Click on words to see what they mean.

संजय उवाच ।श्रुत्वा कर्णं कल्यमुदारवीर्यं क्रुद्धः पार्थः फल्गुनस्यामितौजाः ।धनंजयं वाक्यमुवाच चेदं युधिष्ठिरः कर्णशराभितप्तः ॥ १ ॥
इदं यदि द्वैतवने ह्यवक्ष्यः कर्णं योद्धुं न प्रसहे नृपेति ।वयं तदा प्राप्तकालानि सर्वे वृत्तान्युपैष्याम तदैव पार्थ ॥ २ ॥
मयि प्रतिश्रुत्य वधं हि तस्य बलस्य चाप्तस्य तथैव वीर ।आनीय नः शत्रुमध्यं स कस्मात्समुत्क्षिप्य स्थण्डिले प्रत्यपिंष्ठाः ॥ ३ ॥
अन्वाशिष्म वयमर्जुन त्वयि यियासवो बहु कल्याणमिष्टम् ।तन्नः सर्वं विफलं राजपुत्र फलार्थिनां निचुल इवातिपुष्पः ॥ ४ ॥
प्रच्छादितं बडिशमिवामिषेण प्रच्छादितो गवय इवापवाचा ।अनर्थकं मे दर्शितवानसि त्वं राज्यार्थिनो राज्यरूपं विनाशम् ॥ ५ ॥
यत्तत्पृथां वागुवाचान्तरिक्षे सप्ताहजाते त्वयि मन्दबुद्धौ ।जातः पुत्रो वासवविक्रमोऽयं सर्वाञ्शूराञ्शात्रवाञ्जेष्यतीति ॥ ६ ॥
अयं जेता खाण्डवे देवसंघान्सर्वाणि भूतान्यपि चोत्तमौजाः ।अयं जेता मद्रकलिङ्गकेकयानयं कुरून्हन्ति च राजमध्ये ॥ ७ ॥
अस्मात्परो न भविता धनुर्धरो न वै भूतः कश्चन जातु जेता ।इच्छन्नार्यः सर्वभूतानि कुर्याद्वशे वशी सर्वसमाप्तविद्यः ॥ ८ ॥
कान्त्या शशाङ्कस्य जवेन वायोः स्थैर्येण मेरोः क्षमया पृथिव्याः ।सूर्यस्य भासा धनदस्य लक्ष्म्या शौर्येण शक्रस्य बलेन विष्णोः ॥ ९ ॥
तुल्यो महात्मा तव कुन्ति पुत्रो जातोऽदितेर्विष्णुरिवारिहन्ता ।स्वेषां जयाय द्विषतां वधाय ख्यातोऽमितौजाः कुलतन्तुकर्ता ॥ १० ॥
इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि तपस्विनां शृण्वतां वागुवाच ।एवंविधं त्वां तच्च नाभूत्तवाद्य देवा हि नूनमनृतं वदन्ति ॥ ११ ॥
तथापरेषामृषिसत्तमानां श्रुत्वा गिरं पूजयतां सदैव ।न संनतिं प्रैमि सुयोधनस्य न त्वा जानाम्याधिरथेर्भयार्तम् ॥ १२ ॥
त्वष्ट्रा कृतं वाहमकूजनाक्षं शुभं समास्थाय कपिध्वजं त्वम् ।खड्गं गृहीत्वा हेमचित्रं समिद्धं धनुश्चेदं गाण्डिवं तालमात्रम् ।स केशवेनोह्यमानः कथं नु कर्णाद्भीतो व्यपयातोऽसि पार्थ ॥ १३ ॥
धनुश्चैतत्केशवाय प्रदाय यन्ताभविष्यस्त्वं रणे चेद्दुरात्मन् ।ततोऽहनिष्यत्केशवः कर्णमुग्रं मरुत्पतिर्वृत्रमिवात्तवज्रः ॥ १४ ॥
मासेऽपतिष्यः पञ्चमे त्वं प्रकृच्छ्रे न वा गर्भोऽप्यभविष्यः पृथायाः ।तत्ते श्रमो राजपुत्राभविष्यन्न संग्रामादपयातुं दुरात्मन् ॥ १५ ॥
« »