Click on words to see what they mean.

संजय उवाच ।तथा निपातिते कर्णे तव सैन्ये च विद्रुते ।आश्लिष्य पार्थं दाशार्हो हर्षाद्वचनमब्रवीत् ॥ १ ॥
हतो बलभिदा वृत्रस्त्वया कर्णो धनंजय ।वधं वै कर्णवृत्राभ्यां कथयिष्यन्ति मानवाः ॥ २ ॥
वज्रिणा निहतो वृत्रः संयुगे भूरितेजसा ।त्वया तु निहतः कर्णो धनुषा निशितैः शरैः ॥ ३ ॥
तमिमं विक्रमं लोके प्रथितं ते यशोवहम् ।निवेदयावः कौन्तेय धर्मराजाय धीमते ॥ ४ ॥
वधं कर्णस्य संग्रामे दीर्घकालचिकीर्षितम् ।निवेद्य धर्मराजस्य त्वमानृण्यं गमिष्यसि ॥ ५ ॥
तथेत्युक्ते केशवस्तु पार्थेन यदुपुङ्गवः ।पर्यवर्तयदव्यग्रो रथं रथवरस्य तम् ॥ ६ ॥
धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकोदरम् ।युयुधानं च गोविन्द इदं वचनमब्रवीत् ॥ ७ ॥
परानभिमुखा यत्तास्तिष्ठध्वं भद्रमस्तु वः ।यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै ॥ ८ ॥
स तैः शूरैरनुज्ञातो ययौ राजनिवेशनम् ।पार्थमादाय गोविन्दो ददर्श च युधिष्ठिरम् ॥ ९ ॥
शयानं राजशार्दूलं काञ्चने शयनोत्तमे ।अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ ॥ १० ॥
तयोः प्रहर्षमालक्ष्य प्रहारांश्चातिमानुषान् ।राधेयं निहतं मत्वा समुत्तस्थौ युधिष्ठिरः ॥ ११ ॥
ततोऽस्मै तद्यथावृत्तं वासुदेवः प्रियंवदः ।कथयामास कर्णस्य निधनं यदुनन्दनः ॥ १२ ॥
ईषदुत्स्मयमानस्तु कृष्णो राजानमब्रवीत् ।युधिष्ठिरं हतामित्रं कृताञ्जलिरथाच्युतः ॥ १३ ॥
दिष्ट्या गाण्डीवधन्वा च पाण्डवश्च वृकोदरः ।त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ॥ १४ ॥
मुक्ता वीरक्षयादस्मात्संग्रामाल्लोमहर्षणात् ।क्षिप्रमुत्तरकालानि कुरु कार्याणि पार्थिव ॥ १५ ॥
हतो वैकर्तनः क्रूरः सूतपुत्रो महाबलः ।दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि पाण्डव ॥ १६ ॥
यः स द्यूतजितां कृष्णां प्राहसत्पुरुषाधमः ।तस्याद्य सूतपुत्रस्य भूमिः पिबति शोणितम् ॥ १७ ॥
शेतेऽसौ शरदीर्णाङ्गः शत्रुस्ते कुरुपुंगव ।तं पश्य पुरुषव्याघ्र विभिन्नं बहुधा शरैः ॥ १८ ॥
युधिष्ठिरस्तु दाशार्हं प्रहृष्टः प्रत्यपूजयत् ।दिष्ट्या दिष्ट्येति राजेन्द्र प्रीत्या चेदमुवाच ह ॥ १९ ॥
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन ।त्वया सारथिना पार्थो यत्कुर्यादद्य पौरुषम् ॥ २० ॥
प्रगृह्य च कुरुश्रेष्ठः साङ्गदं दक्षिणं भुजम् ।उवाच धर्मभृत्पार्थ उभौ तौ केशवार्जुनौ ॥ २१ ॥
नरनारायणौ देवौ कथितौ नारदेन ह ।धर्मसंस्थापने युक्तौ पुराणौ पुरुषोत्तमौ ॥ २२ ॥
असकृच्चापि मेधावी कृष्णद्वैपायनो मम ।कथामेतां महाबाहो दिव्यामकथयत्प्रभुः ॥ २३ ॥
तव कृष्ण प्रभावेण गाण्डीवेन धनंजयः ।जयत्यभिमुखाञ्शत्रून्न चासीद्विमुखः क्वचित् ॥ २४ ॥
जयश्चैव ध्रुवोऽस्माकं न त्वस्माकं पराजयः ।यदा त्वं युधि पार्थस्य सारथ्यमुपजग्मिवान् ॥ २५ ॥
एवमुक्त्वा महाराज तं रथं हेमभूषितम् ।दन्तवर्णैर्हयैर्युक्तं कालवालैर्महारथः ॥ २६ ॥
आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः ।कृष्णार्जुनाभ्यां वीराभ्यामनुमन्य ततः प्रियम् ॥ २७ ॥
आगतो बहुवृत्तान्तं द्रष्टुमायोधनं तदा ।आभाषमाणस्तौ वीरावुभौ माधवफल्गुनौ ॥ २८ ॥
स ददर्श रणे कर्णं शयानं पुरुषर्षभम् ।गाण्डीवमुक्तैर्विशिखैः सर्वतः शकलीकृतम् ॥ २९ ॥
सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः ।प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ ॥ ३० ॥
अद्य राजास्मि गोविन्द पृथिव्यां भ्रातृभिः सह ।त्वया नाथेन वीरेण विदुषा परिपालितः ॥ ३१ ॥
हतं दृष्ट्वा नरव्याघ्रं राधेयमभिमानिनम् ।निराशोऽद्य दुरात्मासौ धार्तराष्ट्रो भविष्यति ।जीविताच्चापि राज्याच्च हते कर्णे महारथे ॥ ३२ ॥
त्वत्प्रसादाद्वयं चैव कृतार्थाः पुरुषर्षभ ।त्वं च गाण्डीवधन्वा च विजयी यदुनन्दन ।दिष्ट्या जयसि गोविन्द दिष्ट्या कर्णो निपातितः ॥ ३३ ॥
एवं स बहुशो हृष्टः प्रशशंस जनार्दनम् ।अर्जुनं चापि राजेन्द्र धर्मराजो युधिष्ठिरः ॥ ३४ ॥
ततो भीमप्रभृतिभिः सर्वैश्च भ्रातृभिर्वृतम् ।वर्धयन्ति स्म राजानं हर्षयुक्ता महारथाः ॥ ३५ ॥
नकुलः सहदेवश्च पाण्डवश्च वृकोदरः ।सात्यकिश्च महाराज वृष्णीनां प्रवरो रथः ॥ ३६ ॥
धृष्टद्युम्नः शिखण्डी च पाण्डुपाञ्चालसृञ्जयाः ।पूजयन्ति स्म कौन्तेयं निहते सूतनन्दने ॥ ३७ ॥
ते वर्धयित्वा नृपतिं पाण्डुपुत्रं युधिष्ठिरम् ।जितकाशिनो लब्धलक्षा युद्धशौण्डाः प्रहारिणः ॥ ३८ ॥
स्तुवन्तः स्तवयुक्ताभिर्वाग्भिः कृष्णौ परंतपौ ।जग्मुः स्वशिबिरायैव मुदा युक्ता महारथाः ॥ ३९ ॥
एवमेष क्षयो वृत्तः सुमहाँल्लोमहर्षणः ।तव दुर्मन्त्रिते राजन्नतीतं किं नु शोचसि ॥ ४० ॥
वैशंपायन उवाच ।श्रुत्वा तदप्रियं राजन्धृतराष्ट्रो महीपतिः ।पपात भूमौ निश्चेष्टः कौरव्यः परमार्तिवान् ।तथा सत्यव्रता देवी गान्धारी धर्मदर्शिनी ॥ ४१ ॥
तं प्रत्यगृह्णाद्विदुरो नृपतिं संजयस्तथा ।पर्याश्वासयतश्चैवं तावुभावेव भूमिपम् ॥ ४२ ॥
तथैवोत्थापयामासुर्गान्धारीं राजयोषितः ।ताभ्यामाश्वासितो राजा तूष्णीमासीद्विचेतनः ॥ ४३ ॥
« »