Click on words to see what they mean.

वैशंपायन उवाच ।तस्मान्नदीगतं चापि उदपानं यशस्विनः ।त्रितस्य च महाराज जगामाथ हलायुधः ॥ १ ॥
तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान् ।उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः ॥ २ ॥
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः ।कूपे च वसता तेन सोमः पीतो महात्मना ॥ ३ ॥
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् ।ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः ॥ ४ ॥
जनमेजय उवाच ।उदपानं कथं ब्रह्मन्कथं च सुमहातपाः ।पतितः किं च संत्यक्तो भ्रातृभ्यां द्विजसत्तमः ॥ ५ ॥
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् ।एतदाचक्ष्व मे ब्रह्मन्यदि श्राव्यं हि मन्यसे ॥ ६ ॥
वैशंपायन उवाच ।आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः ।एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः ॥ ७ ॥
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च ।ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः ॥ ८ ॥
तेषां तु तपसा प्रीतो नियमेन दमेन च ।अभवद्गौतमो नित्यं पिता धर्मरतः सदा ॥ ९ ॥
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च ।जगाम भगवान्स्थानमनुरूपमिवात्मनः ॥ १० ॥
राजानस्तस्य ये पूर्वे याज्या ह्यासन्महात्मनः ।ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् ॥ ११ ॥
तेषां तु कर्मणा राजंस्तथैवाध्ययनेन च ।त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा ॥ १२ ॥
तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः ।अपूजयन्महाभागं तथा विद्वत्तयैव तु ॥ १३ ॥
कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ ।यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः ॥ १४ ॥
तयोश्चिन्ता समभवत्त्रितं गृह्य परंतप ।याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः ॥ १५ ॥
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् ।चक्रुश्चैव महाराज भ्रातरस्त्रय एव ह ॥ १६ ॥
तथा तु ते परिक्रम्य याज्यान्सर्वान्पशून्प्रति ।याजयित्वा ततो याज्याँल्लब्ध्वा च सुबहून्पशून् ॥ १७ ॥
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः ।प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः ॥ १८ ॥
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् ।एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् ॥ १९ ॥
तयोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत् ।कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम् ॥ २० ॥
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह ।यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर ॥ २१ ॥
त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः ।अन्यास्त्रितो बहुतरा गावः समुपलप्स्यते ॥ २२ ॥
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे ।त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः ॥ २३ ॥
तेषामागच्छतां रात्रौ पथिस्थाने वृकोऽभवत् ।तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान् ॥ २४ ॥
अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः ।तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह ।अगाधे सुमहाघोरे सर्वभूतभयंकरे ॥ २५ ॥
त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः ।आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी ॥ २६ ॥
तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ ।वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः ॥ २७ ॥
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः ।उदपाने महाराज निर्जले पांसुसंवृते ॥ २८ ॥
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते ।निमग्नं भरतश्रेष्ठ पापकृन्नरके यथा ॥ २९ ॥
बुद्ध्या ह्यगणयत्प्राज्ञो मृत्योर्भीतो ह्यसोमपः ।सोमः कथं नु पातव्य इहस्थेन मया भवेत् ॥ ३० ॥
स एवमनुसंचिन्त्य तस्मिन्कूपे महातपाः ।ददर्श वीरुधं तत्र लम्बमानां यदृच्छया ॥ ३१ ॥
पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः ।अग्नीन्संकल्पयामास होत्रे चात्मानमेव च ॥ ३२ ॥
ततस्तां वीरुधं सोमं संकल्प्य सुमहातपाः ।ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः ।ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप ॥ ३३ ॥
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् ।सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम् ॥ ३४ ॥
स चाविशद्दिवं राजन्स्वरः शैक्षस्त्रितस्य वै ।समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः ॥ ३५ ॥
वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः ।आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते ॥ ३६ ॥
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः ।श्रुत्वा चैवाब्रवीद्देवान्सर्वान्देवपुरोहितः ॥ ३७ ॥
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः ।स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः ॥ ३८ ॥
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः ।प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते ॥ ३९ ॥
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः ।ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु ॥ ४० ॥
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम् ।ऊचुश्चाथ महाभागं प्राप्ता भागार्थिनो वयम् ॥ ४१ ॥
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः ।अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् ॥ ४२ ॥
ततस्त्रितो महाराज भागांस्तेषां यथाविधि ।मन्त्रयुक्तान्समददात्ते च प्रीतास्तदाभवन् ॥ ४३ ॥
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः ।प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति ॥ ४४ ॥
स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः ।यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत् ॥ ४५ ॥
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती ।तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः ॥ ४६ ॥
तथेति चोक्त्वा विबुधा जग्मू राजन्यथागतम् ।त्रितश्चाप्यगमत्प्रीतः स्वमेव निलयं तदा ॥ ४७ ॥
क्रुद्धः स तु समासाद्य तावृषी भ्रातरौ तदा ।उवाच परुषं वाक्यं शशाप च महातपाः ॥ ४८ ॥
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ ।तस्माद्रूपेण तेषां वै दंष्ट्रिणामभितश्चरौ ॥ ४९ ॥
भवितारौ मया शप्तौ पापेनानेन कर्मणा ।प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः ॥ ५० ॥
इत्युक्ते तु तदा तेन क्षणादेव विशां पते ।तथाभूतावदृश्येतां वचनात्सत्यवादिनः ॥ ५१ ॥
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः ।दत्त्वा च विविधान्दायान्पूजयित्वा च वै द्विजान् ॥ ५२ ॥
उदपानं च तं दृष्ट्वा प्रशस्य च पुनः पुनः ।नदीगतमदीनात्मा प्राप्तो विनशनं तदा ॥ ५३ ॥
« »