Click on words to see what they mean.

संजय उवाच ।दुःशासने तु निहते पुत्रास्तव महारथाः ।महाक्रोधविषा वीराः समरेष्वपलायिनः ।दश राजन्महावीर्यो भीमं प्राच्छादयञ्शरैः ॥ १ ॥
कवची निषङ्गी पाशी दण्डधारो धनुर्धरः ।अलोलुपः शलः संधो वातवेगसुवर्चसौ ॥ २ ॥
एते समेत्य सहिता भ्रातृव्यसनकर्शिताः ।भीमसेनं महाबाहुं मार्गणैः समवारयन् ॥ ३ ॥
स वार्यमाणो विशिखैः समन्तात्तैर्महारथैः ।भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ ॥ ४ ॥
तांस्तु भल्लैर्महावेगैर्दशभिर्दशभिः शितैः ।रुक्माङ्गदो रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम् ॥ ५ ॥
हतेषु तेषु वीरेषु प्रदुद्राव बलं तव ।पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम् ॥ ६ ॥
ततः कर्णो महाराज प्रविवेश महारणम् ।दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव ॥ ७ ॥
तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः ।उवाच वचनं कर्णं प्राप्तकालमरिंदम ।मा व्यथां कुरु राधेय नैतत्त्वय्युपपद्यते ॥ ८ ॥
एते द्रवन्ति राजानो भीमसेनभयार्दिताः ।दुर्योधनश्च संमूढो भ्रातृव्यसनदुःखितः ॥ ९ ॥
दुःशासनस्य रुधिरे पीयमाने महात्मना ।व्यापन्नचेतसश्चैव शोकोपहतमन्यवः ॥ १० ॥
दुर्योधनमुपासन्ते परिवार्य समन्ततः ।कृपप्रभृतयः कर्ण हतशेषाश्च सोदराः ॥ ११ ॥
पाण्डवा लब्धलक्षाश्च धनंजयपुरोगमाः ।त्वामेवाभिमुखाः शूरा युद्धाय समुपास्थिताः ॥ १२ ॥
स त्वं पुरुषशार्दूल पौरुषे महति स्थितः ।क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनंजयम् ॥ १३ ॥
भारो हि धार्तराष्ट्रेण त्वयि सर्वः समर्पितः ।तमुद्वह महाबाहो यथाशक्ति यथाबलम् ।जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये ॥ १४ ॥
वृषसेनश्च राधेय संक्रुद्धस्तनयस्तव ।त्वयि मोहसमापन्ने पाण्डवानभिधावति ॥ १५ ॥
एतच्छ्रुत्वा तु वचनं शल्यस्यामिततेजसः ।हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम् ॥ १६ ॥
ततः क्रुद्धो वृषसेनोऽभ्यधावदातस्थिवांसं स्वरथं हतारिम् ।वृकोदरं कालमिवात्तदण्डं गदाहस्तं पोथमानं त्वदीयान् ॥ १७ ॥
तमभ्यधावन्नकुलः प्रवीरो रोषादमित्रं प्रतुदन्पृषत्कैः ।कर्णस्य पुत्रं समरे प्रहृष्टं जिष्णुर्जिघांसुर्मघवेव जम्भम् ॥ १८ ॥
ततो ध्वजं स्फाटिकचित्रकम्बुं चिच्छेद वीरो नकुलः क्षुरेण ।कर्णात्मजस्येष्वसनं च चित्रं भल्लेन जाम्बूनदपट्टनद्धम् ॥ १९ ॥
अथान्यदादाय धनुः सुशीघ्रं कर्णात्मजः पाण्डवमभ्यविध्यत् ।दिव्यैर्महास्त्रैर्नकुलं महास्त्रो दुःशासनस्यापचितिं यियासुः ॥ २० ॥
ततः क्रुद्धो नकुलस्तं महात्मा शरैर्महोल्काप्रतिमैरविध्यत् ।दिव्यैरस्त्रैरभ्यविध्यच्च सोऽपि कर्णस्य पुत्रो नकुलं कृतास्त्रः ॥ २१ ॥
कर्णस्य पुत्रो नकुलस्य राजन्सर्वानश्वानक्षिणोदुत्तमास्त्रैः ।वनायुजान्सुकुमारस्य शुभ्रानलंकृताञ्जातरूपेण शीघ्रान् ॥ २२ ॥
ततो हताश्वादवरुह्य यानादादाय चर्म रुचिरं चाष्टचन्द्रम् ।आकाशसंकाशमसिं गृहीत्वा पोप्लूयमानः खगवच्चचार ॥ २३ ॥
ततोऽन्तरिक्षे नृवराश्वनागांश्चिच्छेद मार्गान्विचरन्विचित्रान् ।ते प्रापतन्नसिना गां विशस्ता यथाश्वमेधे पशवः शमित्रा ॥ २४ ॥
द्विसाहस्रा विदिता युद्धशौण्डा नानादेश्याः सुभृताः सत्यसंधाः ।एकेन शीघ्रं नकुलेन कृत्ताः सारेप्सुनेवोत्तमचन्दनास्ते ॥ २५ ॥
तमापतन्तं नकुलं सोऽभिपत्य समन्ततः सायकैरभ्यविध्यत् ।स तुद्यमानो नकुलः पृषत्कैर्विव्याध वीरं स चुकोप विद्धः ॥ २६ ॥
तं कर्णपुत्रो विधमन्तमेकं नराश्वमातङ्गरथप्रवेकान् ।क्रीडन्तमष्टादशभिः पृषत्कैर्विव्याध वीरं स चुकोप विद्धः ॥ २७ ॥
ततोऽभ्यधावत्समरे जिघांसुः कर्णात्मजं पाण्डुसुतो नृवीरः ।तस्येषुभिर्व्यधमत्कर्णपुत्रो महारणे चर्म सहस्रतारम् ॥ २८ ॥
तस्यायसं निशितं तीक्ष्णधारमसिं विकोशं गुरुभारसाहम् ।द्विषच्छरीरापहरं सुघोरमाधुन्वतः सर्पमिवोग्ररूपम् ॥ २९ ॥
क्षिप्रं शरैः षड्भिरमित्रसाहश्चकर्त खड्गं निशितैः सुधारैः ।पुनश्च पीतैर्निशितैः पृषत्कैः स्तनान्तरे गाढमथाभ्यविध्यत् ॥ ३० ॥
स भीमसेनस्य रथं हताश्वो माद्रीसुतः कर्णसुताभितप्तः ।आपुप्लुवे सिंह इवाचलाग्रं संप्रेक्षमाणस्य धनंजयस्य ॥ ३१ ॥
नकुलमथ विदित्वा छिन्नबाणासनासिं विरथमरिशरार्तं कर्णपुत्रास्त्रभग्नम् ।पवनधुतपताका ह्रादिनो वल्गिताश्वा वरपुरुषनियत्तास्ते रथाः शीघ्रमीयुः ॥ ३२ ॥
द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः ।द्विरदरथनराश्वान्सूदयन्तस्त्वदीयान्भुजगपतिनिकाशैर्मार्गणैरात्तशस्त्राः ॥ ३३ ॥
अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तो हृदिकसुतकृपौ च द्रौणिदुर्योधनौ च ।शकुनिशुकवृकाश्च क्राथदेवावृधौ च द्विरदजलदघोषैः स्यन्दनैः कार्मुकैश्च ॥ ३४ ॥
तव नरवरवर्यास्तान्दशैकं च वीरान्प्रवरशरवराग्र्यैस्ताडयन्तोऽभ्यरुन्धन् ।नवजलदसवर्णैर्हस्तिभिस्तानुदीयुर्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः ॥ ३५ ॥
सुकल्पिता हैमवता मदोत्कटा रणाभिकामैः कृतिभिः समास्थिताः ।सुवर्णजालावतता बभुर्गजास्तथा यथा वै जलदाः सविद्युतः ॥ ३६ ॥
कुणिन्दपुत्रो दशभिर्महायसैः कृपं ससूताश्वमपीडयद्भृशम् ।ततः शरद्वत्सुतसायकैर्हतः सहैव नागेन पपात भूतले ॥ ३७ ॥
कुणिन्दपुत्रावरजस्तु तोमरैर्दिवाकरांशुप्रतिमैरयस्मयैः ।रथं च विक्षोभ्य ननाद नर्दतस्ततोऽस्य गान्धारपतिः शिरोऽहरत् ॥ ३८ ॥
ततः कुणिन्देषु हतेषु तेष्वथ प्रहृष्टरूपास्तव ते महारथाः ।भृशं प्रदध्मुर्लवणाम्बुसंभवान्परांश्च बाणासनपाणयोऽभ्ययुः ॥ ३९ ॥
अथाभवद्युद्धमतीव दारुणं पुनः कुरूणां सह पाण्डुसृञ्जयैः ।शरासिशक्त्यृष्टिगदापरश्वधैर्नराश्वनागासुहरं भृशाकुलम् ॥ ४० ॥
रथाश्वमातङ्गपदातिभिस्ततः परस्परं विप्रहतापतन्क्षितौ ।यथा सविद्युत्स्तनिता बलाहकाः समास्थिता दिग्भ्य इवोग्रमारुतैः ॥ ४१ ॥
ततः शतानीकहतान्महागजांस्तथा रथान्पत्तिगणांश्च तावकान् ।जघान भोजश्च हयानथापतन्विशस्त्रकृत्ताः कृतवर्मणा द्विपाः ॥ ४२ ॥
अथापरे द्रौणिशराहता द्विपास्त्रयः ससर्वायुधयोधकेतवः ।निपेतुरुर्व्यां व्यसवः प्रपातितास्तथा यथा वज्रहता महाचलाः ॥ ४३ ॥
कुणिन्दराजावरजादनन्तरः स्तनान्तरे पत्रिवरैरताडयत् ।तवात्मजं तस्य तवात्मजः शरैः शितैः शरीरं बिभिदे द्विपं च तम् ॥ ४४ ॥
स नागराजः सह राजसूनुना पपात रक्तं बहु सर्वतः क्षरन् ।शचीशवज्रप्रहतोऽम्बुदागमे यथा जलं गैरिकपर्वतस्तथा ॥ ४५ ॥
कुणिन्दपुत्रप्रहितोऽपरद्विपः शुकं ससूताश्वरथं व्यपोथयत् ।ततोऽपतत्क्राथशराभिदारितः सहेश्वरो वज्रहतो यथा गिरिः ॥ ४६ ॥
रथी द्विपस्थेन हतोऽपतच्छरैः क्राथाधिपः पर्वतजेन दुर्जयः ।सवाजिसूतेष्वसनस्तथापतद्यथा महावातहतो महाद्रुमः ॥ ४७ ॥
वृको द्विपस्थं गिरिराजवासिनं भृशं शरैर्द्वादशभिः पराभिनत् ।ततो वृकं साश्वरथं महाजवं त्वरंश्चतुर्भिश्चरणे व्यपोथयत् ॥ ४८ ॥
स नागराजः सनियन्तृकोऽपतत्पराहतो बभ्रुसुतेषुभिर्भृशम् ।स चापि देवावृधसूनुरर्दितः पपात नुन्नः सहदेवसूनुना ॥ ४९ ॥
विषाणपोत्रापरगात्रघातिना गजेन हन्तुं शकुनेः कुणिन्दजः ।जगाम वेगेन भृशार्दयंश्च तं ततोऽस्य गान्धारपतिः शिरोऽहरत् ॥ ५० ॥
ततः शतानीकहता महागजा हया रथाः पत्तिगणाश्च तावकाः ।सुपर्णवातप्रहता यथा नगास्तथा गता गामवशा विचूर्णिताः ॥ ५१ ॥
ततोऽभ्यविध्यद्बहुभिः शितैः शरैः कुणिन्दपुत्रो नकुलात्मजं स्मयन् ।ततोऽस्य कायान्निचकर्त नाकुलिः शिरः क्षुरेणाम्बुजसंनिभाननम् ॥ ५२ ॥
ततः शतानीकमविध्यदाशुगैस्त्रिभिः शितैः कर्णसुतोऽर्जुनं त्रिभिः ।त्रिभिश्च भीमं नकुलं च सप्तभिर्जनार्दनं द्वादशभिश्च सायकैः ॥ ५३ ॥
तदस्य कर्मातिमनुष्यकर्मणः समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन् ।पराक्रमज्ञास्तु धनंजयस्य ते हुतोऽयमग्नाविति तं तु मेनिरे ॥ ५४ ॥
ततः किरीटी परवीरघाती हताश्वमालोक्य नरप्रवीरम् ।तमभ्यधावद्वृषसेनमाहवे स सूतजस्य प्रमुखे स्थितं तदा ॥ ५५ ॥
तमापतन्तं नरवीरमुग्रं महाहवे बाणसहस्रधारिणम् ।अभ्यापतत्कर्णसुतो महारथो यथैव चेन्द्रं नमुचिः पुरातने ॥ ५६ ॥
ततोऽद्भुतेनैकशतेन पार्थं शरैर्विद्ध्वा सूतपुत्रस्य पुत्रः ।ननाद नादं सुमहानुभावो विद्ध्वेव शक्रं नमुचिः पुरा वै ॥ ५७ ॥
पुनः स पार्थं वृषसेन उग्रैर्बाणैरविध्यद्भुजमूलमध्ये ।तथैव कृष्णं नवभिः समार्दयत्पुनश्च पार्थं दशभिः शिताग्रैः ॥ ५८ ॥
ततः किरीटी रणमूर्ध्नि कोपात्कृत्वा त्रिशाखां भ्रुकुटिं ललाटे ।मुमोच बाणान्विशिखान्महात्मा वधाय राजन्सूतपुत्रस्य संख्ये ॥ ५९ ॥
विव्याध चैनं दशभिः पृषत्कैर्मर्मस्वसक्तं प्रसभं किरीटी ।चिच्छेद चास्येष्वसनं भुजौ च क्षुरैश्चतुर्भिः शिर एव चोग्रैः ॥ ६० ॥
स पार्थबाणाभिहतः पपात रथाद्विबाहुर्विशिरा धरायाम् ।सुपुष्पितः पर्णधरोऽतिकायो वातेरितः शाल इवाद्रिशृङ्गात् ॥ ६१ ॥
तं प्रेक्ष्य बाणाभिहतं पतन्तं रथात्सुतं सूतजः क्षिप्रकारी ।रथं रथेनाशु जगाम वेगात्किरीटिनः पुत्रवधाभितप्तः ॥ ६२ ॥
« »