Click on words to see what they mean.

संजय उवाच ।वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः ।मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः ॥ १ ॥
रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपून् ।युद्धायामर्षताम्राक्षः समाहूय धनंजयम् ॥ २ ॥
तौ रथौ सूर्यसंकाशौ वैयाघ्रपरिवारणौ ।समेतौ ददृशुस्तत्र द्वाविवार्कौ समागतौ ॥ ३ ॥
श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ ।शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि ॥ ४ ॥
तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष ।त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव ॥ ५ ॥
रथज्यातलनिर्ह्रादैर्बाणशङ्खरवैरपि ।तौ रथावभिधावन्तौ समालोक्य महीक्षिताम् ॥ ६ ॥
ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत ।हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः ॥ ७ ॥
तौ रथौ संप्रसक्तौ च दृष्ट्वा भारत पार्थिवाः ।सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान् ॥ ८ ॥
श्रुत्वा तु द्वैरथं ताभ्यां तत्र योधाः समन्ततः ।चक्रुर्बाहुवलं चैव तथा चेलवलं महत् ॥ ९ ॥
आजग्मुः कुरवस्तत्र वादित्रानुगतास्तदा ।कर्णं प्रहर्षयन्तश्च शङ्खान्दध्मुश्च पुष्कलान् ॥ १० ॥
तथैव पाण्डवाः सर्वे हर्षयन्तो धनंजयम् ।तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन् ॥ ११ ॥
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ।बाहुघोषाश्च वीराणां कर्णार्जुनसमागमे ॥ १२ ॥
तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ ।प्रगृहीतमहाचापौ शरशक्तिगदायुधौ ॥ १३ ॥
वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभिनौ ।तूणीरवरसंपन्नौ द्वावपि स्म सुदर्शनौ ॥ १४ ॥
रक्तचन्दनदिग्धाङ्गौ समदौ वृषभाविव ।आशीविषसमप्रख्यौ यमकालान्तकोपमौ ॥ १५ ॥
इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रमसप्रभौ ।महाग्रहाविव क्रूरौ युगान्ते समुपस्थितौ ॥ १६ ॥
देवगर्भौ देवसमौ देवतुल्यौ च रूपतः ।समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनंजयौ ॥ १७ ॥
उभौ वरायुधधरावुभौ रणकृतश्रमौ ।उभौ च बाहुशब्देन नादयन्तौ नभस्तलम् ॥ १८ ॥
उभौ विश्रुतकर्माणौ पौरुषेण बलेन च ।उभौ च सदृशौ युद्धे शम्बरामरराजयोः ॥ १९ ॥
कार्तवीर्यसमौ युद्धे तथा दाशरथेः समौ ।विष्णुवीर्यसमौ वीर्ये तथा भवसमौ युधि ॥ २० ॥
उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ ।सारथी प्रवरौ चैव तयोरास्तां महाबलौ ॥ २१ ॥
तौ तु दृष्ट्वा महाराज राजमानौ महारथौ ।सिद्धचारणसंघानां विस्मयः समपद्यत ॥ २२ ॥
धार्तराष्ट्रास्ततः कर्णं सबला भरतर्षभ ।परिवव्रुर्महात्मानं क्षिप्रमाहवशोभिनम् ॥ २३ ॥
तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः ।परिवव्रुर्महात्मानं पार्थमप्रतिमं युधि ॥ २४ ॥
तावकानां रणे कर्णो ग्लह आसीद्विशां पते ।तथैव पाण्डवेयानां ग्लहः पार्थोऽभवद्युधि ॥ २५ ॥
त एव सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्स्म ते ।तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ ॥ २६ ॥
ताभ्यां द्यूतं समायत्तं विजयायेतराय वा ।अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि ॥ २७ ॥
तौ तु स्थितौ महाराज समरे युद्धशालिनौ ।अन्योन्यं प्रतिसंरब्धावन्योन्यस्य जयैषिणौ ॥ २८ ॥
तावुभौ प्रजिहीर्षेतामिन्द्रवृत्राविवाभितः ।भीमरूपधरावास्तां महाधूमाविव ग्रहौ ॥ २९ ॥
ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ ।मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे ।व्याश्रयन्त दिशो भिन्नाः सर्वलोकाश्च मारिष ॥ ३० ॥
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ।प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे ॥ ३१ ॥
द्यौरासीत्कर्णतो व्यग्रा सनक्षत्रा विशां पते ।भूमिर्विशाला पार्थस्य माता पुत्रस्य भारत ॥ ३२ ॥
सरितः सागराश्चैव गिरयश्च नरोत्तम ।वृक्षाश्चौषधयस्तत्र व्याश्रयन्त किरीटिनम् ॥ ३३ ॥
असुरा यातुधानाश्च गुह्यकाश्च परंतप ।कर्णतः समपद्यन्त खेचराणि वयांसि च ॥ ३४ ॥
रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः ।सोपवेदोपनिषदः सरहस्याः ससंग्रहाः ॥ ३५ ॥
वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः ।पर्वताश्च तथा सर्वे काद्रवेयाश्च सान्वयाः ।विषवन्तो महारोषा नागाश्चार्जुनतोऽभवन् ॥ ३६ ॥
ऐरावताः सौरभेया वैशालेयाश्च भोगिनः ।एतेऽभवन्नर्जुनतः क्षुद्रसर्पास्तु कर्णतः ॥ ३७ ॥
ईहामृगा व्याडमृगा मङ्गल्याश्च मृगद्विजाः ।पार्थस्य विजयं राजन्सर्व एवाभिसंश्रिताः ॥ ३८ ॥
वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा ।अग्निरिन्द्रश्च सोमश्च पवनश्च दिशो दश ।धनंजयमुपाजग्मुरादित्याः कर्णतोऽभवन् ॥ ३९ ॥
देवास्तु पितृभिः सार्धं सगणार्जुनतोऽभवन् ।यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः ॥ ४० ॥
देवब्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन् ।तुम्बुरुप्रमुखा राजन्गन्धर्वाश्च यतोऽर्जुनः ॥ ४१ ॥
प्रावेयाः सह मौनेयैर्गन्धर्वाप्सरसां गणाः ।ईहामृगव्याडमृगैर्द्विपाश्च रथपत्तिभिः ॥ ४२ ॥
उह्यमानास्तथा मेघैर्वायुना च मनीषिणः ।दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् ॥ ४३ ॥
देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः ।महर्षयो वेदविदः पितरश्च स्वधाभुजः ॥ ४४ ॥
तपो विद्यास्तथौषध्यो नानारूपाम्बरत्विषः ।अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे ॥ ४५ ॥
ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च ।भवेनावस्थितो यानं दिव्यं तं देशमभ्ययात् ॥ ४६ ॥
दृष्ट्वा प्रजापतिं देवाः स्वयंभुवमुपागमन् ।समोऽस्तु देव विजय एतयोर्नरसिंहयोः ॥ ४७ ॥
तदुपश्रुत्य मघवा प्रणिपत्य पितामहम् ।कर्णार्जुनविनाशेन मा नश्यत्वखिलं जगत् ॥ ४८ ॥
स्वयंभो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः ।तत्तथास्तु नमस्तेऽस्तु प्रसीद भगवन्मम ॥ ४९ ॥
ब्रह्मेशानावथो वाक्यमूचतुस्त्रिदशेश्वरम् ।विजयो ध्रुव एवास्तु विजयस्य महात्मनः ॥ ५० ॥
मनस्वी बलवाञ्शूरः कृतास्त्रश्च तपोधनः ।बिभर्ति च महातेजा धनुर्वेदमशेषतः ॥ ५१ ॥
अतिक्रमेच्च माहात्म्याद्दिष्टमेतस्य पर्ययात् ।अतिक्रान्ते च लोकानामभावो नियतो भवेत् ॥ ५२ ॥
न विद्यते व्यवस्थानं कृष्णयोः क्रुद्धयोः क्वचित् ।स्रष्टारौ ह्यसतश्चोभौ सतश्च पुरुषर्षभौ ॥ ५३ ॥
नरनारायणावेतौ पुराणावृषिसत्तमौ ।अनियत्तौ नियन्तारावभीतौ स्म परंतपौ ॥ ५४ ॥
कर्णो लोकानयं मुख्यान्प्राप्नोतु पुरुषर्षभः ।वीरो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः ॥ ५५ ॥
वसूनां च सलोकत्वं मरुतां वा समाप्नुयात् ।सहितो द्रोणभीष्माभ्यां नाकलोके महीयताम् ॥ ५६ ॥
इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः ।आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात् ॥ ५७ ॥
श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम् ।तत्तथा नान्यथा तद्धि तिष्ठध्वं गतमन्यवः ॥ ५८ ॥
इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष ।विस्मितान्यभवन्राजन्पूजयां चक्रिरे च तत् ॥ ५९ ॥
व्यसृजंश्च सुगन्धीनि नानारूपाणि खात्तथा ।पुष्पवर्षाणि विबुधा देवतूर्याण्यवादयन् ॥ ६० ॥
दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः ।देवदानवगन्धर्वाः सर्व एवावतस्थिरे ।रथौ च तौ श्वेतहयौ युक्तकेतू महास्वनौ ॥ ६१ ॥
समागता लोकवीराः शङ्खान्दध्मुः पृथक्पृथक् ।वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत ॥ ६२ ॥
तद्भीरुसंत्रासकरं युद्धं समभवत्तदा ।अन्योन्यस्पर्धिनोर्वीर्ये शक्रशम्बरयोरिव ॥ ६३ ॥
तयोर्ध्वजौ वीतमालौ शुशुभाते रथस्थितौ ।पृथग्रूपौ समार्छन्तौ क्रोधं युद्धे परस्परम् ॥ ६४ ॥
कर्णस्याशीविषनिभा रत्नसारवती दृढा ।पुरंदरधनुःप्रख्या हस्तिकक्ष्या व्यराजत ॥ ६५ ॥
कपिश्रेष्ठस्तु पार्थस्य व्यादितास्यो भयंकरः ।भीषयन्नेव दंष्ट्राभिर्दुर्निरीक्ष्यो रविर्यथा ॥ ६६ ॥
युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः ।कर्णध्वजमुपातिष्ठत्सोऽवदीदभिनर्दयन् ॥ ६७ ॥
उत्पत्य च महावेगः कक्ष्यामभ्यहनत्कपिः ।नखैश्च दशनैश्चैव गरुडः पन्नगं यथा ॥ ६८ ॥
सुकिङ्किणीकाभरणा कालपाशोपमायसी ।अभ्यद्रवत्सुसंक्रुद्धा नागकक्ष्या महाकपिम् ॥ ६९ ॥
उभयोरुत्तमे युद्धे द्वैरथे द्यूत आहृते ।प्रकुर्वाते ध्वजौ युद्धं प्रत्यहेषन्हयान्हयाः ॥ ७० ॥
अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः ।स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत ॥ ७१ ॥
तत्राजयद्वासुदेवः शल्यं नयनसायकैः ।कर्णं चाप्यजयद्दृष्ट्या कुन्तीपुत्रो धनंजयः ॥ ७२ ॥
अथाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम् ।यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् ।किमुत्तरं तदा ते स्यात्सखे सत्यं ब्रवीहि मे ॥ ७३ ॥
शल्य उवाच ।यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः ।उभावेकरथेनाहं हन्यां माधवपाण्डवौ ॥ ७४ ॥
संजय उवाच ।एवमेव तु गोविंदमर्जुनः प्रत्यभाषत ।तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः ॥ ७५ ॥
पतेद्दिवाकरः स्थानाच्छीर्येतानेकधा क्षितिः ।शैत्यमग्निरियान्न त्वा कर्णो हन्याद्धनंजयम् ॥ ७६ ॥
यदि त्वेवं कथंचित्स्याल्लोकपर्यसनं यथा ।हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे ॥ ७७ ॥
इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः ।अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् ।ममाप्येतावपर्याप्तौ कर्णशल्यौ जनार्दन ॥ ७८ ॥
सपताकाध्वजं कर्णं सशल्यरथवाजिनम् ।सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् ॥ ७९ ॥
द्रष्टास्यद्य शरैः कर्णं रणे कृत्तमनेकधा ।अद्यैनं सरथं साश्वं सशक्तिकवचायुधम् ।न हि मे शाम्यते वैरं कृष्णां यत्प्राहसत्पुरा ॥ ८० ॥
अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया ।वारणेनेव मत्तेन पुष्पितं जगतीरुहम् ॥ ८१ ॥
अद्य ता मधुरा वाचः श्रोतासि मधुसूदन ।अद्याभिमन्युजननीमनृणः सान्त्वयिष्यसि ।कुन्तीं पितृष्वसारं च संप्रहृष्टो जनार्दन ॥ ८२ ॥
अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव ।वाग्भिश्चामृतकल्पाभिर्धर्मराजं युधिष्ठिरम् ॥ ८३ ॥
« »