Click on words to see what they mean.

संजय उवाच ।तस्मिन्प्रवृत्ते संग्रामे नरवाजिगजक्षये ।शकुनिः सौबलो राजन्सहदेवं समभ्ययात् ॥ १ ॥
ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान् ।शरौघान्प्रेषयामास पतंगानिव शीघ्रगान् ।उलूकश्च रणे भीमं विव्याध दशभिः शरैः ॥ २ ॥
शकुनिस्तु महाराज भीमं विद्ध्वा त्रिभिः शरैः ।सायकानां नवत्या वै सहदेवमवाकिरत् ॥ ३ ॥
ते शूराः समरे राजन्समासाद्य परस्परम् ।विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः ।स्वर्णपुङ्खैः शिलाधौतैरा कर्णात्प्रहितैः शरैः ॥ ४ ॥
तेषां चापभुजोत्सृष्टा शरवृष्टिर्विशां पते ।आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः ॥ ५ ॥
ततः क्रुद्धो रणे भीमः सहदेवश्च भारत ।चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ ॥ ६ ॥
ताभ्यां शरशतैश्छन्नं तद्बलं तव भारत ।अन्धकारमिवाकाशमभवत्तत्र तत्र ह ॥ ७ ॥
अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशां पते ।तत्र तत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून् ॥ ८ ॥
निहतानां हयानां च सहैव हययोधिभिः ।वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष ।संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव ॥ ९ ॥
योधास्तत्र महाराज समासाद्य परस्परम् ।व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् ॥ १० ॥
उद्वृत्तनयनै रोषात्संदष्टौष्ठपुटैर्मुखैः ।सकुण्डलैर्मही छन्ना पद्मकिञ्जल्कसंनिभैः ॥ ११ ॥
भुजैश्छिन्नैर्महाराज नागराजकरोपमैः ।साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वधैः ॥ १२ ॥
कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि ।क्रव्यादगणसंकीर्णा घोराभूत्पृथिवी विभो ॥ १३ ॥
अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे ।प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् ॥ १४ ॥
एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् ।प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ।स विह्वलो महाराज रथोपस्थ उपाविशत् ॥ १५ ॥
सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान् ।सर्वसैन्यानि संक्रुद्धो वारयामास भारत ॥ १६ ॥
निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः ।विनिर्भिद्याकरोच्चैव सिंहनादमरिंदम ॥ १७ ॥
तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः ।प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः ॥ १८ ॥
प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत् ।निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ १९ ॥
इह कीर्तिं समाधाय प्रेत्य लोकान्समश्नुते ।प्राणाञ्जहाति यो वीरो युधि पृष्ठमदर्शयन् ॥ २० ॥
एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः ।पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥ २१ ॥
द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः ।क्षुब्धसागरसंकाशः क्षुभितः सर्वतोऽभवत् ॥ २२ ॥
तांस्तदापततो दृष्ट्वा सौबलस्य पदानुगान् ।प्रत्युद्ययुर्महाराज पाण्डवा विजये वृताः ॥ २३ ॥
प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशां पते ।शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः ।धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव ॥ २४ ॥
अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः ।विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः ॥ २५ ॥
उलूकोऽपि महाराज भीमं विव्याध सप्तभिः ।सहदेवं च सप्तत्या परीप्सन्पितरं रणे ॥ २६ ॥
तं भीमसेनः समरे विव्याध निशितैः शरैः ।शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः ॥ २७ ॥
ते हन्यमाना भीमेन नाराचैस्तैलपायितैः ।सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः ।पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः ॥ २८ ॥
ततोऽस्यापततः शूरः सहदेवः प्रतापवान् ।उलूकस्य महाराज भल्लेनापाहरच्छिरः ॥ २९ ॥
स जगाम रथाद्भूमिं सहदेवेन पातितः ।रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि ॥ ३० ॥
पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत ।साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् ॥ ३१ ॥
चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् ।सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः ॥ ३२ ॥
तानपास्य शरान्मुक्ताञ्शरसंघैः प्रतापवान् ।सहदेवो महाराज धनुश्चिच्छेद संयुगे ॥ ३३ ॥
छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा ।प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत् ॥ ३४ ॥
तमापतन्तं सहसा घोररूपं विशां पते ।द्विधा चिच्छेद समरे सौबलस्य हसन्निव ॥ ३५ ॥
असिं दृष्ट्वा द्विधा छिन्नं प्रगृह्य महतीं गदाम् ।प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि ॥ ३६ ॥
ततः शक्तिं महाघोरां कालरात्रिमिवोद्यताम् ।प्रेषयामास संक्रुद्धः पाण्डवं प्रति सौबलः ॥ ३७ ॥
तामापतन्तीं सहसा शरैः काञ्चनभूषणैः ।त्रिधा चिच्छेद समरे सहदेवो हसन्निव ॥ ३८ ॥
सा पपात त्रिधा छिन्ना भूमौ कनकभूषणा ।शीर्यमाणा यथा दीप्ता गगनाद्वै शतह्रदा ॥ ३९ ॥
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् ।दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः ॥ ४० ॥
अथोत्क्रुष्टं महद्ध्यासीत्पाण्डवैर्जितकाशिभिः ।धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाभवन् ॥ ४१ ॥
तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् ।शरैरनेकसाहस्रैर्वारयामास संयुगे ॥ ४२ ॥
ततो गान्धारकैर्गुप्तं पृष्ठैरश्वैर्जये धृतम् ।आससाद रणे यान्तं सहदेवोऽथ सौबलम् ॥ ४३ ॥
स्वमंशमवशिष्टं स संस्मृत्य शकुनिं नृप ।रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् ।अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः ॥ ४४ ॥
स सौबलमभिद्रुत्य गृध्रपत्रैः शिलाशितैः ।भृशमभ्यहनत्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥ ४५ ॥
उवाच चैनं मेधावी निगृह्य स्मारयन्निव ।क्षत्रधर्मे स्थितो भूत्वा युध्यस्व पुरुषो भव ॥ ४६ ॥
यत्तदा हृष्यसे मूढ ग्लहन्नक्षैः सभातले ।फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते ॥ ४७ ॥
निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा ।दुर्योधनः कुलाङ्गारः शिष्टस्त्वं तस्य मातुलः ॥ ४८ ॥
अद्य ते विहनिष्यामि क्षुरेणोन्मथितं शिरः ।वृक्षात्फलमिवोद्धृत्य लगुडेन प्रमाथिना ॥ ४९ ॥
एवमुक्त्वा महाराज सहदेवो महाबलः ।संक्रुद्धो नरशार्दूलो वेगेनाभिजगाम ह ॥ ५० ॥
अभिगम्य तु दुर्धर्षः सहदेवो युधां पतिः ।विकृष्य बलवच्चापं क्रोधेन प्रहसन्निव ॥ ५१ ॥
शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः ।छत्रं ध्वजं धनुश्चास्य छित्त्वा सिंह इवानदत् ॥ ५२ ॥
छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः ।ततो विद्धश्च बहुभिः सर्वमर्मसु सायकैः ॥ ५३ ॥
ततो भूयो महाराज सहदेवः प्रतापवान् ।शकुनेः प्रेषयामास शरवृष्टिं दुरासदाम् ॥ ५४ ॥
ततस्तु क्रुद्धः सुबलस्य पुत्रो माद्रीसुतं सहदेवं विमर्दे ।प्रासेन जाम्बूनदभूषणेन जिघांसुरेकोऽभिपपात शीघ्रम् ॥ ५५ ॥
माद्रीसुतस्तस्य समुद्यतं तं प्रासं सुवृत्तौ च भुजौ रणाग्रे ।भल्लैस्त्रिभिर्युगपत्संचकर्त ननाद चोच्चैस्तरसाजिमध्ये ॥ ५६ ॥
तस्याशुकारी सुसमाहितेन सुवर्णपुङ्खेन दृढायसेन ।भल्लेन सर्वावरणातिगेन शिरः शरीरात्प्रममाथ भूयः ॥ ५७ ॥
शरेण कार्तस्वरभूषितेन दिवाकराभेन सुसंशितेन ।हृतोत्तमाङ्गो युधि पाण्डवेन पपात भूमौ सुबलस्य पुत्रः ॥ ५८ ॥
स तच्छिरो वेगवता शरेण सुवर्णपुङ्खेन शिलाशितेन ।प्रावेरयत्कुपितः पाण्डुपुत्रो यत्तत्कुरूणामनयस्य मूलम् ॥ ५९ ॥
हृतोत्तमाङ्गं शकुनिं समीक्ष्य भूमौ शयानं रुधिरार्द्रगात्रम् ।योधास्त्वदीया भयनष्टसत्त्वा दिशः प्रजग्मुः प्रगृहीतशस्त्राः ॥ ६० ॥
विप्रद्रुताः शुष्कमुखा विसंज्ञा गाण्डीवघोषेण समाहताश्च ।भयार्दिता भग्नरथाश्वनागाः पदातयश्चैव सधार्तराष्ट्राः ॥ ६१ ॥
ततो रथाच्छकुनिं पातयित्वा मुदान्विता भारत पाण्डवेयाः ।शङ्खान्प्रदध्मुः समरे प्रहृष्टाः सकेशवाः सैनिकान्हर्षयन्तः ॥ ६२ ॥
तं चापि सर्वे प्रतिपूजयन्तो हृष्टा ब्रुवाणाः सहदेवमाजौ ।दिष्ट्या हतो नैकृतिको दुरात्मा सहात्मजो वीर रणे त्वयेति ॥ ६३ ॥
« »