Click on words to see what they mean.

संजय उवाच ।ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे ।बृहत्यौ संप्रजह्राते देवासुरचमूपमे ॥ १ ॥
ततो गजा रथाश्चाश्वाः पत्तयश्च महाहवे ।संप्रहारं परं चक्रुर्देहपाप्मप्रणाशनम् ॥ २ ॥
पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतः समैः ।उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् ॥ ३ ॥
अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टिशैः ।परश्वधैश्चाप्यकृन्तन्नुत्तमाङ्गानि युध्यताम् ॥ ४ ॥
व्यायतायतबाहूनां व्यायतायतबाहुभिः ।व्यायता बाहवः पेतुश्छिन्नमुष्ट्यायुधाङ्गदाः ॥ ५ ॥
तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तदा ।गरुडप्रहतैरुग्रैः पञ्चास्यैरिव पन्नगैः ॥ ६ ॥
हयस्यन्दननागेभ्यः पेतुर्वीरा द्विषद्धताः ।विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस्तथा ॥ ७ ॥
गदाभिरन्यैर्गुर्वीभिः परिघैर्मुसलैरपि ।पोथिताः शतशः पेतुर्वीरा वीरतरै रणे ॥ ८ ॥
रथा रथैर्विनिहता मत्ता मत्तैर्द्विपैर्द्विपाः ।सादिनः सादिभिश्चैव तस्मिन्परमसंकुले ॥ ९ ॥
रथा वररथैर्नागैरश्वारोहाश्च पत्तिभिः ।अश्वारोहैः पदाताश्च निहता युधि शेरते ॥ १० ॥
रथाश्वपत्तयो नागै रथैर्नागाश्च पत्तयः ।रथपत्तिद्विपाश्चाश्वैर्नृभिश्चाश्वरथद्विपाः ॥ ११ ॥
रथाश्वेभनराणां च नराश्वेभरथैः कृतम् ।पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् ॥ १२ ॥
तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च ।अस्मानभ्यागमन्पार्था वृकोदरपुरोगमाः ॥ १३ ॥
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ।सात्यकिश्चेकितानश्च द्रविडैः सैनिकैः सह ॥ १४ ॥
भृता वित्तेन महता पाण्ड्याश्चौड्राः सकेरलाः ।व्यूढोरस्का दीर्घभुजाः प्रांशवः प्रियदर्शनाः ॥ १५ ॥
आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः ।नानाविरागवसना गन्धचूर्णावचूर्णिताः ॥ १६ ॥
बद्धासयः पाशहस्ता वारणप्रतिवारणाः ।समानमृत्यवो राजन्ननीकस्थाः परस्परम् ॥ १७ ॥
कलापिनश्चापहस्ता दीर्घकेशाः प्रियाहवाः ।पत्तयः सात्यकेरन्ध्रा घोररूपपराक्रमाः ॥ १८ ॥
अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः ।करूषाः कोसलाः काश्या मागधाश्चापि दुद्रुवुः ॥ १९ ॥
तेषां रथाश्च नागाश्च प्रवराश्चापि पत्तयः ।नानाविधरवैर्हृष्टा नृत्यन्ति च हसन्ति च ॥ २० ॥
तस्य सैन्यस्य महतो महामात्रवरैर्वृतः ।मध्यं वृकोदरोऽभ्यागात्त्वदीयं नागधूर्गतः ॥ २१ ॥
स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ ।उदयाद्र्यग्र्यभवनं यथाभ्युदितभास्करम् ॥ २२ ॥
तस्यायसं वर्मवरं वररत्नविभूषितम् ।तारोद्भासस्य नभसः शारदस्य समत्विषम् ॥ २३ ॥
स तोमरप्रासकरश्चारुमौलिः स्वलंकृतः ।चरन्मध्यंदिनार्काभस्तेजसा व्यदहद्रिपून् ॥ २४ ॥
तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थितः ।आह्वयानोऽभिदुद्राव प्रमनाः प्रमनस्तरम् ॥ २५ ॥
तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः ।यदृच्छया द्रुमवतोर्महापर्वतयोरिव ॥ २६ ॥
संसक्तनागौ तौ वीरौ तोमरैरितरेतरम् ।बलवत्सूर्यरश्म्याभैर्भित्त्वा भित्त्वा विनेदतुः ॥ २७ ॥
व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः ।प्रगृह्य चैव धनुषी जघ्नतुर्वै परस्परम् ॥ २८ ॥
क्ष्वेडितास्फोटितरवैर्बाणशब्दैश्च सर्वशः ।तौ जनान्हर्षयित्वा च सिंहनादान्प्रचक्रतुः ॥ २९ ॥
समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ ।वातोद्धूतपताकाभ्यां युयुधाते महाबलौ ॥ ३० ॥
तावन्योन्यस्य धनुषी छित्त्वान्योन्यं विनेदतुः ।शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः ॥ ३१ ॥
क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे ।निर्बिभेद तु वेगेन षड्भिश्चाप्यपरैर्नदन् ॥ ३२ ॥
स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः ।क्रोधदीप्तवपुर्मेघैः सप्तसप्तिरिवांशुमान् ॥ ३३ ॥
ततो भास्करवर्णाभमञ्जोगतिमयस्मयम् ।ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् ॥ ३४ ॥
ततः कुलूताधिपतिश्चापमायम्य सायकैः ।दशभिस्तोमरं छित्त्वा शक्त्या विव्याध पाण्डवम् ॥ ३५ ॥
अथ कार्मुकमादाय महाजलदनिस्वनम् ।रिपोरभ्यर्दयन्नागमुन्मदः पाण्डवः शरैः ॥ ३६ ॥
स शरौघार्दितो नागो भीमसेनेन संयुगे ।निगृह्यमाणो नातिष्ठद्वातध्वस्त इवाम्बुदः ॥ ३७ ॥
तामभ्यधावद्द्विरदं भीमसेनस्य नागराट् ।महावातेरितं मेघं वातोद्धूत इवाम्बुदः ॥ ३८ ॥
संनिवर्त्यात्मनो नागं क्षेमधूर्तिः प्रयत्नतः ।विव्याधाभिद्रुतं बाणैर्भीमसेनं सकुञ्जरम् ॥ ३९ ॥
ततः साधुविसृष्टेन क्षुरेण पुरुषर्षभः ।छित्त्वा शरासनं शत्रोर्नागमामित्रमार्दयत् ॥ ४० ॥
ततः खजाकया भीमं क्षेमधूर्तिः पराभिनत् ।जघान चास्य द्विरदं नाराचैः सर्वमर्मसु ॥ ४१ ॥
पुरा नागस्य पतनादवप्लुत्य स्थितो महीम् ।भीमसेनो रिपोर्नागं गदया समपोथयत् ॥ ४२ ॥
तस्मात्प्रमथितान्नागात्क्षेमधूर्तिमवद्रुतम् ।उद्यतासिमुपायान्तं गदयाहन्वृकोदरः ॥ ४३ ॥
स पपात हतः सासिर्व्यसुः स्वमभितो द्विपम् ।वज्रप्ररुग्णमचलं सिंहो वज्रहतो यथा ॥ ४४ ॥
निहतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम् ।प्राद्रवद्व्यथिता सेना त्वदीया भरतर्षभ ॥ ४५ ॥
« »