Click on words to see what they mean.

संजय उवाच ।ततः सैन्यास्तव विभो मद्रराजपुरस्कृताः ।पुनरभ्यद्रवन्पार्थान्वेगेन महता रणे ॥ १ ॥
पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः ।क्षणेनैव च पार्थांस्ते बहुत्वात्समलोडयन् ॥ २ ॥
ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे ।निवार्यमाणा भीमेन पश्यतोः कृष्णपार्थयोः ॥ ३ ॥
ततो धनंजयः क्रुद्धः कृपं सह पदानुगैः ।अवाकिरच्छरौघेण कृतवर्माणमेव च ॥ ४ ॥
शकुनिं सहदेवस्तु सहसैन्यमवारयत् ।नकुलः पार्श्वतः स्थित्वा मद्रराजमवैक्षत ॥ ५ ॥
द्रौपदेया नरेन्द्रांश्च भूयिष्ठं समवारयन् ।द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् ॥ ६ ॥
भीमसेनस्तु राजानं गदापाणिरवारयत् ।शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः ॥ ७ ॥
ततः समभवद्युद्धं संसक्तं तत्र तत्र ह ।तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् ॥ ८ ॥
तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे ।यदेकः सर्वसैन्यानि पाण्डवानामयुध्यत ॥ ९ ॥
व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः ।रणे चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः ॥ १० ॥
पीडयित्वा तु राजानं शरैराशीविषोपमैः ।अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत् ॥ ११ ॥
तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् ।अपूजयन्ननीकानि परेषां तावकानि च ॥ १२ ॥
पीड्यमानास्तु शल्येन पाण्डवा भृशविक्षताः ।प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे ॥ १३ ॥
वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः ।अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः ।ततः पौरुषमास्थाय मद्रराजमपीडयत् ॥ १४ ॥
जयो वास्तु वधो वेति कृतबुद्धिर्महारथः ।समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च माधवम् ॥ १५ ॥
भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः ।कौरवार्थे पराक्रान्ताः संग्रामे निधनं गताः ॥ १६ ॥
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः ।भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः ॥ १७ ॥
सोऽहमद्य युधा जेतुमाशंसे मद्रकेश्वरम् ।तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः ॥ १८ ॥
चक्ररक्षाविमौ शूरौ मम माद्रवतीसुतौ ।अजेयौ वासवेनापि समरे वीरसंमतौ ॥ १९ ॥
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ ।मदर्थं प्रतियुध्येतां मानार्हौ सत्यसंगरौ ॥ २० ॥
मां वा शल्यो रणे हन्ता तं वाहं भद्रमस्तु वः ।इति सत्यामिमां वाणीं लोकवीरा निबोधत ॥ २१ ॥
योत्स्येऽहं मातुलेनाद्य क्षत्रधर्मेण पार्थिवाः ।स्वयं समभिसंधाय विजयायेतराय वा ॥ २२ ॥
तस्य मेऽभ्यधिकं शस्त्रं सर्वोपकरणानि च ।संयुञ्जन्तु रणे क्षिप्रं शास्त्रवद्रथयोजकाः ॥ २३ ॥
शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम् ।पृष्ठगोपो भवत्वद्य मम पार्थो धनंजयः ॥ २४ ॥
पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः ।एवमभ्यधिकः शल्याद्भविष्यामि महामृधे ॥ २५ ॥
एवमुक्तास्तथा चक्रुः सर्वे राज्ञः प्रियैषिणः ।ततः प्रहर्षः सैन्यानां पुनरासीत्तदा नृप ॥ २६ ॥
पाञ्चालानां सोमकानां मत्स्यानां च विशेषतः ।प्रतिज्ञां तां च संग्रामे धर्मराजस्य पूरयन् ॥ २७ ॥
ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान् ।अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे ॥ २८ ॥
तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनः ।महता हर्षजेनाथ नादेन कुरुपुंगवाः ॥ २९ ॥
ह्रादेन गजघण्टानां शङ्खानां निनदेन च ।तूर्यशब्देन महता नादयन्तश्च मेदिनीम् ॥ ३० ॥
तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान् ।महामेघानिव बहूञ्शैलावस्तोदयावुभौ ॥ ३१ ॥
शल्यस्तु समरश्लाघी धर्मराजमरिंदमम् ।ववर्ष शरवर्षेण वर्षेण मघवानिव ॥ ३२ ॥
तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः ।द्रोणोपदेशान्विविधान्दर्शयानो महामनाः ॥ ३३ ॥
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च ।न चास्य विवरं कश्चिद्ददर्श चरतो रणे ॥ ३४ ॥
तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम् ।शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे ॥ ३५ ॥
भीमस्तु तव पुत्रेण रणशौण्डेन संगतः ।पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ ।शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः ॥ ३६ ॥
तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम् ।तावकानां परेषां च राजन्दुर्मन्त्रिते तव ॥ ३७ ॥
दुर्योधनस्तु भीमस्य शरेणानतपर्वणा ।चिच्छेदादिश्य संग्रामे ध्वजं हेमविभूषितम् ॥ ३८ ॥
सकिङ्किणीकजालेन महता चारुदर्शनः ।पपात रुचिरः सिंहो भीमसेनस्य नानदन् ॥ ३९ ॥
पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् ।क्षुरेण शितधारेण प्रचकर्त नराधिपः ॥ ४० ॥
स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव ।बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् ॥ ४१ ॥
तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः ।यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा ॥ ४२ ॥
हतसूता हयास्तस्य रथमादाय भारत ।व्यद्रवन्त दिशो राजन्हाहाकारस्तदाभवत् ॥ ४३ ॥
तमभ्यधावत्त्राणार्थं द्रोणपुत्रो महारथः ।कृपश्च कृतवर्मा च पुत्रं तेऽभिपरीप्सवः ॥ ४४ ॥
तस्मिन्विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः ।गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः ॥ ४५ ॥
युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः ।स्वयं संचोदयन्नश्वान्दन्तवर्णान्मनोजवान् ॥ ४६ ॥
तत्राद्भुतमपश्याम कुन्तीपुत्रे युधिष्ठिरे ।पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् ॥ ४७ ॥
विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना ।चिच्छेद योधान्निशितैः शरैः शतसहस्रशः ॥ ४८ ॥
यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः ।शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः ॥ ४९ ॥
साश्वसूतध्वजरथान्रथिनः पातयन्बहून् ।आक्रीडदेको बलवान्पवनस्तोयदानिव ॥ ५० ॥
साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रशः ।व्यपोथयत संग्रामे क्रुद्धो रुद्रः पशूनिव ॥ ५१ ॥
शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः ।अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत् ॥ ५२ ॥
तस्य तच्चरितं दृष्ट्वा संग्रामे भीमकर्मणः ।वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् ॥ ५३ ॥
ततस्तौ तु सुसंरब्धौ प्रध्माप्य सलिलोद्भवौ ।समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः ॥ ५४ ॥
शल्यस्तु शरवर्षेण युधिष्ठिरमवाकिरत् ।मद्रराजं च कौन्तेयः शरवर्षैरवाकिरत् ॥ ५५ ॥
व्यदृश्येतां तदा राजन्कङ्कपत्रिभिराहवे ।उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ ॥ ५६ ॥
पुष्पिताविव रेजाते वने शल्मलिकिंशुकौ ।दीप्यमानौ महात्मानौ प्राणयोर्युद्धदुर्मदौ ॥ ५७ ॥
दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् ।हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुंधराम् ॥ ५८ ॥
शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् ।इतीव निश्चयो नाभूद्योधानां तत्र भारत ॥ ५९ ॥
प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः ॥ ६० ॥
ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे ।धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत ॥ ६१ ॥
सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः ।अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत ॥ ६२ ॥
अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः ।द्वाभ्यामथ शिताग्राभ्यामुभौ च पार्ष्णिसारथी ॥ ६३ ॥
ततोऽस्य दीप्यमानेन पीतेन निशितेन च ।प्रमुखे वर्तमानस्य भल्लेनापाहरद्ध्वजम् ।ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिंदम ॥ ६४ ॥
ततो मद्राधिपं द्रौणिरभ्यधावत्तथाकृतम् ।आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे ॥ ६५ ॥
मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे ।स्थित्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः ॥ ६६ ॥
विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् ।सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् ॥ ६७ ॥
« »