Click on words to see what they mean.

संजय उवाच ।तद्देवनागासुरसिद्धसंघैर्गन्धर्वयक्षाप्सरसां च संघैः ।ब्रह्मर्षिराजर्षिसुपर्णजुष्टं बभौ वियद्विस्मयनीयरूपम् ॥ १ ॥
नानद्यमानं निनदैर्मनोज्ञैर्वादित्रगीतस्तुतिभिश्च नृत्तैः ।सर्वेऽन्तरिक्षे ददृशुर्मनुष्याः खस्थांश्च तान्विस्मयनीयरूपान् ॥ २ ॥
ततः प्रहृष्टाः कुरुपाण्डुयोधा वादित्रपत्रायुधसिंहनादैः ।निनादयन्तो वसुधां दिशश्च स्वनेन सर्वे द्विषतो निजघ्नुः ॥ ३ ॥
नानाश्वमातङ्गरथायुताकुलं वरासिशक्त्यृष्टिनिपातदुःसहम् ।अभीरुजुष्टं हतदेहसंकुलं रणाजिरं लोहितरक्तमाबभौ ॥ ४ ॥
तथा प्रवृत्तेऽस्त्रभृतां पराभवे धनंजयश्चाधिरथिश्च सायकैः ।दिशश्च सैन्यं च शितैरजिह्मगैः परस्परं प्रोर्णुवतुः स्म दंशितौ ॥ ५ ॥
ततस्त्वदीयाश्च परे च सायकैः कृतेऽन्धकारे विविदुर्न किंचन ।भयात्तु तावेव रथौ समाश्रयंस्तमोनुदौ खे प्रसृता इवांशवः ॥ ६ ॥
ततोऽस्त्रमस्त्रेण परस्परस्य तौ विधूय वाताविव पूर्वपश्चिमौ ।घनान्धकारे वितते तमोनुदौ यथोदितौ तद्वदतीव रेजतुः ॥ ७ ॥
न चाभिमन्तव्यमिति प्रचोदिताः परे त्वदीयाश्च तदावतस्थिरे ।महारथौ तौ परिवार्य सर्वतः सुरासुरा वासवशम्बराविव ॥ ८ ॥
मृदङ्गभेरीपणवानकस्वनैर्निनादिते भारत शङ्खनिस्वनैः ।ससिंहनादौ बभतुर्नरोत्तमौ शशाङ्कसूर्याविव मेघसंप्लवे ॥ ९ ॥
महाधनुर्मण्डलमध्यगावुभौ सुवर्चसौ बाणसहस्ररश्मिनौ ।दिधक्षमाणौ सचराचरं जगद्युगास्तसूर्याविव दुःसहौ रणे ॥ १० ॥
उभावजेयावहितान्तकावुभौ जिघांसतुस्तौ कृतिनौ परस्परम् ।महाहवे वीरवरौ समीयतुर्यथेन्द्रजम्भाविव कर्णपाण्डवौ ॥ ११ ॥
ततो महास्त्राणि महाधनुर्धरौ विमुञ्चमानाविषुभिर्भयानकैः ।नराश्वनागानमितौ निजघ्नतुः परस्परं जघ्नतुरुत्तमेषुभिः ॥ १२ ॥
ततो विसस्रुः पुनरर्दिताः शरैर्नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः ।सनागपत्त्यश्वरथा दिशो गतास्तथा यथा सिंहभयाद्वनौकसः ॥ १३ ॥
ततस्तु दुर्योधनभोजसौबलाः कृपश्च शारद्वतसूनुना सह ।महारथाः पञ्च धनंजयाच्युतौ शरैः शरीरान्तकरैरताडयन् ॥ १४ ॥
धनूंषि तेषामिषुधीन्हयान्ध्वजान्रथांश्च सूतांश्च धनंजयः शरैः ।समं च चिच्छेद पराभिनच्च ताञ्शरोत्तमैर्द्वादशभिश्च सूतजम् ॥ १५ ॥
अथाभ्यधावंस्त्वरिताः शतं रथाः शतं च नागार्जुनमाततायिनः ।शकास्तुखारा यवनाश्च सादिनः सहैव काम्बोजवरैर्जिघांसवः ॥ १६ ॥
वरायुधान्पाणिगतान्करैः सह क्षुरैर्न्यकृन्तंस्त्वरिताः शिरांसि च ।हयांश्च नागांश्च रथांश्च युध्यतां धनंजयः शत्रुगणं तमक्षिणोत् ॥ १७ ॥
ततोऽन्तरिक्षे सुरतूर्यनिस्वनाः ससाधुवादा हृषितैः समीरिताः ।निपेतुरप्युत्तमपुष्पवृष्टयः सुरूपगन्धाः पवनेरिताः शिवाः ॥ १८ ॥
तदद्भुतं देवमनुष्यसाक्षिकं समीक्ष्य भूतानि विसिष्मियुर्नृप ।तवात्मजः सूतसुतश्च न व्यथां न विस्मयं जग्मतुरेकनिश्चयौ ॥ १९ ॥
अथाब्रवीद्द्रोणसुतस्तवात्मजं करं करेण प्रतिपीड्य सान्त्वयन् ।प्रसीद दुर्योधन शाम्य पाण्डवैरलं विरोधेन धिगस्तु विग्रहम् ॥ २० ॥
हतो गुरुर्ब्रह्मसमो महास्त्रवित्तथैव भीष्मप्रमुखा नरर्षभाः ।अहं त्ववध्यो मम चापि मातुलः प्रशाधि राज्यं सह पाण्डवैश्चिरम् ॥ २१ ॥
धनंजयः स्थास्यति वारितो मया जनार्दनो नैव विरोधमिच्छति ।युधिष्ठिरो भूतहिते सदा रतो वृकोदरस्तद्वशगस्तथा यमौ ॥ २२ ॥
त्वया च पार्थैश्च परस्परेण प्रजाः शिवं प्राप्नुयुरिच्छति त्वयि ।व्रजन्तु शेषाः स्वपुराणि पार्थिवा निवृत्तवैराश्च भवन्तु सैनिकाः ॥ २३ ॥
न चेद्वचः श्रोष्यसि मे नराधिप ध्रुवं प्रतप्तासि हतोऽरिभिर्युधि ।इदं च दृष्टं जगता सह त्वया कृतं यदेकेन किरीटमालिना ।यथा न कुर्याद्बलभिन्न चान्तको न च प्रचेता भगवान्न यक्षराट् ॥ २४ ॥
अतोऽपि भूयांश्च गुणैर्धनंजयः स चाभिपत्स्यत्यखिलं वचो मम ।तवानुयात्रां च तथा करिष्यति प्रसीद राजञ्जगतः शमाय वै ॥ २५ ॥
ममापि मानः परमः सदा त्वयि ब्रवीम्यतस्त्वां परमाच्च सौहृदात् ।निवारयिष्यामि हि कर्णमप्यहं यदा भवान्सप्रणयो भविष्यति ॥ २६ ॥
वदन्ति मित्रं सहजं विचक्षणास्तथैव साम्ना च धनेन चार्जितम् ।प्रतापतश्चोपनतं चतुर्विधं तदस्ति सर्वं त्वयि पाण्डवेषु च ॥ २७ ॥
निसर्गतस्ते तव वीर बान्धवाः पुनश्च साम्ना च समाप्नुहि स्थिरम् ।त्वयि प्रसन्ने यदि मित्रतामियुर्ध्रुवं नरेन्द्रेन्द्र तथा त्वमाचर ॥ २८ ॥
स एवमुक्तः सुहृदा वचो हितं विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत् ।यथा भवानाह सखे तथैव तन्ममापि च ज्ञापयतो वचः शृणु ॥ २९ ॥
निहत्य दुःशासनमुक्तवान्बहु प्रसह्य शार्दूलवदेष दुर्मतिः ।वृकोदरस्तद्धृदये मम स्थितं न तत्परोक्षं भवतः कुतः शमः ॥ ३० ॥
न चापि कर्णं गुरुपुत्र संस्तवादुपारमेत्यर्हसि वक्तुमच्युत ।श्रमेण युक्तो महताद्य फल्गुनस्तमेष कर्णः प्रसभं हनिष्यति ॥ ३१ ॥
तमेवमुक्त्वाभ्यनुनीय चासकृत्तवात्मजः स्वाननुशास्ति सैनिकान् ।समाघ्नताभिद्रवताहितानिमान्सबाणशब्दान्किमु जोषमास्यते ॥ ३२ ॥
« »