Click on words to see what they mean.

संजय उवाच ।शल्ये तु निहते राजन्मद्रराजपदानुगाः ।रथाः सप्तशता वीरा निर्ययुर्महतो बलात् ॥ १ ॥
दुर्योधनस्तु द्विरदमारुह्याचलसंनिभम् ।छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः ।न गन्तव्यं न गन्तव्यमिति मद्रानवारयत् ॥ २ ॥
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः ।युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम् ॥ ३ ॥
ते तु शूरा महाराज कृतचित्ताः स्म योधने ।धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः ॥ ४ ॥
श्रुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम् ।मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः ॥ ५ ॥
आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः ।पूरयन्रथघोषेण दिशः सर्वा महारथः ॥ ६ ॥
ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ ।सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः ॥ ७ ॥
धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः ।युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन् ॥ ८ ॥
ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभाः ।क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा ॥ ९ ॥
पुरोवातेन गङ्गेव क्षोभ्यमाना महानदी ।अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी पुनः ॥ १० ॥
प्रस्कन्द्य सेनां महतीं त्यक्तात्मानो महारथाः ।वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः ॥ ११ ॥
बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः ।भ्रातरो वास्य ते शूरा दृश्यन्ते नेह केचन ॥ १२ ॥
पाञ्चालानां महावीर्याः शिखण्डी च महारथः ।धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः ॥ १३ ॥
एवं तान्वादिनः शूरान्द्रौपदेया महारथाः ।अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान् ॥ १४ ॥
चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः ।प्रत्यदृश्यन्त समरे तावका निहताः परैः ॥ १५ ॥
आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः ।वार्यमाणा ययुर्वेगात्तव पुत्रेण भारत ॥ १६ ॥
दुर्योधनस्तु तान्वीरान्वारयामास सान्त्वयन् ।न चास्य शासनं कश्चित्तत्र चक्रे महारथः ॥ १७ ॥
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् ।दुर्योधनं महाराज वचनं वचनक्षमः ॥ १८ ॥
किं नः संप्रेक्षमाणानां मद्राणां हन्यते बलम् ।न युक्तमेतत्समरे त्वयि तिष्ठति भारत ॥ १९ ॥
सहितैर्नाम योद्धव्यमित्येष समयः कृतः ।अथ कस्मात्परानेव घ्नतो मर्षयसे नृप ॥ २० ॥
दुर्योधन उवाच ।वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम ।एते हि निहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् ॥ २१ ॥
शकुनिरुवाच ।न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः ।अलं क्रोद्धुं तथैतेषां नायं काल उपेक्षितुम् ॥ २२ ॥
यामः सर्वेऽत्र संभूय सवाजिरथकुञ्जराः ।परित्रातुं महेष्वासान्मद्रराजपदानुगान् ॥ २३ ॥
अन्योन्यं परिरक्षामो यत्नेन महता नृप ।एवं सर्वेऽनुसंचिन्त्य प्रययुर्यत्र सैनिकाः ॥ २४ ॥
संजय उवाच ।एवमुक्तस्ततो राजा बलेन महता वृतः ।प्रययौ सिंहनादेन कम्पयन्वै वसुंधराम् ॥ २५ ॥
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत ।इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत ॥ २६ ॥
पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान् ।सहितानभ्यवर्तन्त गुल्ममास्थाय मध्यमम् ॥ २७ ॥
ते मुहूर्ताद्रणे वीरा हस्ताहस्तं विशां पते ।निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः ॥ २८ ॥
ततो नः संप्रयातानां हतामित्रास्तरस्विनः ।हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे ॥ २९ ॥
अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः ।पपात महती चोल्का मध्येनादित्यमण्डलम् ॥ ३० ॥
रथैर्भग्नैर्युगाक्षैश्च निहतैश्च महारथैः ।अश्वैर्निपतितैश्चैव संछन्नाभूद्वसुंधरा ॥ ३१ ॥
वातायमानैस्तुरगैर्युगासक्तैस्तुरंगमैः ।अदृश्यन्त महाराज योधास्तत्र रणाजिरे ॥ ३२ ॥
भग्नचक्रान्रथान्केचिदवहंस्तुरगा रणे ।रथार्धं केचिदादाय दिशो दश विबभ्रमुः ।तत्र तत्र च दृश्यन्ते योक्त्रैः श्लिष्टाः स्म वाजिनः ॥ ३३ ॥
रथिनः पतमानाश्च व्यदृश्यन्त नरोत्तम ।गगनात्प्रच्युताः सिद्धाः पुण्यानामिव संक्षये ॥ ३४ ॥
निहतेषु च शूरेषु मद्रराजानुगेषु च ।अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः ॥ ३५ ॥
अभ्यवर्तन्त वेगेन जयगृध्राः प्रहारिणः ।बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिस्वनैः ॥ ३६ ॥
अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः ।शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः ॥ ३७ ॥
ततो हतमभिप्रेक्ष्य मद्रराजबलं महत् ।मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् ।दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ ३८ ॥
वध्यमानं महाराज पाण्डवैर्जितकाशिभिः ।दिशो भेजेऽथ संभ्रान्तं त्रासितं दृढधन्विभिः ॥ ३९ ॥
« »