Click on words to see what they mean.

धृतराष्ट्र उवाच ।तथा व्यूढेष्वनीकेषु संसक्तेषु च संजय ।संशप्तकान्कथं पार्थो गतः कर्णश्च पाण्डवान् ॥ १ ॥
एतद्विस्तरतो युद्धं प्रब्रूहि कुशलो ह्यसि ।न हि तृप्यामि वीराणां शृण्वानो विक्रमान्रणे ॥ २ ॥
संजय उवाच ।तत्स्थाने समवस्थाप्य प्रत्यमित्रं महाबलम् ।अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये ॥ ३ ॥
तत्सादिनागकलिलं पदातिरथसंकुलम् ।धृष्टद्युम्नमुखैर्व्यूढमशोभत महद्बलम् ॥ ४ ॥
पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः ।पार्षतः प्रबभौ धन्वी कालो विग्रहवानिव ॥ ५ ॥
पार्षतं त्वभि संतस्थुर्द्रौपदेया युयुत्सवः ।सानुगा भीमवपुषश्चन्द्रं तारागणा इव ॥ ६ ॥
अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे ।क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः ॥ ७ ॥
अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः ।विजये कृतसंकल्पा मृत्युं कृत्वा निवर्तनम् ॥ ८ ॥
तदश्वसंघबहुलं मत्तनागरथाकुलम् ।पत्तिमच्छूरवीरौघैर्द्रुतमर्जुनमाद्रवत् ॥ ९ ॥
स संप्रहारस्तुमुलस्तेषामासीत्किरीटिना ।तस्यैव नः श्रुतो यादृङ्निवातकवचैः सह ॥ १० ॥
रथानश्वान्ध्वजान्नागान्पत्तीन्रथपतीनपि ।इषून्धनूंषि खड्गांश्च चक्राणि च परश्वधान् ॥ ११ ॥
सायुधानुद्यतान्बाहूनुद्यतान्यायुधानि च ।चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः ॥ १२ ॥
तस्मिन्सैन्ये महावर्ते पातालावर्तसंनिभे ।निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा ॥ १३ ॥
स पुरस्तादरीन्हत्वा पश्चार्धेनोत्तरेण च ।दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशूनिव ॥ १४ ॥
अथ पाञ्चालचेदीनां सृञ्जयानां च मारिष ।त्वदीयैः सह संग्राम आसीत्परमदारुणः ॥ १५ ॥
कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः ।हृष्टसेनाः सुसंरब्धा रथानीकैः प्रहारिणः ॥ १६ ॥
कोसलैः काशिमत्स्यैश्च कारूषैः केकयैरपि ।शूरसेनैः शूरवीरैर्युयुधुर्युद्धदुर्मदाः ॥ १७ ॥
तेषामन्तकरं युद्धं देहपाप्मप्रणाशनम् ।शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् ॥ १८ ॥
दुर्योधनोऽपि सहितो भ्रातृभिर्भरतर्षभ ।गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः ॥ १९ ॥
पाण्डवैः सहपाञ्चालैश्चेदिभिः सात्यकेन च ।युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत् ॥ २० ॥
कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम् ।प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत् ॥ २१ ॥
विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः ।युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत् ॥ २२ ॥
धृतराष्ट्र उवाच ।यत्तत्प्रविश्य पार्थानां सेनां कुर्वञ्जनक्षयम् ।कर्णो राजानमभ्यर्च्छत्तन्ममाचक्ष्व संजय ॥ २३ ॥
के च प्रवीराः पार्थानां युधि कर्णमवारयन् ।कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत् ॥ २४ ॥
संजय उवाच ।धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान् ।समभ्यधावत्त्वरितः पाञ्चालाञ्शत्रुकर्शनः ॥ २५ ॥
तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः ।प्रत्युद्ययुर्महाराज हंसा इव महार्णवम् ॥ २६ ॥
ततः शङ्खसहस्राणां निस्वनो हृदयंगमः ।प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः ॥ २७ ॥
नानावादित्रनादश्च द्विपाश्वरथनिस्वनः ।सिंहनादश्च वीराणामभवद्दारुणस्तदा ॥ २८ ॥
साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम् ।सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं व्यघूर्णत ॥ २९ ॥
अति भूतानि तं शब्दं मेनिरेऽति च विव्यथुः ।यानि चाप्लवसत्त्वानि प्रायस्तानि मृतानि च ॥ ३० ॥
अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन् ।जघान पाण्डवीं सेनामासुरीं मघवानिव ॥ ३१ ॥
स पाण्डवरथांस्तूर्णं प्रविश्य विसृजञ्शरान् ।प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम् ॥ ३२ ॥
ततः सुपुङ्खैर्निशितै रथश्रेष्ठो रथेषुभिः ।अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम् ॥ ३३ ॥
सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः ।चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः ॥ ३४ ॥
तं तथा समरे कर्म कुर्वाणमतिमानुषम् ।परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः ॥ ३५ ॥
ततः संधाय विशिखान्पञ्च भारत दुःसहान् ।पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः ॥ ३६ ॥
भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत ।तपनं शूरसेनं च पाञ्चालानवधीद्रणे ॥ ३७ ॥
पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः ।हाहाकारो महानासीत्पाञ्चालानां महाहवे ॥ ३८ ॥
तेषां संकीर्यमाणानां हाहाकारकृता दिशः ।पुनरेव च तान्कर्णो जघानाशु पतत्रिभिः ॥ ३९ ॥
चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ ।सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम् ॥ ४० ॥
पृष्ठगोपस्तु कर्णस्य ज्येष्ठः पुत्रो महारथः ।वृषसेनः स्वयं कर्णं पृष्ठतः पर्यपालयत् ॥ ४१ ॥
धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः ।जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः ॥ ४२ ॥
चेदिकेकयपाञ्चाला यमौ मत्स्याश्च दंशिताः ।समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणः ॥ ४३ ॥
त एनं विविधैः शस्त्रैः शरधाराभिरेव च ।अभ्यवर्षन्विमृद्नन्तः प्रावृषीवाम्बुदा गिरिम् ॥ ४४ ॥
पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः ।त्वदीयाश्चापरे राजन्वीरा वीरानवारयन् ॥ ४५ ॥
सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम् ।नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह ॥ ४६ ॥
अथान्यद्धनुरादाय सुदृढं भीमविक्रमः ।सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः ॥ ४७ ॥
विव्याध चैनं नवभिः क्रुद्धो नृत्यन्निवेषुभिः ।कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः ॥ ४८ ॥
सत्यसेनं च दशभिः साश्वसूतध्वजायुधम् ।पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत् ॥ ४९ ॥
क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम् ।शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम् ॥ ५० ॥
हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत् ।कृपहार्दिक्ययोश्छित्त्वा चापे तावप्यथार्दयत् ॥ ५१ ॥
दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः ।उलूकं च पतत्रिं च चकार विरथावुभौ ॥ ५२ ॥
हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम् ।तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत् ॥ ५३ ॥
अथान्यमपि जग्राह सुपर्वाणं सुतेजनम् ।सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः ॥ ५४ ॥
पुनः कर्णस्त्रिसप्तत्या भीमसेनं रथेषुभिः ।पुत्रं परीप्सन्विव्याध क्रूरं क्रूरैर्जिघांसया ॥ ५५ ॥
सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम् ।नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्दयत् ॥ ५६ ॥
नकुलस्तं तु विंशत्या विद्ध्वा भारसहैर्दृढैः ।ननाद बलवन्नादं कर्णस्य भयमादधत् ॥ ५७ ॥
तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः ।चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः ॥ ५८ ॥
अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः ।सुषेणं बहुभिर्बाणैर्वारयामास संयुगे ॥ ५९ ॥
स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा ।आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः ।चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा ॥ ६० ॥
अथान्यद्धनुरादाय सुषेणः क्रोधमूर्छितः ।अविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः ॥ ६१ ॥
तद्युद्धं सुमहद्घोरमासीद्देवासुरोपमम् ।निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति ॥ ६२ ॥
सात्यकिर्वृषसेनस्य हत्वा सूतं त्रिभिः शरैः ।धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः ।ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडयत् ॥ ६३ ॥
अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः ।अथो जिघांसुः शैनेयं खड्गचर्मभृदभ्ययात् ॥ ६४ ॥
तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः ।वराहकर्णैर्दशभिरविध्यदसिचर्मणी ॥ ६५ ॥
दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम् ।आरोप्य स्वरथे तूर्णमपोवाह रथान्तरम् ॥ ६६ ॥
अथान्यं रथमास्थाय वृषसेनो महारथः ।कर्णस्य युधि दुर्धर्षः पुनः पृष्ठमपालयत् ॥ ६७ ॥
दुःशासनं तु शैनेयो नवैर्नवभिराशुगैः ।विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत् ॥ ६८ ॥
स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः ।युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन्बलम् ॥ ६९ ॥
धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः ।द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः ॥ ७० ॥
भीमसेनश्चतुःषष्ट्या सहदेवश्च पञ्चभिः ।नकुलस्त्रिंशता बाणैः शतानीकश्च सप्तभिः ।शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु ॥ ७१ ॥
एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः ।अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे ॥ ७२ ॥
तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शितैः ।रथे चारु चरन्वीरः प्रत्यविध्यदरिंदमः ॥ ७३ ॥
तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः ।अपश्याम महाराज तदद्भुतमिवाभवत् ॥ ७४ ॥
न ह्याददानं ददृशुः संदधानं च सायकान् ।विमुञ्चन्तं च संरम्भाद्ददृशुस्ते महारथम् ॥ ७५ ॥
द्यौर्वियद्भूर्दिशश्चाशु प्रणुन्ना निशितैः शरैः ।अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत् ॥ ७६ ॥
नृत्यन्निव हि राधेयश्चापहस्तः प्रतापवान् ।यैर्विद्धः प्रत्यविध्यत्तानेकैकं त्रिगुणैः शरैः ॥ ७७ ॥
दशभिर्दशभिश्चैनान्पुनर्विद्ध्वा ननाद ह ।साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः ॥ ७८ ॥
तान्प्रमृद्नन्महेष्वासान्राधेयः शरवृष्टिभिः ।राजानीकमसंबाधं प्राविशच्छत्रुकर्शनः ॥ ७९ ॥
स रथांस्त्रिशतान्हत्वा चेदीनामनिवर्तिनाम् ।राधेयो निशितैर्बाणैस्ततोऽभ्यार्च्छद्युधिष्ठिरम् ॥ ८० ॥
ततस्ते पाण्डवा राजञ्शिखण्डी च ससात्यकिः ।राधेयात्परिरक्षन्तो राजानं पर्यवारयन् ॥ ८१ ॥
तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे ।यत्ताः सेनामहेष्वासाः पर्यरक्षन्त सर्वशः ॥ ८२ ॥
नानावादित्रघोषाश्च प्रादुरासन्विशां पते ।सिंहनादश्च संजज्ञे शूराणामनिवर्तिनाम् ॥ ८३ ॥
ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः ।युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् ॥ ८४ ॥
« »