Click on words to see what they mean.

संजय उवाच ।तौ शङ्खभेरीनिनदे समृद्धे समीयतुः श्वेतहयौ नराग्र्यौ ।वैकर्तनः सूतपुत्रोऽर्जुनश्च दुर्मन्त्रिते तव पुत्रस्य राजन् ॥ १ ॥
यथा गजौ हैमवतौ प्रभिन्नौ प्रगृह्य दन्ताविव वाशितार्थे ।तथा समाजग्मतुरुग्रवेगौ धनंजयश्चाधिरथिश्च वीरौ ॥ २ ॥
बलाहकेनेव यथा बलाहको यदृच्छया वा गिरिणा गिरिर्यथा ।तथा धनुर्ज्यातलनेमिनिस्वनौ समीयतुस्ताविषुवर्षवर्षिणौ ॥ ३ ॥
प्रवृद्धशृङ्गद्रुमवीरुदोषधी प्रवृद्धनानाविधपर्वतौकसौ ।यथाचलौ वा गलितौ महाबलौ तथा महास्त्रैरितरेतरं घ्नतः ॥ ४ ॥
स संनिपातस्तु तयोर्महानभूत्सुरेशवैरोचनयोर्यथा पुरा ।शरैर्विभुग्नाङ्गनियन्तृवाहनः सुदुःसहोऽन्यैः पटुशोणितोदकः ॥ ५ ॥
प्रभूतपद्मोत्पलमत्स्यकच्छपौ महाह्रदौ पक्षिगणानुनादितौ ।सुसंनिकृष्टावनिलोद्धतौ यथा तथा रथौ तौ ध्वजिनौ समीयतुः ॥ ६ ॥
उभौ महेन्द्रस्य समानविक्रमावुभौ महेन्द्रप्रतिमौ महारथौ ।महेन्द्रवज्रप्रतिमैश्च सायकैर्महेन्द्रवृत्राविव संप्रजह्रतुः ॥ ७ ॥
सनागपत्त्यश्वरथे उभे बले विचित्रवर्णाभरणाम्बरस्रजे ।चकम्पतुश्चोन्नमतः स्म विस्मयाद्वियद्गताश्चार्जुनकर्णसंयुगे ॥ ८ ॥
भुजाः सवज्राङ्गुलयः समुच्छ्रिताः ससिंहनादा हृषितैर्दिदृक्षुभिः ।यदार्जुनं मत्तमिव द्विपो द्विपं समभ्ययादाधिरथिर्जिघांसया ॥ ९ ॥
अभ्यक्रोशन्सोमकास्तत्र पार्थं त्वरस्व याह्यर्जुन विध्य कर्णम् ।छिन्ध्यस्य मूर्धानमलं चिरेण श्रद्धां च राज्याद्धृतराष्ट्रसूनोः ॥ १० ॥
तथास्माकं बहवस्तत्र योधाः कर्णं तदा याहि याहीत्यवोचन् ।जह्यर्जुनं कर्ण ततः सचीराः पुनर्वनं यान्तु चिराय पार्थाः ॥ ११ ॥
ततः कर्णः प्रथमं तत्र पार्थं महेषुभिर्दशभिः पर्यविध्यत् ।तमर्जुनः प्रत्यविध्यच्छिताग्रैः कक्षान्तरे दशभिरतीव क्रुद्धः ॥ १२ ॥
परस्परं तौ विशिखैः सुतीक्ष्णैस्ततक्षतुः सूतपुत्रोऽर्जुनश्च ।परस्परस्यान्तरेप्सू विमर्दे सुभीममभ्याययतुः प्रहृष्टौ ॥ १३ ॥
अमृष्यमाणश्च महाविमर्दे तत्राक्रुध्यद्भीमसेनो महात्मा ।अथाब्रवीत्पाणिना पाणिमाघ्नन्संदष्टौष्ठो नृत्यति वादयन्निव ।कथं नु त्वां सूतपुत्रः किरीटिन्महेषुभिर्दशभिरविध्यदग्रे ॥ १४ ॥
यया धृत्या सर्वभूतान्यजैषीर्ग्रासं ददद्वह्नये खाण्डवे त्वम् ।तया धृत्या सूतपुत्रं जहि त्वमहं वैनं गदया पोथयिष्ये ॥ १५ ॥
अथाब्रवीद्वासुदेवोऽपि पार्थं दृष्ट्वा रथेषून्प्रतिहन्यमानान् ।अमीमृदत्सर्वथा तेऽद्य कर्णो ह्यस्त्रैरस्त्राणि किमिदं किरीटिन् ॥ १६ ॥
स वीर किं मुह्यसि नावधीयसे नदन्त्येते कुरवः संप्रहृष्टाः ।कर्णं पुरस्कृत्य विदुर्हि सर्वे त्वदस्त्रमस्त्रैर्विनिपात्यमानम् ॥ १७ ॥
यया धृत्या निहतं तामसास्त्रं युगे युगे राक्षसाश्चापि घोराः ।दम्भोद्भवाश्चासुराश्चाहवेषु तया धृत्या त्वं जहि सूतपुत्रम् ॥ १८ ॥
अनेन वास्य क्षुरनेमिनाद्य संछिन्द्धि मूर्धानमरेः प्रसह्य ।मया निसृष्टेन सुदर्शनेन वज्रेण शक्रो नमुचेरिवारेः ॥ १९ ॥
किरातरूपी भगवान्यया च त्वया महत्या परितोषितोऽभूत् ।तां त्वं धृतिं वीर पुनर्गृहीत्वा सहानुबन्धं जहि सूतपुत्रम् ॥ २० ॥
ततो महीं सागरमेखलां त्वं सपत्तनां ग्रामवतीं समृद्धाम् ।प्रयच्छ राज्ञे निहतारिसंघां यशश्च पार्थातुलमाप्नुहि त्वम् ॥ २१ ॥
संचोदितो भीमजनार्दनाभ्यां स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम् ।महात्मनश्चागमने विदित्वा प्रयोजनं केशवमित्युवाच ॥ २२ ॥
प्रादुष्करोम्येष महास्त्रमुग्रं शिवाय लोकस्य वधाय सौतेः ।तन्मेऽनुजानातु भवान्सुराश्च ब्रह्मा भवो ब्रह्मविदश्च सर्वे ॥ २३ ॥
इत्यूचिवान्ब्राह्ममसह्यमस्त्रं प्रादुश्चक्रे मनसा संविधेयम् ।ततो दिशश्च प्रदिशश्च सर्वाः समावृणोत्सायकैर्भूरितेजाः ।ससर्ज बाणान्भरतर्षभोऽपि शतंशतानेकवदाशुवेगान् ॥ २४ ॥
वैकर्तनेनापि तथाजिमध्ये सहस्रशो बाणगणा विसृष्टाः ।ते घोषिणः पाण्डवमभ्युपेयुः पर्जन्यमुक्ता इव वारिधाराः ॥ २५ ॥
स भीमसेनं च जनार्दनं च किरीटिनं चाप्यमनुष्यकर्मा ।त्रिभिस्त्रिभिर्भीमबलो निहत्य ननाद घोरं महता स्वरेण ॥ २६ ॥
स कर्णबाणाभिहतः किरीटी भीमं तथा प्रेक्ष्य जनार्दनं च ।अमृष्यमाणः पुनरेव पार्थः शरान्दशाष्टौ च समुद्बबर्ह ॥ २७ ॥
सुषेणमेकेन शरेण विद्ध्वा शल्यं चतुर्भिस्त्रिभिरेव कर्णम् ।ततः सुमुक्तैर्दशभिर्जघान सभापतिं काञ्चनवर्मनद्धम् ॥ २८ ॥
स राजपुत्रो विशिरा विबाहुर्विवाजिसूतो विधनुर्विकेतुः ।ततो रथाग्रादपतत्प्रभग्नः परश्वधैः शाल इवाभिकृत्तः ॥ २९ ॥
पुनश्च कर्णं त्रिभिरष्टभिश्च द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा ।चतुःशतान्द्विरदान्सायुधीयान्हत्वा रथानष्टशतं जघान ।सहस्रमश्वांश्च पुनश्च सादीनष्टौ सहस्राणि च पत्तिवीरान् ॥ ३० ॥
दृष्ट्वाजिमुख्यावथ युध्यमानौ दिदृक्षवः शूरवरावरिघ्नौ ।कर्णं च पार्थं च नियम्य वाहान्खस्था महीस्थाश्च जनावतस्थुः ॥ ३१ ॥
ततो धनुर्ज्या सहसातिकृष्टा सुघोषमाच्छिद्यत पाण्डवस्य ।तस्मिन्क्षणे सूतपुत्रस्तु पार्थं समाचिनोत्क्षुद्रकाणां शतेन ॥ ३२ ॥
निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णैस्तैलप्रधौतैः खगपत्रवाजैः ।षष्ट्या नाराचैर्वासुदेवं बिभेद तदन्तरं सोमकाः प्राद्रवन्त ॥ ३३ ॥
ततो धनुर्ज्यामवधम्य शीघ्रं शरानस्तानाधिरथेर्विधम्य ।सुसंरब्धः कर्णशरक्षताङ्गो रणे पार्थः सोमकान्प्रत्यगृह्णात् ।न पक्षिणः संपतन्त्यन्तरिक्षे क्षेपीयसास्त्रेण कृतेऽन्धकारे ॥ ३४ ॥
शल्यं च पार्थो दशभिः पृषत्कैर्भृशं तनुत्रे प्रहसन्नविध्यत् ।ततः कर्णं द्वादशभिः सुमुक्तैर्विद्ध्वा पुनः सप्तभिरभ्यविध्यत् ॥ ३५ ॥
स पार्थबाणासनवेगनुन्नैर्दृढाहतः पत्रिभिरुग्रवेगैः ।विभिन्नगात्रः क्षतजोक्षिताङ्गः कर्णो बभौ रुद्र इवाततेषुः ॥ ३६ ॥
ततस्त्रिभिश्च त्रिदशाधिपोपमं शरैर्बिभेदाधिरथिर्धनंजयम् ।शरांस्तु पञ्च ज्वलितानिवोरगान्प्रवीरयामास जिघांसुरच्युते ॥ ३७ ॥
ते वर्म भित्त्वा पुरुषोत्तमस्य सुवर्णचित्रं न्यपतन्सुमुक्ताः ।वेगेन गामाविविशुः सुवेगाः स्नात्वा च कर्णाभिमुखाः प्रतीयुः ॥ ३८ ॥
तान्पञ्चभल्लैस्त्वरितैः सुमुक्तैस्त्रिधा त्रिधैकैकमथोच्चकर्त ।धनंजयस्ते न्यपतन्पृथिव्यां महाहयस्तक्षकपुत्रपक्षाः ॥ ३९ ॥
ततः प्रजज्वाल किरीटमाली क्रोधेन कक्षं प्रदहन्निवाग्निः ।स कर्णमाकर्णविकृष्टसृष्टैः शरैः शरीरान्तकरैर्ज्वलद्भिः ।मर्मस्वविध्यत्स चचाल दुःखाद्धैर्यात्तु तस्थावतिमात्रधैर्यः ॥ ४० ॥
ततः शरौघैः प्रदिशो दिशश्च रविप्रभा कर्णरथश्च राजन् ।अदृश्य आसीत्कुपिते धनंजये तुषारनीहारवृतं यथा नभः ॥ ४१ ॥
स चक्ररक्षानथ पादरक्षान्पुरःसरान्पृष्ठगोपांश्च सर्वान् ।दुर्योधनेनानुमतानरिघ्नान्समुच्चितान्सुरथान्सारभूतान् ॥ ४२ ॥
द्विसाहस्रान्समरे सव्यसाची कुरुप्रवीरानृषभः कुरूणाम् ।क्षणेन सर्वान्सरथाश्वसूतान्निनाय राजन्क्षयमेकवीरः ॥ ४३ ॥
अथापलायन्त विहाय कर्णं तवात्मजाः कुरवश्चावशिष्टाः ।हतानवाकीर्य शरक्षतांश्च लालप्यमानांस्तनयान्पितॄंश्च ॥ ४४ ॥
स सर्वतः प्रेक्ष्य दिशो विशून्या भयावदीर्णैः कुरुभिर्विहीनः ।न विव्यथे भारत तत्र कर्णः प्रतीपमेवार्जुनमभ्यधावत् ॥ ४५ ॥
« »