Click on words to see what they mean.

संजय उवाच ।ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम् ।प्रत्युद्ययावदीनात्मा वेगेन महता नदन् ॥ १ ॥
समापेततुरानद्य शृङ्गिणौ वृषभाविव ।महानिर्घातघोषश्च संप्रहारस्तयोरभूत् ॥ २ ॥
अभवच्च तयोर्युद्धं तुमुलं रोमहर्षणम् ।जिगीषतोर्युधान्योन्यमिन्द्रप्रह्रादयोरिव ॥ ३ ॥
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ ।ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥ ४ ॥
तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे ।खद्योतसंघैरिव खं दर्शनीयं व्यरोचत ॥ ५ ॥
तथा तस्मिन्वर्तमाने संकुले तुमुले भृशम् ।उभावपि परिश्रान्तौ युध्यमानावरिंदमौ ॥ ६ ॥
तौ मुहूर्तं समाश्वस्य पुनरेव परंतपौ ।अभ्यहारयतां तत्र संप्रगृह्य गदे शुभे ॥ ७ ॥
तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ ।बलिनौ वारणौ यद्वद्वाशितार्थे मदोत्कटौ ॥ ८ ॥
अपारवीर्यौ संप्रेक्ष्य प्रगृहीतगदावुभौ ।विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥ ९ ॥
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ ।संशयः सर्वभूतानां विजये समपद्यत ॥ १० ॥
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ ।अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति ॥ ११ ॥
यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् ।ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् ॥ १२ ॥
आविध्यतो गदां तस्य भीमसेनस्य संयुगे ।शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत ॥ १३ ॥
आविध्यन्तमभिप्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् ।गदामलघुवेगां तां विस्मितः संबभूव ह ॥ १४ ॥
चरंश्च विविधान्मार्गान्मण्डलानि च भारत ।अशोभत तदा वीरो भूय एव वृकोदरः ॥ १५ ॥
तौ परस्परमासाद्य यत्तावन्योन्यरक्षणे ।मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः ॥ १६ ॥
अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा ।मण्डलानि विचित्राणि स्थानानि विविधानि च ॥ १७ ॥
गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च ।परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥ १८ ॥
अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् ।परावर्तनसंवर्तमवप्लुतमथाप्लुतम् ।उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ ॥ १९ ॥
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् ।वञ्चयन्तौ पुनश्चैव चेरतुः कुरुसत्तमौ ॥ २० ॥
विक्रीडन्तौ सुबलिनौ मण्डलानि प्रचेरतुः ।गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली ॥ २१ ॥
दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत ।सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत ॥ २२ ॥
तथा तु चरतस्तस्य भीमस्य रणमूर्धनि ।दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् ॥ २३ ॥
आहतस्तु तदा भीमस्तव पुत्रेण भारत ।आविध्यत गदां गुर्वीं प्रहारं तमचिन्तयन् ॥ २४ ॥
इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् ।ददृशुस्ते महाराज भीमसेनस्य तां गदाम् ॥ २५ ॥
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः ।समुद्यम्य गदां घोरां प्रत्यविध्यदरिंदमः ॥ २६ ॥
गदामारुतवेगेन तव पुत्रस्य भारत ।शब्द आसीत्सुतुमुलस्तेजश्च समजायत ॥ २७ ॥
स चरन्विविधान्मार्गान्मण्डलानि च भागशः ।समशोभत तेजस्वी भूयो भीमात्सुयोधनः ॥ २८ ॥
आविद्धा सर्ववेगेन भीमेन महती गदा ।सधूमं सार्चिषं चाग्निं मुमोचोग्रा महास्वना ॥ २९ ॥
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः ।अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत ॥ ३० ॥
गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः ।भयं विवेश पाण्डून्वै सर्वानेव ससोमकान् ॥ ३१ ॥
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः ।गदाभ्यां सहसान्योन्यमाजघ्नतुररिंदमौ ॥ ३२ ॥
तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा ।अशोभेतां महाराज शोणितेन परिप्लुतौ ॥ ३३ ॥
एवं तदभवद्युद्धं घोररूपमसंवृतम् ।परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ॥ ३४ ॥
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः ।चरंश्चित्रतरान्मार्गान्कौन्तेयमभिदुद्रुवे ॥ ३५ ॥
तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् ।अभिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् ॥ ३६ ॥
सविस्फुलिङ्गो निर्ह्रादस्तयोस्तत्राभिघातजः ।प्रादुरासीन्महाराज सृष्टयोर्वज्रयोरिव ॥ ३७ ॥
वेगवत्या तया तत्र भीमसेनप्रमुक्तया ।निपतन्त्या महाराज पृथिवी समकम्पत ॥ ३८ ॥
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे ।मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् ॥ ३९ ॥
स सव्यं मण्डलं राजन्नुद्भ्राम्य कृतनिश्चयः ।आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया ॥ ४० ॥
तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः ।नाकम्पत महाराज तदद्भुतमिवाभवत् ॥ ४१ ॥
आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् ।यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् ॥ ४२ ॥
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् ।दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः ॥ ४३ ॥
तं प्रहारमसंभ्रान्तो लाघवेन महाबलः ।मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् ॥ ४४ ॥
सा तु मोघा गदा राजन्पतन्ती भीमचोदिता ।चालयामास पृथिवीं महानिर्घातनिस्वना ॥ ४५ ॥
आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः ।गदानिपातं प्रज्ञाय भीमसेनमवञ्चयत् ॥ ४६ ॥
वञ्चयित्वा तथा भीमं गदया कुरुसत्तमः ।ताडयामास संक्रुद्धो वक्षोदेशे महाबलः ॥ ४७ ॥
गदयाभिहतो भीमो मुह्यमानो महारणे ।नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव ॥ ४८ ॥
तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः ।भृशोपहतसंकल्पा नहृष्टमनसोऽभवन् ॥ ४९ ॥
स तु तेन प्रहारेण मातङ्ग इव रोषितः ।हस्तिवद्धस्तिसंकाशमभिदुद्राव ते सुतम् ॥ ५० ॥
ततस्तु रभसो भीमो गदया तनयं तव ।अभिदुद्राव वेगेन सिंहो वनगजं यथा ॥ ५१ ॥
उपसृत्य तु राजानं गदामोक्षविशारदः ।आविध्यत गदां राजन्समुद्दिश्य सुतं तव ॥ ५२ ॥
अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा ।स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् ॥ ५३ ॥
तस्मिंस्तु भरतश्रेष्ठे जानुभ्यामवनीं गते ।उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते ॥ ५४ ॥
तेषां तु निनदं श्रुत्वा सृञ्जयानां नरर्षभः ।अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत ॥ ५५ ॥
उत्थाय तु महाबाहुः क्रुद्धो नाग इव श्वसन् ।दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत ॥ ५६ ॥
ततः स भरतश्रेष्ठो गदापाणिरभिद्रवत् ।प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे ॥ ५७ ॥
स महात्मा महात्मानं भीमं भीमपराक्रमः ।अताडयच्छङ्खदेशे स चचालाचलोपमः ॥ ५८ ॥
स भूयः शुशुभे पार्थस्ताडितो गदया रणे ।उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्जरः ॥ ५९ ॥
ततो गदां वीरहणीमयस्मयीं प्रगृह्य वज्राशनितुल्यनिस्वनाम् ।अताडयच्छत्रुममित्रकर्शनो बलेन विक्रम्य धनंजयाग्रजः ॥ ६० ॥
स भीमसेनाभिहतस्तवात्मजः पपात संकम्पितदेहबन्धनः ।सुपुष्पितो मारुतवेगताडितो महावने साल इवावघूर्णितः ॥ ६१ ॥
ततः प्रणेदुर्जहृषुश्च पाण्डवाः समीक्ष्य पुत्रं पतितं क्षितौ तव ।ततः सुतस्ते प्रतिलभ्य चेतनां समुत्पपात द्विरदो यथा ह्रदात् ॥ ६२ ॥
स पार्थिवो नित्यममर्षितस्तदा महारथः शिक्षितवत्परिभ्रमन् ।अताडयत्पाण्डवमग्रतः स्थितं स विह्वलाङ्गो जगतीमुपास्पृशत् ॥ ६३ ॥
स सिंहनादान्विननाद कौरवो निपात्य भूमौ युधि भीममोजसा ।बिभेद चैवाशनितुल्यतेजसा गदानिपातेन शरीररक्षणम् ॥ ६४ ॥
ततोऽन्तरिक्षे निनदो महानभूद्दिवौकसामप्सरसां च नेदुषाम् ।पपात चोच्चैरमरप्रवेरितं विचित्रपुष्पोत्करवर्षमुत्तमम् ॥ ६५ ॥
ततः परानाविशदुत्तमं भयं समीक्ष्य भूमौ पतितं नरोत्तमम् ।अहीयमानं च बलेन कौरवं निशम्य भेदं च दृढस्य वर्मणः ॥ ६६ ॥
ततो मुहूर्तादुपलभ्य चेतनां प्रमृज्य वक्त्रं रुधिरार्द्रमात्मनः ।धृतिं समालम्ब्य विवृत्तलोचनो बलेन संस्तभ्य वृकोदरः स्थितः ॥ ६७ ॥
« »