Click on words to see what they mean.

संजय उवाच ।दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः ।चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् ॥ १ ॥
तयोरासन्महाराज शरधाराः सहस्रशः ।अम्बुदानां यथा काले जलधाराः समन्ततः ॥ २ ॥
राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिरायसैः ।द्रोणहन्तारमुग्रेषुः पुनर्विव्याध सप्तभिः ॥ ३ ॥
धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः ।सप्तत्या विशिखानां वै दुर्योधनमपीडयत् ॥ ४ ॥
पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ ।महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् ॥ ५ ॥
स तैः परिवृतः शूरैः सर्वतोऽतिरथैर्भृशम् ।व्यचरत्समरे राजन्दर्शयन्हस्तलाघवम् ॥ ६ ॥
शिखण्डी कृतवर्माणं गौतमं च महारथम् ।प्रभद्रकैः समायुक्तो योधयामास धन्विनौ ॥ ७ ॥
तत्रापि सुमहद्युद्धं घोररूपं विशां पते ।प्राणान्संत्यजतां युद्धे प्राणद्यूताभिदेवने ॥ ८ ॥
शल्यस्तु शरवर्षाणि विमुञ्चन्सर्वतोदिशम् ।पाण्डवान्पीडयामास ससात्यकिवृकोदरान् ॥ ९ ॥
तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ ।योधयामास राजेन्द्र वीर्येण च बलेन च ॥ १० ॥
शल्यसायकनुन्नानां पाण्डवानां महामृधे ।त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः ॥ ११ ॥
ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते ।अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः ॥ १२ ॥
संछाद्य समरे शल्यं नकुलः परवीरहा ।विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे ॥ १३ ॥
सर्वपारशवैर्बाणैः कर्मारपरिमार्जितैः ।स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः ॥ १४ ॥
शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना ।नकुलं पीडयामास पत्रिभिर्नतपर्वभिः ॥ १५ ॥
ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः ।सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन् ॥ १६ ॥
तानापतत एवाशु पूरयानान्रथस्वनैः ।दिशश्च प्रदिशश्चैव कम्पयानांश्च मेदिनीम् ।प्रतिजग्राह समरे सेनापतिरमित्रजित् ॥ १७ ॥
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च सप्तभिः ।सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः ॥ १८ ॥
ततस्तु सशरं चापं नकुलस्य महात्मनः ।मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष ।तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः ॥ १९ ॥
अथान्यद्धनुरादाय माद्रीपुत्रो महारथः ।मद्रराजरथं तूर्णं पूरयामास पत्रिभिः ॥ २० ॥
युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष ।दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् ॥ २१ ॥
भीमसेनस्ततः षष्ट्या सात्यकिर्नवभिः शरैः ।मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः ॥ २२ ॥
मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः ।विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् ॥ २३ ॥
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष ।हयांश्च चतुरः संख्ये प्रेषयामास मृत्यवे ॥ २४ ॥
विरथं सात्यकिं कृत्वा मद्रराजो महाबलः ।विशिखानां शतेनैनमाजघान समन्ततः ॥ २५ ॥
माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम् ।युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः ॥ २६ ॥
तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् ।यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे ॥ २७ ॥
अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः ।पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् ।अभिदुद्राव वेगेन मद्राणामधिपं बली ॥ २८ ॥
आपतन्तं रथं तस्य शल्यः समितिशोभनः ।प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् ॥ २९ ॥
स संनिपातस्तुमुलो बभूवाद्भुतदर्शनः ।सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च ।यादृशो वै पुरा वृत्तः शम्बरामरराजयोः ॥ ३० ॥
सात्यकिः प्रेक्ष्य समरे मद्रराजं व्यवस्थितम् ।विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ ३१ ॥
मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना ।सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः ॥ ३२ ॥
ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम् ।अभ्यद्रवन्रथैस्तूर्णं मातुलं वधकाम्यया ॥ ३३ ॥
तत आसीत्परामर्दस्तुमुलः शोणितोदकः ।शूराणां युध्यमानानां सिंहानामिव नर्दताम् ॥ ३४ ॥
तेषामासीन्महाराज व्यतिक्षेपः परस्परम् ।सिंहानामामिषेप्सूनां कूजतामिव संयुगे ॥ ३५ ॥
तेषां बाणसहस्रौघैराकीर्णा वसुधाभवत् ।अन्तरिक्षं च सहसा बाणभूतमभूत्तदा ॥ ३६ ॥
शरान्धकारं बहुधा कृतं तत्र समन्ततः ।अभ्रच्छायेव संजज्ञे शरैर्मुक्तैर्महात्मभिः ॥ ३७ ॥
तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः ।स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तथा ॥ ३८ ॥
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः ।यदेकः समरे शूरो योधयामास वै बहून् ॥ ३९ ॥
मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः ।संपतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी ॥ ४० ॥
तत्र शल्यरथं राजन्विचरन्तं महाहवे ।अपश्याम यथा पूर्वं शक्रस्यासुरसंक्षये ॥ ४१ ॥
« »