Click on words to see what they mean.

संजय उवाच ।एवमुक्तस्ततो राजा गौतमेन यशस्विना ।निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशां पते ॥ १ ॥
ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः ।कृपं शारद्वतं वाक्यमित्युवाच परंतपः ॥ २ ॥
यत्किंचित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् ।कृतं च भवता सर्वं प्राणान्संत्यज्य युध्यता ॥ ३ ॥
गाहमानमनीकानि युध्यमानं महारथैः ।पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ॥ ४ ॥
सुहृदा यदिदं वाच्यं भवता श्रावितो ह्यहम् ।न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ॥ ५ ॥
हेतुकारणसंयुक्तं हितं वचनमुत्तमम् ।उच्यमानं महाबाहो न मे विप्राग्र्य रोचते ॥ ६ ॥
राज्याद्विनिकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत् ।अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः ।स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ॥ ७ ॥
तथा दौत्येन संप्राप्तः कृष्णः पार्थहिते रतः ।प्रलब्धश्च हृषीकेशस्तच्च कर्म विरोधितम् ।स च मे वचनं ब्रह्मन्कथमेवाभिमंस्यते ॥ ८ ॥
विललाप हि यत्कृष्णा सभामध्ये समेयुषी ।न तन्मर्षयते कृष्णो न राज्यहरणं तथा ॥ ९ ॥
एकप्राणावुभौ कृष्णावन्योन्यं प्रति संहतौ ।पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ॥ १० ॥
स्वस्रीयं च हतं श्रुत्वा दुःखं स्वपिति केशवः ।कृतागसो वयं तस्य स मदर्थं कथं क्षमेत् ॥ ११ ॥
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः ।स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ॥ १२ ॥
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः ।प्रतिज्ञातं च तेनोग्रं स भज्येत न संनमेत् ॥ १३ ॥
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ ।कृतवैरावुभौ वीरौ यमावपि यमोपमौ ॥ १४ ॥
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह ।तौ कथं मद्धिते यत्नं प्रकुर्यातां द्विजोत्तम ॥ १५ ॥
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला ।परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ॥ १६ ॥
तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः ।न निवारयितुं शक्याः संग्रामात्ते परंतपाः ॥ १७ ॥
यदा च द्रौपदी कृष्णा मद्विनाशाय दुःखिता ।उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये ।स्थण्डिले नित्यदा शेते यावद्वैरस्य यातना ॥ १८ ॥
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा ।कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ॥ १९ ॥
इति सर्वं समुन्नद्धं न निर्वाति कथंचन ।अभिमन्योर्विनाशेन स संधेयः कथं मया ॥ २० ॥
कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम् ।पाण्डवानां प्रसादेन भुञ्जीयां राज्यमल्पकम् ॥ २१ ॥
उपर्युपरि राज्ञां वै ज्वलितो भास्करो यथा ।युधिष्ठिरं कथं पश्चादनुयास्यामि दासवत् ॥ २२ ॥
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् ।कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ॥ २३ ॥
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया ।न तु संधिमहं मन्ये प्राप्तकालं कथंचन ॥ २४ ॥
सुनीतमनुपश्यामि सुयुद्धेन परंतप ।नायं क्लीबयितुं कालः संयोद्धुं काल एव नः ॥ २५ ॥
इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः ।प्राप्ताः क्रमश्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् ॥ २६ ॥
भृत्या मे सुभृतास्तात दीनश्चाभ्युद्धृतो जनः ।यातानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् ॥ २७ ॥
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया ।पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः ॥ २८ ॥
न ध्रुवं सुखमस्तीह कुतो राज्यं कुतो यशः ।इह कीर्तिर्विधातव्या सा च युद्धेन नान्यथा ॥ २९ ॥
गृहे यत्क्षत्रियस्यापि निधनं तद्विगर्हितम् ।अधर्मः सुमहानेष यच्छय्यामरणं गृहे ॥ ३० ॥
अरण्ये यो विमुञ्चेत संग्रामे वा तनुं नरः ।क्रतूनाहृत्य महतो महिमानं स गच्छति ॥ ३१ ॥
कृपणं विलपन्नार्तो जरयाभिपरिप्लुतः ।म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः ॥ ३२ ॥
त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् ।अपीदानीं सुयुद्धेन गच्छेयं सत्सलोकताम् ॥ ३३ ॥
शूराणामार्यवृत्तानां संग्रामेष्वनिवर्तिनाम् ।धीमतां सत्यसंधानां सर्वेषां क्रतुयाजिनाम् ॥ ३४ ॥
शस्त्रावभृथमाप्तानां ध्रुवं वासस्त्रिविष्टपे ।मुदा नूनं प्रपश्यन्ति शुभ्रा ह्यप्सरसां गणाः ॥ ३५ ॥
पश्यन्ति नूनं पितरः पूजिताञ्शक्रसंसदि ।अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे ॥ ३६ ॥
पन्थानममरैर्यातं शूरैश्चैवानिवर्तिभिः ।अपि तैः संगतं मार्गं वयमप्यारुहेमहि ॥ ३७ ॥
पितामहेन वृद्धेन तथाचार्येण धीमता ।जयद्रथेन कर्णेन तथा दुःशासनेन च ॥ ३८ ॥
घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः ।शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः ॥ ३९ ॥
उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः ।त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठिताः ॥ ४० ॥
तैस्त्वयं रचितः पन्था दुर्गमो हि पुनर्भवेत् ।संपतद्भिर्महावेगैरितो याद्भिश्च सद्गतिम् ॥ ४१ ॥
ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् ।ऋणं तत्प्रतिमुञ्चानो न राज्ये मन आदधे ॥ ४२ ॥
पातयित्वा वयस्यांश्च भ्रातॄनथ पितामहान् ।जीवितं यदि रक्षेयं लोको मां गर्हयेद्ध्रुवम् ॥ ४३ ॥
कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः ।सखिभिश्च सुहृद्भिश्च प्रणिपत्य च पाण्डवम् ॥ ४४ ॥
सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् ।सुयुद्धेन ततः स्वर्गं प्राप्स्यामि न तदन्यथा ॥ ४५ ॥
एवं दुर्योधनेनोक्तं सर्वे संपूज्य तद्वचः ।साधु साध्विति राजानं क्षत्रियाः संबभाषिरे ॥ ४६ ॥
पराजयमशोचन्तः कृतचित्ताश्च विक्रमे ।सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् ॥ ४७ ॥
ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः ।ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः ॥ ४८ ॥
आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे ।अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तज्जलम् ॥ ४९ ॥
तव पुत्राः कृतोत्साहाः पर्यवर्तन्त ते ततः ।पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा ।सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः ॥ ५० ॥
« »