Click on words to see what they mean.

संजय उवाच ।महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ ।हतमाधिरथिं मेने संख्ये गाण्डीवधन्वना ॥ १ ॥
तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना ।स्मितपूर्वममित्रघ्नः पूजयन्भरतर्षभ ॥ २ ॥
युधिष्ठिर उवाच ।स्वागतं देवकीपुत्र स्वागतं ते धनंजय ।प्रियं मे दर्शनं बाढं युवयोरच्युतार्जुनौ ॥ ३ ॥
अक्षताभ्यामरिष्टाभ्यां कथं युध्य महारथम् ।आशीविषसमं युद्धे सर्वशस्त्रविशारदम् ॥ ४ ॥
अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च ।रक्षितं वृषसेनेन सुषेणेन च धन्विना ॥ ५ ॥
अनुज्ञातं महावीर्यं रामेणास्त्रेषु दुर्जयम् ।त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे ॥ ६ ॥
हन्तारमरिसैन्यानाममित्रगणमर्दनम् ।दुर्योधनहिते युक्तमस्मद्युद्धाय चोद्यतम् ॥ ७ ॥
अप्रधृष्यं महायुद्धे देवैरपि सवासवैः ।अनलानिलयोस्तुल्यं तेजसा च बलेन च ॥ ८ ॥
पातालमिव गम्भीरं सुहृदानन्दवर्धनम् ।अन्तकाभममित्राणां कर्णं हत्वा महाहवे ।दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ ॥ ९ ॥
तेन युद्धमदीनेन मया ह्यद्याच्युतार्जुनौ ।कुपितेनान्तकेनेव प्रजाः सर्वा जिघांसता ॥ १० ॥
तेन केतुश्च मे छिन्नो हतौ च पार्ष्णिसारथी ।हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः ॥ ११ ॥
धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः ।पश्यतां द्रौपदेयानां पाञ्चालानां च सर्वशः ॥ १२ ॥
एताञ्जित्वा महावीर्यान्कर्णः शत्रुगणान्बहून् ।जितवान्मां महाबाहो यतमानं महारणे ॥ १३ ॥
अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु ।तत्र तत्र युधां श्रेष्ठः परिभूय न संशयः ॥ १४ ॥
भीमसेनप्रभावात्तु यज्जीवामि धनंजय ।बहुनात्र किमुक्तेन नाहं तत्सोढुमुत्सहे ॥ १५ ॥
त्रयोदशाहं वर्षाणि यस्माद्भीतो धनंजय ।न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् ॥ १६ ॥
तस्य द्वेषेण संयुक्तः परिदह्ये धनंजय ।आत्मनो मरणं जानन्वाध्रीणस इव द्विपः ॥ १७ ॥
यस्यायमगमत्कालश्चिन्तयानस्य मे विभो ।कथं शक्यो मया कर्णो युद्धे क्षपयितुं भवेत् ॥ १८ ॥
जाग्रत्स्वपंश्च कौन्तेय कर्णमेव सदा ह्यहम् ।पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत् ॥ १९ ॥
यत्र यत्र हि गच्छामि कर्णाद्भीतो धनंजय ।तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् ॥ २० ॥
सोऽहं तेनैव वीरेण समरेष्वपलायिना ।सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः ॥ २१ ॥
को नु मे जीवितेनार्थो राज्येनार्थोऽथ वा पुनः ।ममैवं धिक्कृतस्येह कर्णेनाहवशोभिना ॥ २२ ॥
न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे ।तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् ॥ २३ ॥
तत्त्वा पृच्छामि कौन्तेय यथा ह्यकुशलस्तथा ।तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णस्त्वया हतः ॥ २४ ॥
शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमः ।रामतुल्यस्तथास्त्रे यः स कथं वै निषूदितः ॥ २५ ॥
महारथः समाख्यातः सर्वयुद्धविशारदः ।धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः ॥ २६ ॥
पूजितो धृतराष्ट्रेण सपुत्रेण विशां पते ।सदा त्वदर्थं राधेयः स कथं निहतस्त्वया ॥ २७ ॥
धृतराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन ।तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः ॥ २८ ॥
स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः ।तं ममाचक्ष्व बीभत्सो यथा कर्णो हतस्त्वया ॥ २९ ॥
सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम् ।त्वया पुरुषशार्दूल शार्दूलेन यथा रुरोः ॥ ३० ॥
यः पर्युपासीत्प्रदिशो दिशश्च त्वां सूतपुत्रः समरे परीप्सन् ।दित्सुः कर्णः समरे हस्तिपूगं स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः ॥ ३१ ॥
त्वया रणे निहतः सूतपुत्रः कच्चिच्छेते भूमितले दुरात्मा ।कच्चित्प्रियं मे परमं त्वयाद्य कृतं रणे सूतपुत्रं निहत्य ॥ ३२ ॥
यः सर्वतः पर्यपतत्त्वदर्थे मदान्वितो गर्वितः सूतपुत्रः ।स शूरमानी समरे समेत्य कच्चित्त्वया निहतः संयुगेऽद्य ॥ ३३ ॥
रौक्मं रथं हस्तिवरैश्च युक्तं रथं दित्सुर्यः परेभ्यस्त्वदर्थे ।सदा रणे स्पर्धते यः स पापः कच्चित्त्वया निहतस्तात युद्धे ॥ ३४ ॥
योऽसौ नित्यं शूरमदेन मत्तो विकत्थते संसदि कौरवाणाम् ।प्रियोऽत्यर्थं तस्य सुयोधनस्य कच्चित्स पापो निहतस्त्वयाद्य ॥ ३५ ॥
कच्चित्समागम्य धनुःप्रमुक्तैस्त्वत्प्रेषितैर्लोहितार्थैर्विहंगैः ।शेतेऽद्य पापः स विभिन्नगात्रः कच्चिद्भग्नो धार्तराष्ट्रस्य बाहुः ॥ ३६ ॥
योऽसौ सदा श्लाघते राजमध्ये दुर्योधनं हर्षयन्दर्पपूर्णः ।अहं हन्ता फल्गुनस्येति मोहात्कच्चिद्धतस्तस्य न वै तथा रथः ॥ ३७ ॥
नाहं पादौ धावयिष्ये कदाचिद्यावत्स्थितः पार्थ इत्यल्पबुद्धिः ।व्रतं तस्यैतत्सर्वदा शक्रसूनो कच्चित्त्वया निहतः सोऽद्य कर्णः ॥ ३८ ॥
योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः कर्णः सभायां कुरुवीरमध्ये ।किं पाण्डवांस्त्वं न जहासि कृष्णे सुदुर्बलान्पतितान्हीनसत्त्वान् ॥ ३९ ॥
यत्तत्कर्णः प्रत्यजानात्त्वदर्थे नाहत्वाहं सह कृष्णेन पार्थम् ।इहोपयातेति स पापबुद्धिः कच्चिच्छेते शरसंभिन्नगात्रः ॥ ४० ॥
कच्चित्संग्रामे विदितो वा तदायं समागमः सृञ्जयकौरवाणाम् ।यत्रावस्थामीदृशीं प्रापितोऽहं कच्चित्त्वया सोऽद्य हतः समेत्य ॥ ४१ ॥
कच्चित्त्वया तस्य सुमन्दबुद्धेर्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः ।सकुण्डलं भानुमदुत्तमाङ्गं कायात्प्रकृत्तं युधि सव्यसाचिन् ॥ ४२ ॥
यत्तन्मया बाणसमर्पितेन ध्यातोऽसि कर्णस्य वधाय वीर ।तन्मे त्वया कच्चिदमोघमद्य ध्यातं कृतं कर्णनिपातनेन ॥ ४३ ॥
यद्दर्पपूर्णः स सुयोधनोऽस्मानवेक्षते कर्णसमाश्रयेण ।कच्चित्त्वया सोऽद्य समाश्रयोऽस्य भग्नः पराक्रम्य सुयोधनस्य ॥ ४४ ॥
यो नः पुरा षण्ढतिलानवोचत्सभामध्ये पार्थिवानां समक्षम् ।स दुर्मतिः कच्चिदुपेत्य संख्ये त्वया हतः सूतपुत्रोऽत्यमर्षी ॥ ४५ ॥
यः सूतपुत्रः प्रहसन्दुरात्मा पुराब्रवीन्निर्जितां सौबलेन ।स्वयं प्रसह्यानय याज्ञसेनीमपीह कच्चित्स हतस्त्वयाद्य ॥ ४६ ॥
यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां पितामहं व्याक्षिपदल्पचेताः ।संख्यायमानोऽर्धरथः स कच्चित्त्वया हतोऽद्याधिरथिर्दुरात्मा ॥ ४७ ॥
अमर्षणं निकृतिसमीरणेरितं हृदि श्रितं ज्वलनमिमं सदा मम ।हतो मया सोऽद्य समेत्य पापधीरिति ब्रुवन्प्रशमय मेऽद्य फल्गुन ॥ ४८ ॥
« »