिभैरवाम् ।तेरुर्वाहननौभिस्ते शूराः परिघबाहवः ॥ ३३ ॥
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते ।चतुरङ्गक्षये घोरे पूर्वं देवासुरोपमे ॥ ३४ ॥
अक्रोशन्बान्धवानन्ये तत्र तत्र परंतप ।क्रोशद्भिर्बान्धवैश्चान्ये भयार्ता न निवर्तिरे ॥ ३५ ॥
निर्मर्यादे तथा युद्धे वर्तमाने भयानके ।अर्जुनो भीमसेनश्च मोहयां चक्रतुः परान् ॥ ३६ ॥
सा वध्यमाना महती सेना तव जनाधिप ।अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव ॥ ३७ ॥
मोहयित्वा च तां सेनां भीमसेनधनंजयौ ।दध्मतुर्वारिजौ तत्र सिंहनादं च नेदतुः ॥ ३८ ॥
श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ ।धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ ॥ ३९ ॥
तत्राश्चर्यमपश्याम घोररूपं विशां पते ।शल्येन संगताः शूरा यदयुध्यन्त भागशः ॥ ४० ॥
माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ ।अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव ॥ ४१ ॥
ततो न्यवर्तत बलं तावकं भरतर्षभ ।शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः ॥ ४२ ॥
वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव ।भेजे दिशो महाराज प्रणुन्ना दृढधन्विभिः ।हाहाकारो महाञ्जज्ञे योधानां तव भारत ॥ ४३ ॥
तिष्ठ तिष्ठेति वागासीद्द्रावितानां महात्मनाम् ।क्षत्रियाणां तदान्योन्यं संयुगे जयमिच्छताम् ।आद्रवन्नेव भग्नास्ते पाण्डवैस्तव सैनिकाः ॥ ४४ ॥
त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान् ।मातुलान्भागिनेयांश्च तथा संबन्धिबान्धवान् ॥ ४५ ॥
हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः ।आत्मत्राणकृतोत्साहास्तावका भरतर्षभ ॥ ४६ ॥
« »