Click on words to see what they mean.

संजय उवाच ।अथान्यद्धनुरादाय बलवद्वेगवत्तरम् ।युधिष्ठिरं मद्रपतिर्विद्ध्वा सिंह इवानदत् ॥ १ ॥
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् ।अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥ २ ॥
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः ।सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥ ३ ॥
तांस्तानन्यान्महेष्वासान्साश्वान्सरथकुञ्जरान् ।कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनः ।रथांश्च रथिभिः सार्धं जघान रथिनां वरः ॥ ४ ॥
बाहूंश्चिच्छेद च तथा सायुधान्केतनानि च ।चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव ॥ ५ ॥
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् ।परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ॥ ६ ॥
तं भीमसेनश्च शिनेश्च नप्ता माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।समागतं भीमबलेन राज्ञा पर्यापुरन्योन्यमथाह्वयन्तः ॥ ७ ॥
ततस्तु शूराः समरे नरेन्द्रं मद्रेश्वरं प्राप्य युधां वरिष्ठम् ।आवार्य चैनं समरे नृवीरा जघ्नुः शरैः पत्रिभिरुग्रवेगैः ॥ ८ ॥
संरक्षितो भीमसेनेन राजा माद्रीसुताभ्यामथ माधवेन ।मद्राधिपं पत्रिभिरुग्रवेगैः स्तनान्तरे धर्मसुतो निजघ्ने ॥ ९ ॥
ततो रणे तावकानां रथौघाः समीक्ष्य मद्राधिपतिं शरार्तम् ।पर्यावव्रुः प्रवराः सर्वशश्च दुर्योधनस्यानुमते समन्तात् ॥ १० ॥
ततो द्रुतं मद्रजनाधिपो रणे युधिष्ठिरं सप्तभिरभ्यविध्यत् ।तं चापि पार्थो नवभिः पृषत्कैर्विव्याध राजंस्तुमुले महात्मा ॥ ११ ॥
आकर्णपूर्णायतसंप्रयुक्तैः शरैस्तदा संयति तैलधौतैः ।अन्योन्यमाच्छादयतां महारथौ मद्राधिपश्चापि युधिष्ठिरश्च ॥ १२ ॥
ततस्तु तूर्णं समरे महारथौ परस्परस्यान्तरमीक्षमाणौ ।शरैर्भृशं विव्यधतुर्नृपोत्तमौ महाबलौ शत्रुभिरप्रधृष्यौ ॥ १३ ॥
तयोर्धनुर्ज्यातलनिस्वनो महान्महेन्द्रवज्राशनितुल्यनिस्वनः ।परस्परं बाणगणैर्महात्मनोः प्रवर्षतोर्मद्रपपाण्डुवीरयोः ॥ १४ ॥
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ महावनेष्वामिषगृद्धिनाविव ।विषाणिनौ नागवराविवोभौ ततक्षतुः संयुगजातदर्पौ ॥ १५ ॥
ततस्तु मद्राधिपतिर्महात्मा युधिष्ठिरं भीमबलं प्रसह्य ।विव्याध वीरं हृदयेऽतिवेगं शरेण सूर्याग्निसमप्रभेण ॥ १६ ॥
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि सुसंप्रयुक्तेन शरेण राजन् ।जघान मद्राधिपतिं महात्मा मुदं च लेभे ऋषभः कुरूणाम् ॥ १७ ॥
ततो मुहूर्तादिव पार्थिवेन्द्रो लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः ।शतेन पार्थं त्वरितो जघान सहस्रनेत्रप्रतिमप्रभावः ॥ १८ ॥
त्वरंस्ततो धर्मसुतो महात्मा शल्यस्य क्रुद्धो नवभिः पृषत्कैः ।भित्त्वा ह्युरस्तपनीयं च वर्म जघान षड्भिस्त्वपरैः पृषत्कैः ॥ १९ ॥
ततस्तु मद्राधिपतिः प्रहृष्टो धनुर्विकृष्य व्यसृजत्पृषत्कान् ।द्वाभ्यां क्षुराभ्यां च तथैव राज्ञश्चिच्छेद चापं कुरुपुंगवस्य ॥ २० ॥
नवं ततोऽन्यत्समरे प्रगृह्य राजा धनुर्घोरतरं महात्मा ।शल्यं तु विद्ध्वा निशितैः समन्ताद्यथा महेन्द्रो नमुचिं शिताग्रैः ॥ २१ ॥
ततस्तु शल्यो नवभिः पृषत्कैर्भीमस्य राज्ञश्च युधिष्ठिरस्य ।निकृत्य रौक्मे पटुवर्मणी तयोर्विदारयामास भुजौ महात्मा ॥ २२ ॥
ततोऽपरेण ज्वलितार्कतेजसा क्षुरेण राज्ञो धनुरुन्ममाथ ।कृपश्च तस्यैव जघान सूतं षड्भिः शरैः सोऽभिमुखं पपात ॥ २३ ॥
मद्राधिपश्चापि युधिष्ठिरस्य शरैश्चतुर्भिर्निजघान वाहान् ।वाहांश्च हत्वा व्यकरोन्महात्मा योधक्षयं धर्मसुतस्य राज्ञः ॥ २४ ॥
तथा कृते राजनि भीमसेनो मद्राधिपस्याशु ततो महात्मा ।छित्त्वा धनुर्वेगवता शरेण द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ॥ २५ ॥
अथापरेणास्य जहार यन्तुः कायाच्छिरः संनहनीयमध्यात् ।जघान चाश्वांश्चतुरः स शीघ्रं तथा भृशं कुपितो भीमसेनः ॥ २६ ॥
तमग्रणीः सर्वधनुर्धराणामेकं चरन्तं समरेऽतिवेगम् ।भीमः शतेन व्यकिरच्छराणां माद्रीपुत्रः सहदेवस्तथैव ॥ २७ ॥
तैः सायकैर्मोहितं वीक्ष्य शल्यं भीमः शरैरस्य चकर्त वर्म ।स भीमसेनेन निकृत्तवर्मा मद्राधिपश्चर्म सहस्रतारम् ॥ २८ ॥
प्रगृह्य खड्गं च रथान्महात्मा प्रस्कन्द्य कुन्तीसुतमभ्यधावत् ।छित्त्वा रथेषां नकुलस्य सोऽथ युधिष्ठिरं भीमबलोऽभ्यधावत् ॥ २९ ॥
तं चापि राजानमथोत्पतन्तं क्रुद्धं यथैवान्तकमापतन्तम् ।धृष्टद्युम्नो द्रौपदेयाः शिखण्डी शिनेश्च नप्ता सहसा परीयुः ॥ ३० ॥
अथास्य चर्माप्रतिमं न्यकृन्तद्भीमो महात्मा दशभिः पृषत्कः ।खड्गं च भल्लैर्निचकर्त मुष्टौ नदन्प्रहृष्टस्तव सैन्यमध्ये ॥ ३१ ॥
तत्कर्म भीमस्य समीक्ष्य हृष्टास्ते पाण्डवानां प्रवरा रथौघाः ।नादं च चक्रुर्भृशमुत्स्मयन्तः शङ्खांश्च दध्मुः शशिसंनिकाशान् ॥ ३२ ॥
तेनाथ शब्देन विभीषणेन तवाभितप्तं बलमप्रहृष्टम् ।स्वेदाभिभूतं रुधिरोक्षिताङ्गं विसंज्ञकल्पं च तथा विषण्णम् ॥ ३३ ॥
स मद्रराजः सहसावकीर्णो भीमाग्रगैः पाण्डवयोधमुख्यैः ।युधिष्ठिरस्याभिमुखं जवेन सिंहो यथा मृगहेतोः प्रयातः ॥ ३४ ॥
स धर्मराजो निहताश्वसूतं क्रोधेन दीप्तज्वलनप्रकाशम् ।दृष्ट्वा तु मद्राधिपतिं स तूर्णं समभ्यधावत्तमरिं बलेन ॥ ३५ ॥
गोविन्दवाक्यं त्वरितं विचिन्त्य दध्रे मतिं शल्यविनाशनाय ।स धर्मराजो निहताश्वसूते रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् ॥ ३६ ॥
तच्चापि शल्यस्य निशम्य कर्म महात्मनो भागमथावशिष्टम् ।स्मृत्वा मनः शल्यवधे यतात्मा यथोक्तमिन्द्रावरजस्य चक्रे ॥ ३७ ॥
स धर्मराजो मणिहेमदण्डां जग्राह शक्तिं कनकप्रकाशाम् ।नेत्रे च दीप्ते सहसा विवृत्य मद्राधिपं क्रुद्धमना निरैक्षत् ॥ ३८ ॥
निरीक्षितो वै नरदेव राज्ञा पूतात्मना निर्हृतकल्मषेण ।अभून्न यद्भस्मसान्मद्रराजस्तदद्भुतं मे प्रतिभाति राजन् ॥ ३९ ॥
ततस्तु शक्तिं रुचिरोग्रदण्डां मणिप्रवालोज्ज्वलितां प्रदीप्ताम् ।चिक्षेप वेगात्सुभृशं महात्मा मद्राधिपाय प्रवरः कुरूणाम् ॥ ४० ॥
दीप्तामथैनां महता बलेन सविस्फुलिङ्गां सहसा पतन्तीम् ।प्रैक्षन्त सर्वे कुरवः समेता यथा युगान्ते महतीमिवोल्काम् ॥ ४१ ॥
तां कालरात्रीमिव पाशहस्तां यमस्य धात्रीमिव चोग्ररूपाम् ।सब्रह्मदण्डप्रतिमाममोघां ससर्ज यत्तो युधि धर्मराजः ॥ ४२ ॥
गन्धस्रगग्र्यासनपानभोजनैरभ्यर्चितां पाण्डुसुतैः प्रयत्नात् ।संवर्तकाग्निप्रतिमां ज्वलन्तीं कृत्यामथर्वाङ्गिरसीमिवोग्राम् ॥ ४३ ॥
ईशानहेतोः प्रतिनिर्मितां तां त्वष्ट्रा रिपूणामसुदेहभक्षाम् ।भूम्यन्तरिक्षादिजलाशयानि प्रसह्य भूतानि निहन्तुमीशाम् ॥ ४४ ॥
घण्टापताकामणिवज्रभाजं वैडूर्यचित्रां तपनीयदण्डाम् ।त्वष्ट्रा प्रयत्नान्नियमेन कॢप्तां ब्रह्मद्विषामन्तकरीममोघाम् ॥ ४५ ॥
बलप्रयत्नादधिरूढवेगां मन्त्रैश्च घोरैरभिमन्त्रयित्वा ।ससर्ज मार्गेण च तां परेण वधाय मद्राधिपतेस्तदानीम् ॥ ४६ ॥
हतोऽस्यसावित्यभिगर्जमानो रुद्रोऽन्तकायान्तकरं यथेषुम् ।प्रसार्य बाहुं सुदृढं सुपाणिं क्रोधेन नृत्यन्निव धर्मराजः ॥ ४७ ॥
तां सर्वशक्त्या प्रहितां स शक्तिं युधिष्ठिरेणाप्रतिवार्यवीर्याम् ।प्रतिग्रहायाभिननर्द शल्यः सम्यग्घुतामग्निरिवाज्यधाराम् ॥ ४८ ॥
सा तस्य मर्माणि विदार्य शुभ्रमुरो विशालं च तथैव वर्म ।विवेश गां तोयमिवाप्रसक्ता यशो विशालं नृपतेर्दहन्ती ॥ ४९ ॥
नासाक्षिकर्णास्यविनिःसृतेन प्रस्यन्दता च व्रणसंभवेन ।संसिक्तगात्रो रुधिरेण सोऽभूत्क्रौञ्चो यथा स्कन्दहतो महाद्रिः ॥ ५० ॥
प्रसार्य बाहू स रथाद्गतो गां संछिन्नवर्मा कुरुनन्दनेन ।महेन्द्रवाहप्रतिमो महात्मा वज्राहतं शृङ्गमिवाचलस्य ॥ ५१ ॥
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् ।ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः ॥ ५२ ॥
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः ।प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुंगवः ॥ ५३ ॥
प्रियया कान्तया कान्तः पतमान इवोरसि ।चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः ।सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव सोऽभवत् ॥ ५४ ॥
धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना ।सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे ॥ ५५ ॥
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् ।संशान्तमपि मद्रेशं लक्ष्मीर्नैव व्यमुञ्चत ॥ ५६ ॥
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम् ।व्यधमद्द्विषतः संख्ये खगराडिव पन्नगान् ।देहासून्निशितैर्भल्लै रिपूणां नाशयन्क्षणात् ॥ ५७ ॥
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव ।निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः ।संन्यस्तकवचा देहैर्विपत्रायुधजीविताः ॥ ५८ ॥
ततः शल्ये निपतिते मद्रराजानुजो युवा ।भ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् ॥ ५९ ॥
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् ।हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः ॥ ६० ॥
तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव ।कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ॥ ६१ ॥
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च ।प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ॥ ६२ ॥
सकुण्डलं तद्ददृशे पतमानं शिरो रथात् ।पुण्यक्षयमिव प्राप्य पतन्तं स्वर्गवासिनम् ॥ ६३ ॥
तस्यापकृष्टशीर्षं तच्छरीरं पतितं रथात् ।रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत ॥ ६४ ॥
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे ।हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः ॥ ६५ ॥
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः ।वित्रेसुः पाण्डवभयाद्रजोध्वस्तास्तथा भृशम् ॥ ६६ ॥
तांस्तथा भज्यतस्त्रस्तान्कौरवान्भरतर्षभ ।शिनेर्नप्ता किरन्बाणैरभ्यवर्तत सात्यकिः ॥ ६७ ॥
तमायान्तं महेष्वासमप्रसह्यं दुरासदम् ।हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ॥ ६८ ॥
तौ समेतौ महात्मानौ वार्ष्णेयावपराजितौ ।हार्दिक्यः सात्यकिश्चैव सिंहाविव मदोत्कटौ ॥ ६९ ॥
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् ।अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ॥ ७० ॥
चापमार्गबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः ।आकाशे समपश्याम पतंगानिव शीघ्रगान् ॥ ७१ ॥
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः ।चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ॥ ७२ ॥
तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुंगवः ।अन्यदादत्त वेगेन वेगवत्तरमायुधम् ॥ ७३ ॥
तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम् ।हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ ७४ ॥
ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः ।अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी ॥ ७५ ॥
मद्रराजे हते राजन्विरथे कृतवर्मणि ।दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ ७६ ॥
तत्परे नावबुध्यन्त सैन्येन रजसा वृते ।बलं तु हतभूयिष्ठं तत्तदासीत्पराङ्मुखम् ॥ ७७ ॥
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम् ।विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ॥ ७८ ॥
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् ।जवेनापततः पार्थानेकः सर्वानवारयत् ॥ ७९ ॥
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् ।आनर्तं च दुराधर्षं शितैर्बाणैरवाकिरत् ॥ ८० ॥
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् ।अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ॥ ८१ ॥
ततो युधिष्ठिरो राजा त्वरमाणो महारथः ।चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः ।विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः ॥ ८२ ॥
अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम् ।समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ॥ ८३ ॥
ततः शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् ।विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ॥ ८४ ॥
एवमेतन्महाराज युद्धशेषमवर्तत ।तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत ॥ ८५ ॥
तस्मिन्महेष्वासवरे विशस्ते संग्राममध्ये कुरुपुंगवेन ।पार्थाः समेताः परमप्रहृष्टाः शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ॥ ८६ ॥
युधिष्ठिरं च प्रशशंसुराजौ पुरा सुरा वृत्रवधे यथेन्द्रम् ।चक्रुश्च नानाविधवाद्यशब्दान्निनादयन्तो वसुधां समन्तात् ॥ ८७ ॥
« »