Click on words to see what they mean.

संजय उवाच ।पातिते युधि दुर्धर्षे मद्रराजे महारथे ।तावकास्तव पुत्राश्च प्रायशो विमुखाभवन् ॥ १ ॥
वणिजो नावि भिन्नायां यथागाधेऽप्लवेऽर्णवे ।अपारे पारमिच्छन्तो हते शूरे महात्मनि ॥ २ ॥
मद्रराजे महाराज वित्रस्ताः शरविक्षताः ।अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥ ३ ॥
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव ।मध्याह्ने प्रत्यपायाम निर्जिता धर्मसूनुना ॥ ४ ॥
न संधातुमनीकानि न च राजन्पराक्रमे ।आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् ॥ ५ ॥
भीष्मे द्रोणे च निहते सूतपुत्रे च भारत ।यद्दुःखं तव योधानां भयं चासीद्विशां पते ।तद्भयं स च नः शोको भूय एवाभ्यवर्तत ॥ ६ ॥
निराशाश्च जये तस्मिन्हते शल्ये महारथे ।हतप्रवीरा विध्वस्ता विकृत्ताश्च शितैः शरैः ।मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ॥ ७ ॥
अश्वानन्ये गजानन्ये रथानन्ये महारथाः ।आरुह्य जवसंपन्नाः पादाताः प्राद्रवन्भयात् ॥ ८ ॥
द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणः ।संप्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः ॥ ९ ॥
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः ।धावन्तश्चाप्यदृश्यन्त श्वसमानाः शरातुराः ॥ १० ॥
तान्प्रभग्नान्द्रुतान्दृष्ट्वा हतोत्साहान्पराजितान् ।अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ॥ ११ ॥
बाणशब्दरवश्चापि सिंहनादश्च पुष्कलः ।शङ्खशब्दश्च शूराणां दारुणः समपद्यत ॥ १२ ॥
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् ।अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ॥ १३ ॥
अद्य राजा सत्यधृतिर्जितामित्रो युधिष्ठिरः ।अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया ॥ १४ ॥
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः ।निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम् ॥ १५ ॥
अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम् ।अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् ।अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् ॥ १६ ॥
अद्यप्रभृति पार्थांश्च प्रेष्यभूत उपाचरन् ।विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः ॥ १७ ॥
अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः ।अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे ॥ १८ ॥
अस्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे ।अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः ॥ १९ ॥
हते दुर्योधने युद्धे शक्रेणेवासुरे मये ।यत्कृतं भीमसेनेन दुःशासनवधे तदा ।नान्यः कर्तास्ति लोके तदृते भीमं महाबलम् ॥ २० ॥
जानीतामद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम् ।मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ॥ २१ ॥
अद्य ज्ञास्यति संग्रामे माद्रीपुत्रौ महाबलौ ।निहते सौबले शूरे गान्धारेषु च सर्वशः ॥ २२ ॥
कथं तेषां जयो न स्याद्येषां योद्धा धनंजयः ।सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ २३ ॥
द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ ।शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ॥ २४ ॥
येषां च जगतां नाथो नाथः कृष्णो जनार्दनः ।कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ॥ २५ ॥
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च ।तथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ॥ २६ ॥
कोऽन्यः शक्तो रणे जेतुमृते पार्थं युधिष्ठिरम् ।यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः ॥ २७ ॥
इत्येवं वदमानास्ते हर्षेण महता युताः ।प्रभग्नांस्तावकान्राजन्सृञ्जयाः पृष्ठतोऽन्वयुः ॥ २८ ॥
धनंजयो रथानीकमभ्यवर्तत वीर्यवान् ।माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ॥ २९ ॥
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् ।दुर्योधनस्तदा सूतमब्रवीदुत्स्मयन्निव ॥ ३० ॥
न मातिक्रमते पार्थो धनुष्पाणिमवस्थितम् ।जघने सर्वसैन्यानां ममाश्वान्प्रतिपादय ॥ ३१ ॥
जघने युध्यमानं हि कौन्तेयो मां धनंजयः ।नोत्सहेताभ्यतिक्रान्तुं वेलामिव महोदधिः ॥ ३२ ॥
पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् ।सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः ॥ ३३ ॥
सिंहनादांश्च बहुशः शृणु घोरान्भयानकान् ।तस्माद्याहि शनैः सूत जघनं परिपालय ॥ ३४ ॥
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु ।पुनरावर्तते तूर्णं मामकं बलमोजसा ॥ ३५ ॥
तच्छ्रुत्वा तव पुत्रस्य शूराग्र्यसदृशं वचः ।सारथिर्हेमसंछन्नाञ्शनैरश्वानचोदयत् ॥ ३६ ॥
गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः ।एकविंशतिसाहस्राः संयुगायावतस्थिरे ॥ ३७ ॥
नानादेशसमुद्भूता नानारञ्जितवाससः ।अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ॥ ३८ ॥
तेषामापततां तत्र संहृष्टानां परस्परम् ।संमर्दः सुमहाञ्जज्ञे घोररूपो भयानकः ॥ ३९ ॥
भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् ।बलेन चतुरङ्गेण नानादेश्या न्यवारयन् ॥ ४० ॥
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः ।प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ॥ ४१ ॥
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः ।धार्तराष्ट्रा विनेदुर्हि नान्यां चाकथयन्कथाम् ।परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ॥ ४२ ॥
स वध्यमानः समरे पदातिगणसंवृतः ।न चचाल रथोपस्थे मैनाक इव पर्वतः ॥ ४३ ॥
ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् ।निग्रहीतुं प्रचक्रुर्हि योधांश्चान्यानवारयन् ॥ ४४ ॥
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः ।सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ॥ ४५ ॥
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् ।अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥ ४६ ॥
रथाश्वद्विपहीनांस्तु तान्भीमो गदया बली ।एकविंशतिसाहस्रान्पदातीनवपोथयत् ॥ ४७ ॥
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः ।धृष्टद्युम्नं पुरस्कृत्य नचिरात्प्रत्यदृश्यत ॥ ४८ ॥
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः ।संभग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ॥ ४९ ॥
नानापुष्पस्रजोपेता नानाकुण्डलधारिणः ।नानाजात्या हतास्तत्र नानादेशसमागताः ॥ ५० ॥
पताकाध्वजसंछन्नं पदातीनां महद्बलम् ।निकृत्तं विबभौ तत्र घोररूपं भयानकम् ॥ ५१ ॥
युधिष्ठिरपुरोगास्तु सर्वसैन्यमहारथाः ।अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव ॥ ५२ ॥
ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् ।नाभ्यवर्तन्त ते पुत्रं वेलेव मकरालयम् ॥ ५३ ॥
तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् ।यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् ॥ ५४ ॥
नातिदूरापयातं तु कृतबुद्धिं पलायने ।दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् ॥ ५५ ॥
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु वा ।यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः ॥ ५६ ॥
अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ ।यदि सर्वेऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत् ॥ ५७ ॥
विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्बिषान् ।अनुसृत्य हनिष्यन्ति श्रेयो नः समरे स्थितम् ॥ ५८ ॥
शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः ।यदा शूरं च भीरुं च मारयत्यन्तकः सदा ।को नु मूढो न युध्येत पुरुषः क्षत्रियब्रुवः ॥ ५९ ॥
श्रेयो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितम् ।सुखः सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् ।जित्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् ॥ ६० ॥
न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः ।अचिरेण जिताँल्लोकान्हतो युद्धे समश्नुते ॥ ६१ ॥
श्रुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाः ।पुनरेवान्ववर्तन्त पाण्डवानाततायिनः ॥ ६२ ॥
तानापतत एवाशु व्यूढानीकाः प्रहारिणः ।प्रत्युद्ययुस्तदा पार्था जयगृध्राः प्रहारिणः ॥ ६३ ॥
धनंजयो रथेनाजावभ्यवर्तत वीर्यवान् ।विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन्धनुः ॥ ६४ ॥
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः ।जवेनाभ्यपतन्हृष्टा यतो वै तावकं बलम् ॥ ६५ ॥
« »