Click on words to see what they mean.

जनमेजय उवाच ।पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते ।आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः ॥ १ ॥
साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव ।न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् ॥ २ ॥
एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः ।तस्य चागमनं भूयो ब्रह्मञ्शंसितुमर्हसि ॥ ३ ॥
आख्याहि मे विस्तरतः कथं राम उपस्थितः ।कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम ॥ ४ ॥
वैशंपायन उवाच ।उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु ।प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः ।शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम् ॥ ५ ॥
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च ।उक्तवान्वचनं तथ्यं हितं चैव विशेषतः ।न च तत्कृतवान्राजा यथाख्यातं हि ते पुरा ॥ ६ ॥
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः ।आगच्छत महाबाहुरुपप्लव्यं जनाधिप ॥ ७ ॥
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः ।अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत् ॥ ८ ॥
न कुर्वन्ति वचो मह्यं कुरवः कालचोदिताः ।निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया ॥ ९ ॥
ततो विभज्यमानेषु बलेषु बलिनां वरः ।प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः ॥ १० ॥
तेषामपि महाबाहो साहाय्यं मधुसूदन ।क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा ॥ ११ ॥
ततो मन्युपरीतात्मा जगाम यदुनन्दनः ।तीर्थयात्रां हलधरः सरस्वत्यां महायशाः ।मैत्रे नक्षत्रयोगे स्म सहितः सर्वयादवैः ॥ १२ ॥
आश्रयामास भोजस्तु दुर्योधनमरिंदमः ।युयुधानेन सहितो वासुदेवस्तु पाण्डवान् ॥ १३ ॥
रौहिणेये गते शूरे पुष्येण मधुसूदनः ।पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कुरून् ॥ १४ ॥
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह ।संभारांस्तीर्थयात्रायां सर्वोपकरणानि च ।आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा ॥ १५ ॥
सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः ।कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च ।क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम् ॥ १६ ॥
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः ।ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान् ॥ १७ ॥
एवं संदिश्य तु प्रेष्यान्बलदेवो महाबलः ।तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा ।सरस्वतीं प्रतिस्रोतः समुद्रादभिजग्मिवान् ॥ १८ ॥
ऋत्विग्भिश्च सुहृद्भिश्च तथान्यैर्द्विजसत्तमैः ।रथैर्गजैस्तथाश्वैश्च प्रेष्यैश्च भरतर्षभ ।गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः ॥ १९ ॥
श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम् ।तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत ।बुभुक्षितानामर्थाय कॢप्तमन्नं समन्ततः ॥ २० ॥
यो यो यत्र द्विजो भोक्तुं कामं कामयते तदा ।तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप ॥ २१ ॥
तत्र स्थिता नरा राजन्रौहिणेयस्य शासनात् ।भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः ॥ २२ ॥
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च ।पूजार्थं तत्र कॢप्तानि विप्राणां सुखमिच्छताम् ॥ २३ ॥
यत्र यः स्वपते विप्रः क्षत्रियो वापि भारत ।तत्र तत्र तु तस्यैव सर्वं कॢप्तमदृश्यत ॥ २४ ॥
यथासुखं जनः सर्वस्तिष्ठते याति वा तदा ।यातुकामस्य यानानि पानानि तृषितस्य च ॥ २५ ॥
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ ।उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च ॥ २६ ॥
स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः ।स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम् ॥ २७ ॥
नित्यप्रमुदितोपेतः स्वादुभक्षः शुभान्वितः ।विपण्यापणपण्यानां नानाजनशतैर्वृतः ।नानाद्रुमलतोपेतो नानारत्नविभूषितः ॥ २८ ॥
ततो महात्मा नियमे स्थितात्मा पुण्येषु तीर्थेषु वसूनि राजन् ।ददौ द्विजेभ्यः क्रतुदक्षिणाश्च यदुप्रवीरो हलभृत्प्रतीतः ॥ २९ ॥
दोग्ध्रीश्च धेनूश्च सहस्रशो वै सुवाससः काञ्चनबद्धशृङ्गीः ।हयांश्च नानाविधदेशजातान्यानानि दासीश्च तथा द्विजेभ्यः ॥ ३० ॥
रत्नानि मुक्तामणिविद्रुमं च शृङ्गीसुवर्णं रजतं च शुभ्रम् ।अयस्मयं ताम्रमयं च भाण्डं ददौ द्विजातिप्रवरेषु रामः ॥ ३१ ॥
एवं स वित्तं प्रददौ महात्मा सरस्वतीतीर्थवरेषु भूरि ।ययौ क्रमेणाप्रतिमप्रभावस्ततः कुरुक्षेत्रमुदारवृत्तः ॥ ३२ ॥
जनमेजय उवाच ।सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे ।फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च ॥ ३३ ॥
यथाक्रमं च भगवंस्तीर्थानामनुपूर्वशः ।ब्रह्मन्ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे ॥ ३४ ॥
वैशंपायन उवाच ।तीर्थानां विस्तरं राजन्गुणोत्पत्तिं च सर्वशः ।मयोच्यमानां शृणु वै पुण्यां राजेन्द्र कृत्स्नशः ॥ ३५ ॥
पूर्वं महाराज यदुप्रवीर ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् ।पुण्यं प्रभासं समुपाजगाम यत्रोडुराड्यक्ष्मणा क्लिश्यमानः ॥ ३६ ॥
विमुक्तशापः पुनराप्य तेजः सर्वं जगद्भासयते नरेन्द्र ।एवं तु तीर्थप्रवरं पृथिव्यां प्रभासनात्तस्य ततः प्रभासः ॥ ३७ ॥
जनमेजय उवाच ।किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत ।कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत ॥ ३८ ॥
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी ।एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ॥ ३९ ॥
वैशंपायन उवाच ।दक्षस्य तनया यास्ताः प्रादुरासन्विशां पते ।स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ ॥ ४० ॥
नक्षत्रयोगनिरताः संख्यानार्थं च भारत ।पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभलक्षणाः ॥ ४१ ॥
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि ।अत्यरिच्यत तासां तु रोहिणी रूपसंपदा ॥ ४२ ॥
ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः ।सास्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा ॥ ४३ ॥
पुरा हि सोमो राजेन्द्र रोहिण्यामवसच्चिरम् ।ततोऽस्य कुपितान्यासन्नक्षत्राणि महात्मनः ॥ ४४ ॥
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः ।सोमो वसति नास्मासु रोहिणीं भजते सदा ॥ ४५ ॥
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर ।वत्स्यामो नियताहारास्तपश्चरणतत्पराः ॥ ४६ ॥
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् ।समं वर्तस्व भार्यासु मा त्वाधर्मो महान्स्पृशेत् ॥ ४७ ॥
ताश्च सर्वाब्रवीद्दक्षो गच्छध्वं सोममन्तिकात् ।समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् ॥ ४८ ॥
विसृष्टास्तास्तदा जग्मुः शीतांशुभवनं तदा ।तथापि सोमो भगवान्पुनरेव महीपते ।रोहिणीं निवसत्येव प्रीयमाणो मुहुर्मुहुः ॥ ४९ ॥
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् ।तव शुश्रूषणे युक्ता वत्स्यामो हि तवाश्रमे ।सोमो वसति नास्मासु नाकरोद्वचनं तव ॥ ५० ॥
तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् ।समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन ॥ ५१ ॥
अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी ।रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः ॥ ५२ ॥
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा ।सोमो वसति नास्मासु तस्मान्नः शरणं भव ॥ ५३ ॥
रोहिण्यामेव भगवन्सदा वसति चन्द्रमाः ।तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत् ॥ ५४ ॥
तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते ।ससर्ज रोषात्सोमाय स चोडुपतिमाविशत् ॥ ५५ ॥
स यक्ष्मणाभिभूतात्माक्षीयताहरहः शशी ।यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः ॥ ५६ ॥
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः ।न चामुच्यत शापाद्वै क्षयं चैवाभ्यगच्छत ॥ ५७ ॥
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे ।निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः ॥ ५८ ॥
ओषधीनां क्षये जाते प्राणिनामपि संक्षयः ।कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे ॥ ५९ ॥
ततो देवाः समागम्य सोममूचुर्महीपते ।किमिदं भवतो रूपमीदृशं न प्रकाशते ॥ ६० ॥
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम् ।श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम् ॥ ६१ ॥
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः ।शापं च कारणं चैव यक्ष्माणं च तथात्मनः ॥ ६२ ॥
देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाब्रुवन् ।प्रसीद भगवन्सोमे शापश्चैष निवर्त्यताम् ॥ ६३ ॥
असौ हि चन्द्रमाः क्षीणः किंचिच्छेषो हि लक्ष्यते ।क्षयाच्चैवास्य देवेश प्रजाश्चापि गताः क्षयम् ॥ ६४ ॥
वीरुदोषधयश्चैव बीजानि विविधानि च ।तथा वयं लोकगुरो प्रसादं कर्तुमर्हसि ॥ ६५ ॥
एवमुक्तस्तदा चिन्त्य प्राह वाक्यं प्रजापतिः ।नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा ।हेतुना तु महाभागा निवर्तिष्यति केनचित् ॥ ६६ ॥
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः ।सरस्वत्या वरे तीर्थे उन्मज्जञ्शशलक्षणः ।पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम ॥ ६७ ॥
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति ।मासार्धं च सदा वृद्धिं सत्यमेतद्वचो मम ॥ ६८ ॥
सरस्वतीं ततः सोमो जगाम ऋषिशासनात् ।प्रभासं परमं तीर्थं सरस्वत्या जगाम ह ॥ ६९ ॥
अमावास्यां महातेजास्तत्रोन्मज्जन्महाद्युतिः ।लोकान्प्रभासयामास शीतांशुत्वमवाप च ॥ ७० ॥
देवाश्च सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम् ।सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् ॥ ७१ ॥
ततः प्रजापतिः सर्वा विससर्जाथ देवताः ।सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत् ॥ ७२ ॥
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन ।गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम ॥ ७३ ॥
स विसृष्टो महाराज जगामाथ स्वमालयम् ।प्रजाश्च मुदिता भूत्वा भोजने च यथा पुरा ॥ ७४ ॥
एतत्ते सर्वमाख्यातं यथा शप्तो निशाकरः ।प्रभासं च यथा तीर्थं तीर्थानां प्रवरं ह्यभूत् ॥ ७५ ॥
अमावास्यां महाराज नित्यशः शशलक्षणः ।स्नात्वा ह्याप्यायते श्रीमान्प्रभासे तीर्थ उत्तमे ॥ ७६ ॥
अतश्चैनं प्रजानन्ति प्रभासमिति भूमिप ।प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः ॥ ७७ ॥
ततस्तु चमसोद्भेदमच्युतस्त्वगमद्बली ।चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत ॥ ७८ ॥
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः ।उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा ॥ ७९ ॥
उदपानमथागच्छत्त्वरावान्केशवाग्रजः ।आद्यं स्वस्त्ययनं चैव तत्रावाप्य महत्फलम् ॥ ८० ॥
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय ।जानन्ति सिद्धा राजेन्द्र नष्टामपि सरस्वतीम् ॥ ८१ ॥
« »