Click on words to see what they mean.

संजय उवाच ।वर्तमाने तथा युद्धे घोररूपे भयानके ।अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः ॥ १ ॥
तांस्तु यत्नेन महता संनिवार्य महारथान् ।पुत्रस्ते योधयामास पाण्डवानामनीकिनीम् ॥ २ ॥
निवृत्ताः सहसा योधास्तव पुत्रप्रियैषिणः ।संनिवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम् ॥ ३ ॥
तावकानां परेषां च देवासुररणोपमम् ।परेषां तव सैन्ये च नासीत्कश्चित्पराङ्मुखः ॥ ४ ॥
अनुमानेन युध्यन्ते संज्ञाभिश्च परस्परम् ।तेषां क्षयो महानासीद्युध्यतामितरेतरम् ॥ ५ ॥
ततो युधिष्ठिरो राजा क्रोधेन महता युतः ।जिगीषमाणः संग्रामे धार्तराष्ट्रान्सराजकान् ॥ ६ ॥
त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः ।चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः ॥ ७ ॥
अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् ।अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् ॥ ८ ॥
ततो दुर्योधनो राजा रथान्सप्तशतान्रणे ।प्रेषयद्यत्र राजासौ धर्मपुत्रो युधिष्ठिरः ॥ ९ ॥
ते रथा रथिभिर्युक्ता मनोमारुतरंहसः ।अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथं प्रति ॥ १० ॥
ते समन्तान्महाराज परिवार्य युधिष्ठिरम् ।अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम् ॥ ११ ॥
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः ।रथैरग्र्यजवैर्युक्तैः किङ्किणीजालसंवृतैः ।आजग्मुरभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् ॥ १२ ॥
ततः प्रववृते रौद्रः संग्रामः शोणितोदकः ।पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः ॥ १३ ॥
रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम् ।पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन् ॥ १४ ॥
तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः ।न च नस्तादृशं दृष्टं नैव चापि परिश्रुतम् ॥ १५ ॥
वर्तमाने तथा युद्धे निर्मर्यादे समन्ततः ।वध्यमानेषु योधेषु तावकेष्वितरेषु च ॥ १६ ॥
निनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः ।उत्कृष्टैः सिंहनादैश्च गर्जितेन च धन्विनाम् ॥ १७ ॥
अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु ।धावमानेषु योधेषु जयगृद्धिषु मारिष ॥ १८ ॥
संहारे सर्वतो जाते पृथिव्यां शोकसंभवे ।बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा ॥ १९ ॥
निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे ।प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः ।चचाल शब्दं कुर्वाणा सपर्वतवना मही ॥ २० ॥
सदण्डाः सोल्मुका राजञ्शीर्यमाणाः समन्ततः ।उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् ॥ २१ ॥
विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः ।अश्रूणि मुमुचुर्नागा वेपथुश्चास्पृशद्भृशम् ॥ २२ ॥
एतान्घोराननादृत्य समुत्पातान्सुदारुणान् ।पुनर्युद्धाय संमन्त्र्य क्षत्रियास्तस्थुरव्यथाः ।रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः ॥ २३ ॥
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् ।युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान् ॥ २४ ॥
ततो नः संप्रयातानां मद्रयोधास्तरस्विनः ।हृष्टाः किलकिलाशब्दमकुर्वन्तापरे तथा ॥ २५ ॥
अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः ।शरासनानि धुन्वन्तः शरवर्षैरवाकिरन् ॥ २६ ॥
ततो हतं परैस्तत्र मद्रराजबलं तदा ।दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम् ॥ २७ ॥
गान्धारराजस्तु पुनर्वाक्यमाह ततो बली ।निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ २८ ॥
अनीकं दशसाहस्रमश्वानां भरतर्षभ ।आसीद्गान्धारराजस्य विमलप्रासयोधिनाम् ॥ २९ ॥
बलेन तेन विक्रम्य वर्तमाने जनक्षये ।पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः ॥ ३० ॥
तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः ।अभज्यत महाराज पाण्डूनां सुमहद्बलम् ॥ ३१ ॥
ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात् ।अभ्यचोदयदव्यग्रः सहदेवं महाबलम् ॥ ३२ ॥
असौ सुबलपुत्रो नो जघनं पीड्य दंशितः ।सेनां निसूदयन्त्येष पश्य पाण्डव दुर्मतिम् ॥ ३३ ॥
गच्छ त्वं द्रौपदेयाश्च शकुनिं सौबलं जहि ।रथानीकमहं रक्ष्ये पाञ्चालसहितोऽनघ ॥ ३४ ॥
गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया ।पादाताश्च त्रिसाहस्राः शकुनिं सौबलं जहि ॥ ३५ ॥
ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः ।पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान् ॥ ३६ ॥
पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः ।रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम् ॥ ३७ ॥
ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान् ।जघान पृष्ठतः सेनां जयगृध्रः प्रतापवान् ॥ ३८ ॥
अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम् ।प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान् ॥ ३९ ॥
ते तत्र सादिनः शूराः सौबलस्य महद्बलम् ।गजमध्येऽवतिष्ठन्तः शरवर्षैरवाकिरन् ॥ ४० ॥
तदुद्यतगदाप्रासमकापुरुषसेवितम् ।प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव ॥ ४१ ॥
उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन् ।न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत ॥ ४२ ॥
शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ ।ज्योतिषामिव संपातमपश्यन्कुरुपाण्डवाः ॥ ४३ ॥
ऋष्टिभिर्विमलाभिश्च तत्र तत्र विशां पते ।संपतन्तीभिराकाशमावृतं बह्वशोभत ॥ ४४ ॥
प्रासानां पततां राजन्रूपमासीत्समन्ततः ।शलभानामिवाकाशे तदा भरतसत्तम ॥ ४५ ॥
रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः ।हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः ॥ ४६ ॥
अन्योन्यपरिपिष्टाश्च समासाद्य परस्परम् ।अविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः ॥ ४७ ॥
ततोऽभवत्तमो घोरं सैन्येन रजसा वृते ।तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिंदमान् ।अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति ॥ ४८ ॥
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु ।केशाकेशिसमालग्ना न शेकुश्चेष्टितुं जनाः ॥ ४९ ॥
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः ।मल्ला इव समासाद्य निजघ्नुरितरेतरम् ।अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः ॥ ५० ॥
भूमौ निपतिताश्चान्ये बहवो विजयैषिणः ।तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः ॥ ५१ ॥
रक्तोक्षितैश्छिन्नभुजैरपकृष्टशिरोरुहैः ।व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः ॥ ५२ ॥
दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित् ।साश्वारोहैर्हतैरश्वैरावृते वसुधातले ॥ ५३ ॥
रुधिरोक्षितसंनाहैरात्तशस्त्रैरुदायुधैः ।नानाप्रहरणैर्घोरैः परस्परवधैषिभिः ।सुसंनिकृष्टैः संग्रामे हतभूयिष्ठसैनिकैः ॥ ५४ ॥
स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशां पते ।षट्सहस्रैर्हयैः शिष्टैरपायाच्छकुनिस्ततः ॥ ५५ ॥
तथैव पाण्डवानीकं रुधिरेण समुक्षितम् ।षट्सहस्रैर्हयैः शिष्टैरपायाच्छ्रान्तवाहनम् ॥ ५६ ॥
अश्वारोहास्तु पाण्डूनामब्रुवन्रुधिरोक्षिताः ।सुसंनिकृष्टाः संग्रामे भूयिष्ठं त्यक्तजीविताः ॥ ५७ ॥
नेह शक्यं रथैर्योद्धुं कुत एव महागजैः ।रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि ॥ ५८ ॥
प्रतियातो हि शकुनिः स्वमनीकमवस्थितः ।न पुनः सौबलो राजा युद्धमभ्यागमिष्यति ॥ ५९ ॥
ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः ।प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः ॥ ६० ॥
सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते ।एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः ॥ ६१ ॥
ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः ।पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् ॥ ६२ ॥
तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाभ्यवर्तत ।तावकानां परेषां च परस्परवधैषिणाम् ॥ ६३ ॥
ते ह्यन्योन्यमवेक्षन्त तस्मिन्वीरसमागमे ।योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः ॥ ६४ ॥
असिभिश्छिद्यमानानां शिरसां लोकसंक्षये ।प्रादुरासीन्महाशब्दस्तालानां पततामिव ॥ ६५ ॥
विमुक्तानां शरीराणां भिन्नानां पततां भुवि ।सायुधानां च बाहूनामुरूणां च विशां पते ।आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः ॥ ६६ ॥
निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि ।योधाः परिपतन्ति स्म यथामिषकृते खगाः ॥ ६७ ॥
अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम् ।अहं पूर्वमहं पूर्वमिति न्यघ्नन्सहस्रशः ॥ ६८ ॥
संघातैरासनभ्रष्टैरश्वारोहैर्गतासुभिः ।हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः ॥ ६९ ॥
स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रसारिणाम् ।स्तनतां च मनुष्याणां संनद्धानां विशां पते ॥ ७० ॥
शक्त्यृष्टिप्रासशब्दश्च तुमुलः समजायत ।भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव ॥ ७१ ॥
श्रमाभिभूताः संरब्धाः श्रान्तवाहाः पिपासिताः ।विक्षताश्च शितैः शस्त्रैरभ्यवर्तन्त तावकाः ॥ ७२ ॥
मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः ।जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान् ॥ ७३ ॥
बहवश्च गतप्राणाः क्षत्रिया जयगृद्धिनः ।भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः ॥ ७४ ॥
वृकगृध्रशृगालानां तुमुले मोदनेऽहनि ।आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः ॥ ७५ ॥
नराश्वकायसंछन्ना भूमिरासीद्विशां पते ।रुधिरोदकचित्रा च भीरूणां भयवर्धिनी ॥ ७६ ॥
असिभिः पट्टिशैः शूलैस्तक्षमाणाः पुनः पुनः ।तावकाः पाण्डवाश्चैव नाभ्यवर्तन्त भारत ॥ ७७ ॥
प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम् ।योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः ॥ ७८ ॥
शिरो गृहीत्वा केशेषु कबन्धः समदृश्यत ।उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम् ॥ ७९ ॥
अथोत्थितेषु बहुषु कबन्धेषु जनाधिप ।तथा रुधिरगन्धेन योधाः कश्मलमाविशन् ॥ ८० ॥
मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम् ।अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः ॥ ८१ ॥
ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्धिनः ।पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः ॥ ८२ ॥
कोष्टकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः ।शस्त्रैर्नानाविधैर्जघ्नुर्युद्धपारं तितीर्षवः ॥ ८३ ॥
त्वदीयास्तांस्तु संप्रेक्ष्य सर्वतः समभिद्रुतान् ।साश्वपत्तिद्विपरथाः पाण्डवानभिदुद्रुवुः ॥ ८४ ॥
केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम् ।निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन् ॥ ८५ ॥
रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः ।विमानेभ्य इव भ्रष्टाः सिद्धाः पुण्यक्षयाद्यथा ॥ ८६ ॥
एवमन्योन्यमायस्ता योधा जघ्नुर्महामृधे ।पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथापरे ॥ ८७ ॥
एवमासीदमर्यादं युद्धं भरतसत्तम ।प्रासासिबाणकलिले वर्तमाने सुदारुणे ॥ ८८ ॥
« »