Click on words to see what they mean.

संजय उवाच ।युधिष्ठिरेणैवमुक्तः कौन्तेयः श्वेतवाहनः ।असिं जग्राह संक्रुद्धो जिघांसुर्भरतर्षभम् ॥ १ ॥
तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा ।उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत ॥ २ ॥
नेह पश्यामि योद्धव्यं तव किंचिद्धनंजय ।ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता ॥ ३ ॥
अपयातोऽसि कौन्तेय राजा द्रष्टव्य इत्यपि ।स राजा भवता दृष्टः कुशली च युधिष्ठिरः ॥ ४ ॥
तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् ।हर्षकाले तु संप्राप्ते कस्मात्त्वा मन्युराविशत् ॥ ५ ॥
न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह ।कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरम् ॥ ६ ॥
तत्त्वा पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् ।परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम ॥ ७ ॥
एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम् ।अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् ॥ ८ ॥
दद गाण्डीवमन्यस्मा इति मां योऽभिचोदयेत् ।छिन्द्यामहं शिरस्तस्य इत्युपांशुव्रतं मम ॥ ९ ॥
तदुक्तोऽहमदीनात्मन्राज्ञामितपराक्रम ।समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे ॥ १० ॥
तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम् ।प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम् ।एतदर्थं मया खड्गो गृहीतो यदुनन्दन ॥ ११ ॥
सोऽहं युधिष्ठिरं हत्वा सत्येऽप्यानृण्यतां गतः ।विशोको विज्वरश्चापि भविष्यामि जनार्दन ॥ १२ ॥
किं वा त्वं मन्यसे प्राप्तमस्मिन्काले समुत्थिते ।त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् ।तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् ॥ १३ ॥
कृष्ण उवाच ।इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया ।अकाले पुरुषव्याघ्र संरम्भक्रिययानया ।न हि धर्मविभागज्ञः कुर्यादेवं धनंजय ॥ १४ ॥
अकार्याणां च कार्याणां संयोगं यः करोति वै ।कार्याणामक्रियाणां च स पार्थ पुरुषाधमः ॥ १५ ॥
अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः ।समासविस्तरविदां न तेषां वेत्थ निश्चयम् ॥ १६ ॥
अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये ।अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु ॥ १७ ॥
न हि कार्यमकार्यं वा सुखं ज्ञातुं कथंचन ।श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे ॥ १८ ॥
अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित् ।प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते ॥ १९ ॥
प्राणिनामवधस्तात सर्वज्यायान्मतो मम ।अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथंचन ॥ २० ॥
स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् ।हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव ॥ २१ ॥
अयुध्यमानस्य वधस्तथाशस्त्रस्य भारत ।पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः ।कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते बुधैः ॥ २२ ॥
त्वया चैव व्रतं पार्थ बालेनैव कृतं पुरा ।तस्मादधर्मसंयुक्तं मौढ्यात्कर्म व्यवस्यसि ॥ २३ ॥
स गुरुं पार्थ कस्मात्त्वं हन्या धर्ममनुस्मरन् ।असंप्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम् ॥ २४ ॥
इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ ।यद्ब्रूयात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः ॥ २५ ॥
विदुरो वा तथा क्षत्ता कुन्ती वापि यशस्विनी ।तत्ते वक्ष्यामि तत्त्वेन तन्निबोध धनंजय ॥ २६ ॥
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।तत्त्वेनैतत्सुदुर्ज्ञेयं यस्य सत्यमनुष्ठितम् ॥ २७ ॥
भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् ।सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् ॥ २८ ॥
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् ।यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ॥ २९ ॥
तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम् ।सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥ ३० ॥
किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः ।सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥ ३१ ॥
किमाश्चर्यं पुनर्मूढो धर्मकामोऽप्यपण्डितः ।सुमहत्प्राप्नुयात्पापमापगामिव कौशिकः ॥ ३२ ॥
अर्जुन उवाच ।आचक्ष्व भगवन्नेतद्यथा विद्यामहं तथा ।बलाकान्धाभिसंबद्धं नदीनां कौशिकस्य च ॥ ३३ ॥
कृष्ण उवाच ।मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत ।यात्रार्थं पुत्रदारस्य मृगान्हन्ति न कामतः ॥ ३४ ॥
सोऽन्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् ।स्वधर्मनिरतो नित्यं सत्यवागनसूयकः ॥ ३५ ॥
स कदाचिन्मृगाँल्लिप्सुर्नान्वविन्दत्प्रयत्नवान् ।अथापश्यत्स पीतोदं श्वापदं घ्राणचक्षुषम् ॥ ३६ ॥
अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा ।अन्वेव च ततो व्योम्नः पुष्पवर्षमवापतत् ॥ ३७ ॥
अप्सरोगीतवादित्रैर्नादितं च मनोरमम् ।विमानमागमत्स्वर्गान्मृगव्याधनिनीषया ॥ ३८ ॥
तद्भूतं सर्वभूतानामभावाय किलार्जुन ।तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयंभुवा ॥ ३९ ॥
तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् ।ततो बलाकः स्वरगादेवं धर्मः सुदुर्विदः ॥ ४० ॥
कौशिकोऽप्यभवद्विप्रस्तपस्वी न बहुश्रुतः ।नदीनां संगमे ग्रामाददूरे स किलावसत् ॥ ४१ ॥
सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतम् ।सत्यवादीति विख्यातः स तदासीद्धनंजय ॥ ४२ ॥
अथ दस्युभयात्केचित्तदा तद्वनमाविशन् ।दस्यवोऽपि गताः क्रूरा व्यमार्गन्त प्रयत्नतः ॥ ४३ ॥
अथ कौशिकमभ्येत्य प्राहुस्तं सत्यवादिनम् ।कतमेन पथा याता भगवन्बहवो जनाः ।सत्येन पृष्टः प्रब्रूहि यदि तान्वेत्थ शंस नः ॥ ४४ ॥
स पृष्टः कौशिकः सत्यं वचनं तानुवाच ह ।बहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः ।ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः ॥ ४५ ॥
तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः ।गतः सुकष्टं नरकं सूक्ष्मधर्मेष्वकोविदः ।अप्रभूतश्रुतो मूढो धर्माणामविभागवित् ॥ ४६ ॥
वृद्धानपृष्ट्वा संदेहं महच्छ्वभ्रमितोऽर्हति ।तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति ॥ ४७ ॥
दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति ।श्रुतिर्धर्म इति ह्येके वदन्ति बहवो जनाः ॥ ४८ ॥
न त्वेतत्प्रतिसूयामि न हि सर्वं विधीयते ।प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् ॥ ४९ ॥
धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः ।यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः ॥ ५० ॥
येऽन्यायेन जिहीर्षन्तो जना इच्छन्ति कर्हिचित् ।अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन ॥ ५१ ॥
अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजतः ।श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् ॥ ५२ ॥
प्राणात्यये विवाहे वा सर्वज्ञातिधनक्षये ।नर्मण्यभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत् ।अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः ॥ ५३ ॥
यः स्तेनैः सह संबन्धान्मुच्यते शपथैरपि ।श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम् ॥ ५४ ॥
न च तेभ्यो धनं देयं शक्ये सति कथंचन ।पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ।तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत् ॥ ५५ ॥
एष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि ।एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः ॥ ५६ ॥
अर्जुन उवाच ।यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः ।हितं चैव यथास्माकं तथैतद्वचनं तव ॥ ५७ ॥
भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च ।गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतम् ॥ ५८ ॥
न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् ।तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् ॥ ५९ ॥
अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् ।तस्मिन्समयसंयोगे ब्रूहि किंचिदनुग्रहम् ।इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितम् ॥ ६० ॥
जानासि दाशार्ह मम व्रतं त्वं यो मां ब्रूयात्कश्चन मानुषेषु ।अन्यस्मै त्वं गाण्डिवं देहि पार्थ यस्त्वत्तोऽस्त्रैर्भविता वा विशिष्टः ॥ ६१ ॥
हन्यामहं केशव तं प्रसह्य भीमो हन्यात्तूबरकेति चोक्तः ।तन्मे राजा प्रोक्तवांस्ते समक्षं धनुर्देहीत्यसकृद्वृष्णिसिंह ॥ ६२ ॥
तं हत्वा चेत्केशव जीवलोके स्थाता कालं नाहमप्यल्पमात्रम् ।सा च प्रतिज्ञा मम लोकप्रबुद्धा भवेत्सत्या धर्मभृतां वरिष्ठ ।यथा जीवेत्पाण्डवोऽहं च कृष्ण तथा बुद्धिं दातुमद्यार्हसि त्वम् ॥ ६३ ॥
वासुदेव उवाच ।राजा श्रान्तो जगतो विक्षतश्च कर्णेन संख्ये निशितैर्बाणसंघैः ।तस्मात्पार्थ त्वां परुषाण्यवोचत्कर्णे द्यूतं ह्यद्य रणे निबद्धम् ॥ ६४ ॥
तस्मिन्हते कुरवो निर्जिताः स्युरेवंबुद्धिः पार्थिवो धर्मपुत्रः ।यदावमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः ॥ ६५ ॥
तन्मानितः पार्थिवोऽयं सदैव त्वया सभीमेन तथा यमाभ्याम् ।वृद्धैश्च लोके पुरुषप्रवीरैस्तस्यावमानं कलया त्वं प्रयुङ्क्ष्व ॥ ६६ ॥
त्वमित्यत्रभवन्तं त्वं ब्रूहि पार्थ युधिष्ठिरम् ।त्वमित्युक्तो हि निहतो गुरुर्भवति भारत ॥ ६७ ॥
एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे ।अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह ॥ ६८ ॥
अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः ।अविचार्यैव कार्यैषा श्रेयःकामैर्नरैः सदा ॥ ६९ ॥
वधो ह्ययं पाण्डव धर्मराज्ञस्त्वत्तो युक्तो वेत्स्यते चैवमेषः ।ततोऽस्य पादावभिवाद्य पश्चाच्छमं ब्रूयाः सान्त्वपूर्वं च पार्थम् ॥ ७० ॥
भ्राता प्राज्ञस्तव कोपं न जातु कुर्याद्राजा कंचन पाण्डवेयः ।मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ हृष्टः कर्णं त्वं जहि सूतपुत्रम् ॥ ७१ ॥
संजय उवाच ।इत्येवमुक्तस्तु जनार्दनेन पार्थः प्रशस्याथ सुहृद्वधं तम् ।ततोऽब्रवीदर्जुनो धर्मराजमनुक्तपूर्वं परुषं प्रसह्य ॥ ७२ ॥
मा त्वं राजन्व्याहर व्याहरत्सु न तिष्ठसे क्रोशमात्रे रणार्धे ।भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वयोधप्रवीरः ॥ ७३ ॥
काले हि शत्रून्प्रतिपीड्य संख्ये हत्वा च शूरान्पृथिवीपतींस्तान् ।यः कुञ्जराणामधिकं सहस्रं हत्वानदत्तुमुलं सिंहनादम् ॥ ७४ ॥
सुदुष्करं कर्म करोति वीरः कर्तुं यथा नार्हसि त्वं कदाचित् ।रथादवप्लुत्य गदां परामृशंस्तया निहन्त्यश्वनरद्विपान्रणे ॥ ७५ ॥
वरासिना वाजिरथाश्वकुञ्जरांस्तथा रथाङ्गैर्धनुषा च हन्त्यरीन् ।प्रमृद्य पद्भ्यामहितान्निहन्ति यः पुनश्च दोर्भ्यां शतमन्युविक्रमः ॥ ७६ ॥
महाबलो वैश्रवणान्तकोपमः प्रसह्य हन्ता द्विषतां यथार्हम् ।स भीमसेनोऽर्हति गर्हणां मे न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः ॥ ७७ ॥
महारथान्नागवरान्हयांश्च पदातिमुख्यानपि च प्रमथ्य ।एको भीमो धार्तराष्ट्रेषु मग्नः स मामुपालब्धुमरिंदमोऽर्हति ॥ ७८ ॥
कलिङ्गवङ्गाङ्गनिषादमागधान्सदामदान्नीलबलाहकोपमान् ।निहन्ति यः शत्रुगणाननेकशः स माभिवक्तुं प्रभवत्यनागसम् ॥ ७९ ॥
सुयुक्तमास्थाय रथं हि काले धनुर्विकर्षञ्शरपूर्णमुष्टिः ।सृजत्यसौ शरवर्षाणि वीरो महाहवे मेघ इवाम्बुधाराः ॥ ८० ॥
बलं तु वाचि द्विजसत्तमानां क्षात्रं बुधा बाहुबलं वदन्ति ।त्वं वाग्बलो भारत निष्ठुरश्च त्वमेव मां वेत्सि यथाविधोऽहम् ॥ ८१ ॥
यतामि नित्यं तव कर्तुमिष्टं दारैः सुतैर्जीवितेनात्मना च ।एवं च मां वाग्विशिखैर्निहंसि त्वत्तः सुखं न वयं विद्म किंचित् ॥ ८२ ॥
अवामंस्था मां द्रौपदीतल्पसंस्थो महारथान्प्रतिहन्मि त्वदर्थे ।तेनातिशङ्की भारत निष्ठुरोऽसि त्वत्तः सुखं नाभिजानामि किंचित् ॥ ८३ ॥
प्रोक्तः स्वयं सत्यसंधेन मृत्युस्तव प्रियार्थं नरदेव युद्धे ।वीरः शिखण्डी द्रौपदोऽसौ महात्मा मयाभिगुप्तेन हतश्च तेन ॥ ८४ ॥
न चाभिनन्दामि तवाधिराज्यं यतस्त्वमक्षेष्वहिताय सक्तः ।स्वयं कृत्वा पापमनार्यजुष्टमेभिर्युद्धे तर्तुमिच्छस्यरींस्तु ॥ ८५ ॥
अक्षेषु दोषा बहवो विधर्माः श्रुतास्त्वया सहदेवोऽब्रवीद्यान् ।तान्नैषि संतर्तुमसाधुजुष्टान्येन स्म सर्वे निरयं प्रपन्नाः ॥ ८६ ॥
त्वं देविता त्वत्कृते राज्यनाशस्त्वत्संभवं व्यसनं नो नरेन्द्र ।मास्मान्क्रूरैर्वाक्प्रतोदैस्तुद त्वं भूयो राजन्कोपयन्नल्पभाग्यान् ॥ ८७ ॥
एता वाचः परुषाः सव्यसाची स्थिरप्रज्ञं श्रावयित्वा ततक्ष ।तदानुतेपे सुरराजपुत्रो विनिःश्वसंश्चाप्यसिमुद्बबर्ह ॥ ८८ ॥
तमाह कृष्णः किमिदं पुनर्भवान्विकोशमाकाशनिभं करोत्यसिम् ।प्रब्रूहि सत्यं पुनरुत्तरं विधेर्वचः प्रवक्ष्याम्यहमर्थसिद्धये ॥ ८९ ॥
इत्येव पृष्टः पुरुषोत्तमेन सुदुःखितः केशवमाह वाक्यम् ।अहं हनिष्ये स्वशरीरमेव प्रसह्य येनाहितमाचरं वै ॥ ९० ॥
निशम्य तत्पार्थवचोऽब्रवीदिदं धनंजयं धर्मभृतां वरिष्ठः ।प्रब्रूहि पार्थ स्वगुणानिहात्मनस्तथा स्वहार्दं भवतीह सद्यः ॥ ९१ ॥
तथास्तु कृष्णेत्यभिनन्द्य वाक्यं धनंजयः प्राह धनुर्विनाम्य ।युधिष्ठिरं धर्मभृतां वरिष्ठं शृणुष्व राजन्निति शक्रसूनुः ॥ ९२ ॥
न मादृशोऽन्यो नरदेव विद्यते धनुर्धरो देवमृते पिनाकिनम् ।अहं हि तेनानुमतो महात्मना क्षणेन हन्यां सचराचरं जगत् ॥ ९३ ॥
मया हि राजन्सदिगीश्वरा दिशो विजित्य सर्वा भवतः कृता वशे ।स राजसूयश्च समाप्तदक्षिणः सभा च दिव्या भवतो ममौजसा ॥ ९४ ॥
पाणौ पृषत्का लिखिता ममेमे धनुश्च संख्ये विततं सबाणम् ।पादौ च मे सशरौ सहध्वजौ न मादृशं युद्धगतं जयन्ति ॥ ९५ ॥
हता उदीच्या निहताः प्रतीच्याः प्राच्या निरस्ता दाक्षिणात्या विशस्ताः ।संशप्तकानां किंचिदेवावशिष्टं सर्वस्य सैन्यस्य हतं मयार्धम् ॥ ९६ ॥
शेते मया निहता भारती च चमू राजन्देवचमूप्रकाशा ।ये नास्त्रज्ञास्तानहं हन्मि शस्त्रैस्तस्माल्लोकं नेह करोमि भस्मसात् ॥ ९७ ॥
इत्येवमुक्त्वा पुनराह पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम् ।अप्यपुत्रा तेन राधा भवित्री कुन्ती मया वा तदृतं विद्धि राजन् ।प्रसीद राजन्क्षम यन्मयोक्तं काले भवान्वेत्स्यति तन्नमस्ते ॥ ९८ ॥
प्रसाद्य राजानममित्रसाहं स्थितोऽब्रवीच्चैनमभिप्रपन्नः ।याम्येष भीमं समरात्प्रमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम् ॥ ९९ ॥
तव प्रियार्थं मम जीवितं हि ब्रवीमि सत्यं तदवेहि राजन् ।इति प्रायादुपसंगृह्य पादौ समुत्थितो दीप्ततेजाः किरीटी ।नेदं चिरात्क्षिप्रमिदं भविष्यत्यावर्ततेऽसावभियामि चैनम् ॥ १०० ॥
एतच्छ्रुत्वा पाण्डवो धर्मराजो भ्रातुर्वाक्यं परुषं फल्गुनस्य ।उत्थाय तस्माच्छयनादुवाच पार्थं ततो दुःखपरीतचेताः ॥ १०१ ॥
कृतं मया पार्थ यथा न साधु येन प्राप्तं व्यसनं वः सुघोरम् ।तस्माच्छिरश्छिन्द्धि ममेदमद्य कुलान्तकस्याधमपूरुषस्य ॥ १०२ ॥
पापस्य पापव्यसनान्वितस्य विमूढबुद्धेरलसस्य भीरोः ।वृद्धावमन्तुः परुषस्य चैव किं ते चिरं मामनुवृत्य रूक्षम् ॥ १०३ ॥
गच्छाम्यहं वनमेवाद्य पापः सुखं भवान्वर्ततां मद्विहीनः ।योग्यो राजा भीमसेनो महात्मा क्लीबस्य वा मम किं राज्यकृत्यम् ॥ १०४ ॥
न चास्मि शक्तः परुषाणि सोढुं पुनस्तवेमानि रुषान्वितस्य ।भीमोऽस्तु राजा मम जीवितेन किं कार्यमद्यावमतस्य वीर ॥ १०५ ॥
इत्येवमुक्त्वा सहसोत्पपात राजा ततस्तच्छयनं विहाय ।इयेष निर्गन्तुमथो वनाय तं वासुदेवः प्रणतोऽभ्युवाच ॥ १०६ ॥
राजन्विदितमेतत्ते यथा गाण्डीवधन्वनः ।प्रतिज्ञा सत्यसंधस्य गाण्डीवं प्रति विश्रुता ॥ १०७ ॥
ब्रूयाद्य एवं गाण्डीवं देह्यन्यस्मै त्वमित्युत ।स वध्योऽस्य पुमाँल्लोके त्वया चोक्तोऽयमीदृशम् ॥ १०८ ॥
अतः सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता ।मच्छन्दादवमानोऽयं कृतस्तव महीपते ।गुरूणामवमानो हि वध इत्यभिधीयते ॥ १०९ ॥
तस्मात्त्वं वै महाबाहो मम पार्थस्य चोभयोः ।व्यतिक्रममिमं राजन्संक्षमस्वार्जुनं प्रति ॥ ११० ॥
शरणं त्वां महाराज प्रपन्नौ स्व उभावपि ।क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः ॥ १११ ॥
राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् ।सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम् ।यस्येच्छसि वधं तस्य गतमेवाद्य जीवितम् ॥ ११२ ॥
इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः ।ससंभ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा ।कृताञ्जलिमिदं वाक्यमुवाचानन्तरं वचः ॥ ११३ ॥
एवमेतद्यथात्थ त्वमस्त्येषोऽतिक्रमो मम ।अनुनीतोऽस्मि गोविन्द तारितश्चाद्य माधव ।मोक्षिता व्यसनाद्घोराद्वयमद्य त्वयाच्युत ॥ ११४ ॥
भवन्तं नाथमासाद्य आवां व्यसनसागरात् ।घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ ॥ ११५ ॥
त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् ।समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत ॥ ११६ ॥
« »