Click on words to see what they mean.

वैशंपायन उवाच ।कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश्च सात्वतः ।आश्रमं सुमहद्दिव्यमगमज्जनमेजय ॥ १ ॥
मधूकाम्रवनोपेतं प्लक्षन्यग्रोधसंकुलम् ।चिरिबिल्वयुतं पुण्यं पनसार्जुनसंकुलम् ॥ २ ॥
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् ।पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम् ॥ ३ ॥
ते तु सर्वे महात्मानमूचू राजन्हलायुधम् ।शृणु विस्तरतो राम यस्यायं पूर्वमाश्रमः ॥ ४ ॥
अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् ।अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः ॥ ५ ॥
अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी ।योगयुक्ता दिवं याता तपःसिद्धा तपस्विनी ॥ ६ ॥
बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः ।सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी ॥ ७ ॥
सा तु प्राप्य परं योगं गता स्वर्गमनुत्तमम् ।भुक्त्वाश्रमेऽश्वमेधस्य फलं फलवतां शुभा ।गता स्वर्गं महाभागा पूजिता नियतात्मभिः ॥ ८ ॥
अभिगम्याश्रमं पुण्यं दृष्ट्वा च यदुपुंगवः ।ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः ।स्कन्धावाराणि सर्वाणि निवर्त्यारुरुहेऽचलम् ॥ ९ ॥
नातिदूरं ततो गत्वा नगं तालध्वजो बली ।पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः ॥ १० ॥
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः ।संप्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् ॥ ११ ॥
हलायुधस्तत्र चापि दत्त्वा दानं महाबलः ।आप्लुतः सलिले शीते तस्माच्चापि जगाम ह ।आश्रमं परमप्रीतो मित्रस्य वरुणस्य च ॥ १२ ॥
इन्द्रोऽग्निरर्यमा चैव यत्र प्राक्प्रीतिमाप्नुवन् ।तं देशं कारपचनाद्यमुनायां जगाम ह ॥ १३ ॥
स्नात्वा तत्रापि धर्मात्मा परां तुष्टिमवाप्य च ।ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः ।उपविष्टः कथाः शुभ्राः शुश्राव यदुपुंगवः ॥ १४ ॥
तथा तु तिष्ठतां तेषां नारदो भगवानृषिः ।आजगामाथ तं देशं यत्र रामो व्यवस्थितः ॥ १५ ॥
जटामण्डलसंवीतः स्वर्णचीरी महातपाः ।हेमदण्डधरो राजन्कमण्डलुधरस्तथा ॥ १६ ॥
कच्छपीं सुखशब्दां तां गृह्य वीणां मनोरमाम् ।नृत्ये गीते च कुशलो देवब्राह्मणपूजितः ॥ १७ ॥
प्रकर्ता कलहानां च नित्यं च कलहप्रियः ।तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः ॥ १८ ॥
प्रत्युत्थाय तु ते सर्वे पूजयित्वा यतव्रतम् ।देवर्षिं पर्यपृच्छन्त यथावृत्तं कुरून्प्रति ॥ १९ ॥
ततोऽस्याकथयद्राजन्नारदः सर्वधर्मवित् ।सर्वमेव यथावृत्तमतीतं कुरुसंक्षयम् ॥ २० ॥
ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा ।किमवस्थं तु तत्क्षत्रं ये च तत्राभवन्नृपाः ॥ २१ ॥
श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन ।विस्तरश्रवणे जातं कौतूहलमतीव मे ॥ २२ ॥
नारद उवाच ।पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा ।हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः ॥ २३ ॥
भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् ।एते चान्ये च बहवस्तत्र तत्र महाबलाः ॥ २४ ॥
प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै ।राजानो राजपुत्राश्च समरेष्वनिवर्तिनः ॥ २५ ॥
अहतांस्तु महाबाहो शृणु मे तत्र माधव ।धार्तराष्ट्रबले शेषाः कृपो भोजश्च वीर्यवान् ।अश्वत्थामा च विक्रान्तो भग्नसैन्या दिशो गताः ॥ २६ ॥
दुर्योधनो हते सैन्ये प्रद्रुतेषु कृपादिषु ।ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः ॥ २७ ॥
शयानं धार्तराष्ट्रं तु स्तम्भिते सलिले तदा ।पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन् ॥ २८ ॥
स तुद्यमानो बलवान्वाग्भी राम समन्ततः ।उत्थितः प्राग्घ्रदाद्वीरः प्रगृह्य महतीं गदाम् ॥ २९ ॥
स चाप्युपगतो युद्धं भीमेन सह सांप्रतम् ।भविष्यति च तत्सद्यस्तयो राम सुदारुणम् ॥ ३० ॥
यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् ।पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे ॥ ३१ ॥
वैशंपायन उवाच ।नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् ।सर्वान्विसर्जयामास ये तेनाभ्यागताः सह ।गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः ॥ ३२ ॥
सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् ।ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत् ।विप्राणां संनिधौ श्लोकमगायदिदमच्युतः ॥ ३३ ॥
सरस्वतीवाससमा कुतो रतिः सरस्वतीवाससमाः कुतो गुणाः ।सरस्वतीं प्राप्य दिवं गता जनाः सदा स्मरिष्यन्ति नदीं सरस्वतीम् ॥ ३४ ॥
सरस्वती सर्वनदीषु पुण्या सरस्वती लोकसुखावहा सदा ।सरस्वतीं प्राप्य जनाः सुदुष्कृताः सदा न शोचन्ति परत्र चेह च ॥ ३५ ॥
ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् ।हयैर्युक्तं रथं शुभ्रमातिष्ठत परंतपः ॥ ३६ ॥
स शीघ्रगामिना तेन रथेन यदुपुंगवः ।दिदृक्षुरभिसंप्राप्तः शिष्ययुद्धमुपस्थितम् ॥ ३७ ॥
« »