Click on words to see what they mean.

संजय उवाच ।इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् ।बभूव विमनाः पार्थः किंचित्कृत्वेव पातकम् ॥ १ ॥
ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् ।कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् ।असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम् ॥ २ ॥
त्वमित्युक्त्वैव राजानमेवं कश्मलमाविशः ।हत्वा तु नृपतिं पार्थ अकरिष्यः किमुत्तरम् ।एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ॥ ३ ॥
स भवान्धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः ।नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात् ॥ ४ ॥
स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् ।प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम ॥ ५ ॥
प्रसाद्य भक्त्या राजानं प्रीतं चैव युधिष्ठिरम् ।प्रयामस्त्वरिता योद्धुं सूतपुत्ररथं प्रति ॥ ६ ॥
हत्वा सुदुर्जयं कर्णं त्वमद्य निशितैः शरैः ।विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद ॥ ७ ॥
एतदत्र महाबाहो प्राप्तकालं मतं मम ।एवं कृते कृतं चैव तव कार्यं भविष्यति ॥ ८ ॥
ततोऽर्जुनो महाराज लज्जया वै समन्वितः ।धर्मराजस्य चरणौ प्रपेदे शिरसानघ ॥ ९ ॥
उवाच भरतश्रेष्ठ प्रसीदेति पुनः पुनः ।क्षमस्व राजन्यत्प्रोक्तं धर्मकामेन भीरुणा ॥ १० ॥
पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः ।धनंजयममित्रघ्नं रुदन्तं भरतर्षभ ॥ ११ ॥
उत्थाप्य भ्रातरं राजा धर्मराजो धनंजयम् ।समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः ॥ १२ ॥
रुदित्वा तु चिरं कालं भ्रातरौ सुमहाद्युती ।कृतशौचौ नरव्याघ्रौ प्रीतिमन्तौ बभूवतुः ॥ १३ ॥
तत आश्लिष्य स प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवम् ।प्रीत्या परमया युक्तः प्रस्मयंश्चाब्रवीज्जयम् ॥ १४ ॥
कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः ।कवचं च ध्वजश्चैव धनुः शक्तिर्हया गदा ।शरैः कृत्ता महेष्वास यतमानस्य संयुगे ॥ १५ ॥
सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन ।व्यवसीदामि दुःखेन न च मे जीवितं प्रियम् ॥ १६ ॥
तमद्य यदि वै वीर न हनिष्यसि सूतजम् ।प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम ॥ १७ ॥
एवमुक्तः प्रत्युवाच विजयो भरतर्षभ ।सत्येन ते शपे राजन्प्रसादेन तवैव च ।भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते ॥ १८ ॥
यथाद्य समरे कर्णं हनिष्यामि हतोऽथ वा ।महीतले पतिष्यामि सत्येनायुधमालभे ॥ १९ ॥
एवमाभाष्य राजानमब्रवीन्माधवं वचः ।अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः ।तदनुध्याहि भद्रं ते वधं तस्य दुरात्मनः ॥ २० ॥
एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम ।शक्तोऽस्मि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम् ॥ २१ ॥
एवं चापि हि मे कामो नित्यमेव महारथ ।कथं भवान्रणे कर्णं निहन्यादिति मे मतिः ॥ २२ ॥
भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम् ।युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि ।अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः ॥ २३ ॥
श्रुत्वा ह्ययमहं चैव त्वां कर्णशरपीडितम् ।प्रवृत्तिं ज्ञातुमायाताविह पाण्डवनन्दन ॥ २४ ॥
दिष्ट्यासि राजन्निरुजो दिष्ट्या न ग्रहणं गतः ।परिसान्त्वय बीभत्सुं जयमाशाधि चानघ ॥ २५ ॥
युधिष्ठिर उवाच ।एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव ।वक्तव्यमुक्तोऽस्म्यहितं त्वया क्षान्तं च तन्मया ॥ २६ ॥
अहं त्वामनुजानामि जहि कर्णं धनंजय ।मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम् ॥ २७ ॥
संजय उवाच ।ततो धनंजयो राजञ्शिरसा प्रणतस्तदा ।पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष ॥ २८ ॥
समुत्थाप्य ततो राजा परिष्वज्य च पीडितम् ।मूर्ध्न्युपाघ्राय चैवैनमिदं पुनरुवाच ह ॥ २९ ॥
धनंजय महाबाहो मानितोऽस्मि दृढं त्वया ।माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम् ॥ ३० ॥
अर्जुन उवाच ।अद्य तं पापकर्माणं सानुबन्धं रणे शरैः ।नयाम्यन्तं समासाद्य राधेयं बलगर्वितम् ॥ ३१ ॥
येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम् ।तस्याद्य कर्मणः कर्णः फलं प्राप्स्यति दारुणम् ॥ ३२ ॥
अद्य त्वामहमेष्यामि कर्णं हत्वा महीपते ।सभाजयितुमाक्रन्दादिति सत्यं ब्रवीमि ते ॥ ३३ ॥
नाहत्वा विनिवर्तेऽहं कर्णमद्य रणाजिरात् ।इति सत्येन ते पादौ स्पृशामि जगतीपते ॥ ३४ ॥
संजय उवाच ।प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना ।पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः ॥ ३५ ॥
कल्प्यतां च रथो भूयो युज्यन्तां च हयोत्तमाः ।आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे ॥ ३६ ॥
उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिनः ।रथोपकरणैः सर्वैरुपायान्तु त्वरान्विताः ॥ ३७ ॥
एवमुक्ते महाराज फल्गुनेन महात्मना ।उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत् ।अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ ३८ ॥
आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम ।योजयामास स रथं वैयाघ्रं शत्रुतापनम् ॥ ३९ ॥
युक्तं तु रथमास्थाय दारुकेण महात्मना ।आपृच्छ्य धर्मराजानं ब्राह्मणान्स्वस्ति वाच्य च ।समङ्गलस्वस्त्ययनमारुरोह रथोत्तमम् ॥ ४० ॥
तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः ।आशिषोऽयुङ्क्त परमा युक्ताः कर्णवधं प्रति ॥ ४१ ॥
तं प्रयान्तं महेष्वासं दृष्ट्वा भूतानि भारत ।निहतं मेनिरे कर्णं पाण्डवेन महात्मना ॥ ४२ ॥
बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः ।चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर ।प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् ॥ ४३ ॥
बहवः पक्षिणो राजन्पुंनामानः शुभाः शिवाः ।त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे ॥ ४४ ॥
कङ्का गृध्रा वडाश्चैव वायसाश्च विशां पते ।अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः ॥ ४५ ॥
निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे ।विनाशमरिसैन्यानां कर्णस्य च वधं तथा ॥ ४६ ॥
प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत ।चिन्ता च विपुला जज्ञे कथं न्वेतद्भविष्यति ॥ ४७ ॥
ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः ।दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा ॥ ४८ ॥
गाण्डीवधन्वन्संग्रामे ये त्वया धनुषा जिताः ।न तेषां मानुषो जेता त्वदन्य इह विद्यते ॥ ४९ ॥
दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः ।त्वां प्राप्य समरे वीरं ये गताः परमां गतिम् ॥ ५० ॥
को हि द्रोणं च भीष्मं च भगदत्तं च मारिष ।विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् ॥ ५१ ॥
श्रुतायुषं महावीर्यमच्युतायुषमेव च ।प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वमिव क्षमी ॥ ५२ ॥
तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च ।वेधः पातश्च लक्षश्च योगश्चैव तवार्जुन ।असंमोहश्च युद्धेषु विज्ञानस्य च संनतिः ॥ ५३ ॥
भवान्देवासुरान्सर्वान्हन्यात्सहचराचरान् ।पृथिव्यां हि रणे पार्थ न योद्धा त्वत्समः पुमान् ॥ ५४ ॥
धनुर्ग्रहा हि ये केचित्क्षत्रिया युद्धदुर्मदाः ।आ देवात्त्वत्समं तेषां न पश्यामि शृणोमि वा ॥ ५५ ॥
ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महाद्भुतम् ।येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः ॥ ५६ ॥
अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव ।मावमंस्था महाबाहो कर्णमाहवशोभिनम् ॥ ५७ ॥
कर्णो हि बलवान्धृष्टः कृतास्त्रश्च महारथः ।कृती च चित्रयोधी च देशे काले च कोविदः ॥ ५८ ॥
तेजसा वह्निसदृशो वायुवेगसमो जवे ।अन्तकप्रतिमः क्रोधे सिंहसंहननो बली ॥ ५९ ॥
अयोरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः ।अतिमानी च शूरश्च प्रवीरः प्रियदर्शनः ॥ ६० ॥
सर्वैर्योधगुणैर्युक्तो मित्राणामभयंकरः ।सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः ॥ ६१ ॥
सर्वैरवध्यो राधेयो देवैरपि सवासवैः ।ऋते त्वामिति मे बुद्धिस्त्वमद्य जहि सूतजम् ॥ ६२ ॥
देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम् ।अशक्यः समरे जेतुं सर्वैरपि युयुत्सुभिः ॥ ६३ ॥
दुरात्मानं पापमतिं नृशंसं दुष्टप्रज्ञं पाण्डवेयेषु नित्यम् ।हीनस्वार्थं पाण्डवेयैर्विरोधे हत्वा कर्णं धिष्ठितार्थो भवाद्य ॥ ६४ ॥
वीरं मन्यत आत्मानं येन पापः सुयोधनः ।तमद्य मूलं पापानां जय सौतिं धनंजय ॥ ६५ ॥
« »