Click on words to see what they mean.

संजय उवाच ।द्रौणिस्तु रथवंशेन महता परिवारितः ।आपतत्सहसा राजन्यत्र राजा व्यवस्थितः ॥ १ ॥
तमापतन्तं सहसा शूरः शौरिसहायवान् ।दधार सहसा पार्थो वेलेव मकरालयम् ॥ २ ॥
ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् ।अर्जुनं वासुदेवं च छादयामास पत्रिभिः ॥ ३ ॥
अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः ।विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ॥ ४ ॥
अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव ।तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत ॥ ५ ॥
यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रं जिघांसया ।तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् ॥ ६ ॥
अस्त्रयुद्धे ततो राजन्वर्तमाने भयावहे ।अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ॥ ७ ॥
स दिशो विदिशश्चैव छादयित्वा विजिह्मगैः ।वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ॥ ८ ॥
ततोऽर्जुनो हयान्हत्वा सर्वांस्तस्य महात्मनः ।चकार समरे भूमिं शोणितौघतरङ्गिणीम् ॥ ९ ॥
निहता रथिनः पेतुः पार्थचापच्युतैः शरैः ।हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः ॥ १० ॥
तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः ।अवाकिरद्रणे कृष्णं समन्तान्निशितैः शरैः ॥ ११ ॥
ततोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा ।वक्षोदेशे समासाद्य ताडयामास संयुगे ॥ १२ ॥
सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत ।आदत्त परिघं घोरं द्रौणेश्चैनमवाक्षिपत् ॥ १३ ॥
तमापतन्तं परिघं कार्तस्वरविभूषितम् ।द्रौणिश्चिच्छेद सहसा तत उच्चुक्रुशुर्जनाः ॥ १४ ॥
सोऽनेकधापतद्भूमौ भारद्वाजस्य सायकैः ।विशीर्णः पर्वतो राजन्यथा स्यान्मातरिश्वना ॥ १५ ॥
ततोऽर्जुनो रणे द्रौणिं विव्याध दशभिः शरैः ।सारथिं चास्य भल्लेन रथनीडादपाहरत् ॥ १६ ॥
स संगृह्य स्वयं वाहान्कृष्णौ प्राच्छादयच्छरैः ।तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् ॥ १७ ॥
अयच्छत्तुरगान्यच्च फल्गुनं चाप्ययोधयत् ।तदस्य समरे राजन्सर्वे योधा अपूजयन् ॥ १८ ॥
यदा त्वग्रस्यत रणे द्रोणपुत्रेण फल्गुनः ।ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ॥ १९ ॥
प्राद्रवंस्तुरगास्ते तु शरवेगप्रबाधिताः ।ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत ॥ २० ॥
पाण्डवास्तु जयं लब्ध्वा तव सैन्यमुपाद्रवन् ।समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः ॥ २१ ॥
पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः ।पुनः पुनरथो वीरैरभज्यत जयोद्धतैः ॥ २२ ॥
पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् ।शकुनेः सौबलेयस्य कर्णस्य च महात्मनः ॥ २३ ॥
वार्यमाणा महासेना पुत्रैस्तव जनेश्वर ।नावतिष्ठत संग्रामे ताड्यमाना समन्ततः ॥ २४ ॥
ततो योधैर्महाराज पलायद्भिस्ततस्ततः ।अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम् ॥ २५ ॥
तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः ।नावतिष्ठत सा सेना वध्यमाना महात्मभिः ॥ २६ ॥
अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः ।धार्तराष्ट्रबलं दृष्ट्वा द्रवमाणं समन्ततः ॥ २७ ॥
ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव ।पश्य कर्ण यथा सेना पाण्डवैरर्दिता भृशम् ॥ २८ ॥
त्वयि तिष्ठति संत्रासात्पलायति समन्ततः ।एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिंदम ॥ २९ ॥
सहस्राणि च योधानां त्वामेव पुरुषर्षभ ।क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः ॥ ३० ॥
एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत् ।मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः ॥ ३१ ॥
पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर ।अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह ।वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर ॥ ३२ ॥
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् ।प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् ।सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः ॥ ३३ ॥
संनिवार्य च योधान्स्वान्सत्येन शपथेन च ।प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः ॥ ३४ ॥
ततो राजन्सहस्राणि प्रयुतान्यर्बुदानि च ।कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ॥ ३५ ॥
ज्वलितैस्तैर्महाघोरैः कङ्कबर्हिणवाजितैः ।संछन्ना पाण्डवी सेना न प्राज्ञायत किंचन ॥ ३६ ॥
हाहाकारो महानासीत्पाञ्चालानां विशां पते ।पीडितानां बलवता भार्गवास्त्रेण संयुगे ॥ ३७ ॥
निपतद्भिर्गजै राजन्नरैश्चापि सहस्रशः ।रथैश्चापि नरव्याघ्र हयैश्चापि समन्ततः ॥ ३८ ॥
प्राकम्पत मही राजन्निहतैस्तैस्ततस्ततः ।व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ॥ ३९ ॥
कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः ।दहञ्शत्रून्नरव्याघ्र शुशुभे स परंतपः ॥ ४० ॥
ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह ।तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ।चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः ॥ ४१ ॥
तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि ।धावतां च दिशो राजन्वित्रस्तानां समन्ततः ।आर्तनादो महांस्तत्र प्रेतानामिव संप्लवे ॥ ४२ ॥
वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष ।वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ॥ ४३ ॥
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः ।अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः ।प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ॥ ४४ ॥
अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनंजयः ।भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् ॥ ४५ ॥
पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् ।नैतदस्त्रं हि समरे शक्यं हन्तुं कथंचन ॥ ४६ ॥
सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे ।अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम् ॥ ४७ ॥
सुतीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः ।न च पश्यामि समरे कर्णस्य प्रपलायितम् ॥ ४८ ॥
जीवन्प्राप्नोति पुरुषः संख्ये जयपराजयौ ।जितस्य तु हृषीकेश वध एव कुतो जयः ॥ ४९ ॥
ततो जनार्दनः प्रायाद्द्रष्टुमिच्छन्युधिष्ठिरम् ।श्रमेण ग्राहयिष्यंश्च कर्णं युद्धेन मारिष ॥ ५० ॥
अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः ।तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि ॥ ५१ ॥
ततो धनंजयो द्रष्टुं राजानं बाणपीडितम् ।रथेन प्रययौ क्षिप्रं संग्रामे केशवाज्ञया ॥ ५२ ॥
गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया ।सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् ॥ ५३ ॥
युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत ।दुःसहं वज्रिणा संख्ये पराजिग्ये भृगोः सुतम् ॥ ५४ ॥
द्रौणिं पराजित्य ततोग्रधन्वा कृत्वा महद्दुष्करमार्यकर्म ।आलोकयामास ततः स्वसैन्यं धनंजयः शत्रुभिरप्रधृष्यः ॥ ५५ ॥
स युध्यमानः पृतनामुखस्थाञ्शूराञ्शूरो हर्षयन्सव्यसाची ।पूर्वापदानैः प्रथितैः प्रशंसन्स्थिरांश्चकारात्मरथाननीके ॥ ५६ ॥
अपश्यमानस्तु किरीटमाली युधि ज्येष्ठं भ्रातरमाजमीढम् ।उवाच भीमं तरसाभ्युपेत्य राज्ञः प्रवृत्तिस्त्विह केति राजन् ॥ ५७ ॥
भीम उवाच ।अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः ।कर्णबाणविभुग्नाङ्गो यदि जीवेत्कथंचन ॥ ५८ ॥
अर्जुन उवाच ।तस्माद्भवाञ्शीघ्रमितः प्रयातु राज्ञः प्रवृत्त्यै कुरुसत्तमस्य ।नूनं हि विद्धोऽतिभृशं पृषत्कैः कर्णेन राजा शिबिरं गतोऽसौ ॥ ५९ ॥
यः संप्रहारे निशि संप्रवृत्ते द्रोणेन विद्धोऽतिभृशं तरस्वी ।तस्थौ च तत्रापि जयप्रतीक्षो द्रोणेन यावन्न हतः किलासीत् ॥ ६० ॥
स संशयं गमितः पाण्डवाग्र्यः संख्येऽद्य कर्णेन महानुभावः ।ज्ञातुं प्रयाह्याशु तमद्य भीम स्थास्याम्यहं शत्रुगणान्निरुध्य ॥ ६१ ॥
भीम उवाच ।त्वमेव जानीहि महानुभाव राज्ञः प्रवृत्तिं भरतर्षभस्य ।अहं हि यद्यर्जुन यामि तत्र वक्ष्यन्ति मां भीत इति प्रवीराः ॥ ६२ ॥
ततोऽब्रवीदर्जुनो भीमसेनं संशप्तकाः प्रत्यनीकं स्थिता मे ।एतानहत्वा न मया तु शक्यमितोऽपयातुं रिपुसंघगोष्ठात् ॥ ६३ ॥
अथाब्रवीदर्जुनं भीमसेनः स्ववीर्यमाश्रित्य कुरुप्रवीर ।संशप्तकान्प्रतियोत्स्यामि संख्ये सर्वानहं याहि धनंजयेति ॥ ६४ ॥
तद्भीमसेनस्य वचो निशम्य सुदुर्वचं भ्रातुरमित्रमध्ये ।द्रष्टुं कुरुश्रेष्ठमभिप्रयातुं प्रोवाच वृष्णिप्रवरं तदानीम् ॥ ६५ ॥
चोदयाश्वान्हृषीकेश विगाह्यैतं रथार्णवम् ।अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव ॥ ६६ ॥
ततो हयान्सर्वदाशार्हमुख्यः प्राचोदयद्भीममुवाच चेदम् ।नैतच्चित्रं तव कर्माद्य वीर यास्यामहे जहि भीमारिसंघान् ॥ ६७ ॥
ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः ।शीघ्राच्छीघ्रतरं राजन्वाजिभिर्गरुडोपमैः ॥ ६८ ॥
प्रत्यनीके व्यवस्थाप्य भीमसेनमरिंदमम् ।संदिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम् ॥ ६९ ॥
ततस्तु गत्वा पुरुषप्रवीरौ राजानमासाद्य शयानमेकम् ।रथादुभौ प्रत्यवरुह्य तस्माद्ववन्दतुर्धर्मराजस्य पादौ ॥ ७० ॥
तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ पुरुषर्षभ ।मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम् ॥ ७१ ॥
तावभ्यनन्दद्राजा हि विवस्वानश्विनाविव ।हते महासुरे जम्भे शक्रविष्णू यथा गुरुः ॥ ७२ ॥
मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः ।हर्षगद्गदया वाचा प्रीतः प्राह परंतपौ ॥ ७३ ॥
« »