Click on words to see what they mean.

संजय उवाच ।अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः ।तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः ।द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः ॥ १ ॥
तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनंजयः ।भूयश्चैव महाबाहुः शरवर्षैरवाकिरत् ॥ २ ॥
शरकण्टकितास्ते तु तावका भरतर्षभ ।न जहुः समरे पार्थं वध्यमानाः शितैः शरैः ॥ ३ ॥
तेऽर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः ।अयोधयन्त समरे परिवार्य महारथाः ॥ ४ ॥
तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः ।अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा ॥ ५ ॥
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम् ।शरैर्वीक्ष्य वितुन्नाङ्गौ प्रहृष्टौ युद्धदुर्मदौ ॥ ६ ॥
कूबरं रथचक्राणि ईषा योक्त्राणि चाभिभो ।युगं चैवानुकर्षं च शरभूतमभूत्तदा ॥ ७ ॥
नैतादृशं दृष्टपूर्वं राजन्नैव च नः श्रुतम् ।यादृशं तत्र पार्थस्य तावकाः संप्रचक्रिरे ॥ ८ ॥
स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः ।उल्काशतैः संप्रदीप्तं विमानमिव भूतले ॥ ९ ॥
ततोऽर्जुनो महाराज शरैः संनतपर्वभिः ।अवाकिरत्तां पृतनां मेघो वृष्ट्या यथाचलम् ॥ १० ॥
ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः ।पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् ॥ ११ ॥
ततोऽद्भुतशरज्वालो धनुःशब्दानिलो महान् ।सेनेन्धनं ददाहाशु तावकं पार्थपावकः ॥ १२ ॥
चक्राणां पततां चैव युगानां च धरातले ।तूणीराणां पताकानां ध्वजानां च रथैः सह ॥ १३ ॥
ईषाणामनुकर्षाणां त्रिवेणूनां च भारत ।अक्षाणामथ योक्त्राणां प्रतोदानां च सर्वशः ॥ १४ ॥
शिरसां पततां चैव कुण्डलोष्णीषधारिणाम् ।भुजानां च महाराज स्कन्धानां च समन्ततः ॥ १५ ॥
छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः ।समदृश्यन्त पार्थस्य रथमार्गेषु भारत ॥ १६ ॥
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ।बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा ।भीरूणां त्रासजननी शूराणां हर्षवर्धनी ॥ १७ ॥
हत्वा तु समरे पार्थः सहस्रे द्वे परंतप ।रथानां सवरूथानां विधूमोऽग्निरिव ज्वलन् ॥ १८ ॥
यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम् ।विधूमो दृश्यते राजंस्तथा पार्थो महारथः ॥ १९ ॥
द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम् ।रथेनातिपताकेन पाण्डवं प्रत्यवारयत् ॥ २० ॥
तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ ।समीयतुस्तदा तूर्णं परस्परवधैषिणौ ॥ २१ ॥
तयोरासीन्महाराज बाणवर्षं सुदारुणम् ।जीमूतानां यथा वृष्टिस्तपान्ते भरतर्षभ ॥ २२ ॥
अन्योन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः ।ततक्षतुर्मृधेऽन्योन्यं शृङ्गाभ्यां वृषभाविव ॥ २३ ॥
तयोर्युद्धं महाराज चिरं सममिवाभवत् ।अस्त्राणां संगमश्चैव घोरस्तत्राभवन्महान् ॥ २४ ॥
ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः ।वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत ॥ २५ ॥
ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः ।मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे ॥ २६ ॥
व्यश्वसूतरथं चक्रे सव्यसाची महारथः ।मृदुपूर्वं ततश्चैनं त्रिभिर्विव्याध सायकैः ॥ २७ ॥
हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम् ।मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् ॥ २८ ॥
तमापतन्तं सहसा हेमपट्टविभूषितम् ।चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः ॥ २९ ॥
स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः ।आददे परिघं घोरं नगेन्द्रशिखरोपमम् ।चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः ॥ ३० ॥
तमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः ।अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः ॥ ३१ ॥
स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे ।दारयन्पृथिवीन्द्राणां मनः शब्देन भारत ॥ ३२ ॥
ततोऽपरैस्त्रिभिर्बाणैर्द्रौणिं विव्याध पाण्डवः ।सोऽतिविद्धो बलवता पार्थेन सुमहाबलः ।न संभ्रान्तस्तदा द्रौणिः पौरुषे स्वे व्यवस्थितः ॥ ३३ ॥
सुधर्मा तु ततो राजन्भारद्वाजं महारथम् ।अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः ॥ ३४ ॥
ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः ।रथेन मेघघोषेण द्रौणिमेवाभ्यधावत ॥ ३५ ॥
विकर्षन्वै धनुः श्रेष्ठं सर्वभारसहं दृढम् ।ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् ॥ ३६ ॥
सुरथं तु ततः क्रुद्धमापतन्तं महारथम् ।चुकोप समरे द्रौणिर्दण्डाहत इवोरगः ॥ ३७ ॥
त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिलेलिहन् ।उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च ।मुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम् ॥ ३८ ॥
स तस्य हृदयं भित्त्वा प्रविवेशातिवेगतः ।शक्राशनिरिवोत्सृष्टा विदार्य धरणीतलम् ॥ ३९ ॥
ततस्तं पतितं भूमौ नाराचेन समाहतम् ।वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम् ॥ ४० ॥
तस्मिंस्तु निहते वीरे द्रोणपुत्रः प्रतापवान् ।आरुरोह रथं तूर्णं तमेव रथिनां वरः ॥ ४१ ॥
ततः सज्जो महाराज द्रौणिराहवदुर्मदः ।अर्जुनं योधयामास संशप्तकवृतो रणे ॥ ४२ ॥
तत्र युद्धं महच्चासीदर्जुनस्य परैः सह ।मध्यंदिनगते सूर्ये यमराष्ट्रविवर्धनम् ॥ ४३ ॥
तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् ।यदेको युगपद्वीरान्समयोधयदर्जुनः ॥ ४४ ॥
विमर्दस्तु महानासीदर्जुनस्य परैः सह ।शतक्रतोर्यथा पूर्वं महत्या दैत्यसेनया ॥ ४५ ॥
« »