Click on words to see what they mean.

संजय उवाच ।मारिषाधिरथेः श्रुत्वा वचो युद्धाभिनन्दिनः ।शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन् ॥ १ ॥
यथैव मत्तो मद्येन त्वं तथा न च वा तथा ।तथाहं त्वां प्रमाद्यन्तं चिकित्सामि सुहृत्तया ॥ २ ॥
इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे ।श्रुत्वा यथेष्टं कुर्यास्त्वं विहीन कुलपांसन ॥ ३ ॥
नाहमात्मनि किंचिद्वै किल्बिषं कर्ण संस्मरे ।येन त्वं मां महाबाहो हन्तुमिच्छस्यनागसम् ॥ ४ ॥
अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम् ।विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा ॥ ५ ॥
समं च विषमं चैव रथिनश्च बलाबलम् ।श्रमः खेदश्च सततं हयानां रथिना सह ॥ ६ ॥
आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् ।भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिया ॥ ७ ॥
अस्त्रयोगश्च युद्धं च निमित्तानि तथैव च ।सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना ।अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः ॥ ८ ॥
वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् ।यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः ॥ ९ ॥
बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः ।राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः ॥ १० ॥
पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् ।काको बहूनामभवदुच्छिष्टकृतभोजनः ॥ ११ ॥
तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः ।मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी ॥ १२ ॥
स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः ।सदृशान्पक्षिणो दृप्तः श्रेयसश्चावमन्यते ॥ १३ ॥
अथ हंसाः समुद्रान्ते कदाचिदभिपातिनः ।गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः ॥ १४ ॥
कुमारकास्ततो हंसान्दृष्ट्वा काकमथाब्रुवन् ।भवानेव विशिष्टो हि पतत्रिभ्यो विहंगम ॥ १५ ॥
प्रतार्यमाणस्तु स तैरल्पबुद्धिभिरण्डजः ।तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च मन्यते ॥ १६ ॥
तान्सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति ।उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम् ॥ १७ ॥
तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् ।तमाह्वयत दुर्बुद्धिः पताम इति पक्षिणम् ॥ १८ ॥
तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः ।भाषतो बहु काकस्य बलिनः पततां वराः ।इदमूचुश्च चक्राङ्गा वचः काकं विहंगमाः ॥ १९ ॥
वयं हंसाश्चरामेमां पृथिवीं मानसौकसः ।पक्षिणां च वयं नित्यं दूरपातेन पूजिताः ॥ २० ॥
कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम् ।काको भूत्वा निपतने समाह्वयसि दुर्मते ।कथं त्वं पतनं काक सहास्माभिर्ब्रवीषि तत् ॥ २१ ॥
अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः ।प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् ॥ २२ ॥
शतमेकं च पातानां पतितास्मि न संशयः ।शतयोजनमेकैकं विचित्रं विविधं तथा ॥ २३ ॥
उड्डीनमवडीनं च प्रडीनं डीनमेव च ।निडीनमथ संडीनं तिर्यक्चातिगतानि च ॥ २४ ॥
विडीनं परिडीनं च पराडीनं सुडीनकम् ।अतिडीनं महाडीनं निडीनं परिडीनकम् ॥ २५ ॥
गतागतप्रतिगता बह्वीश्च निकुडीनिकाः ।कर्तास्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम् ॥ २६ ॥
एवमुक्ते तु काकेन प्रहस्यैको विहंगमः ।उवाच हंसस्तं काकं वचनं तन्निबोध मे ॥ २७ ॥
शतमेकं च पातानां त्वं काक पतिता ध्रुवम् ।एकमेव तु ये पातं विदुः सर्वे विहंगमाः ॥ २८ ॥
तमहं पतिता काक नान्यं जानामि कंचन ।पत त्वमपि रक्ताक्ष येन वा तेन मन्यसे ॥ २९ ॥
अथ काकाः प्रजहसुर्ये तत्रासन्समागताः ।कथमेकेन पातेन हंसः पातशतं जयेत् ॥ ३० ॥
एकेनैव शतस्यैकं पातेनाभिभविष्यति ।हंसस्य पतितं काको बलवानाशुविक्रमः ॥ ३१ ॥
प्रपेततुः स्पर्धयाथ ततस्तौ हंसवायसौ ।एकपाती च चक्राङ्गः काकः पातशतेन च ॥ ३२ ॥
पेतिवानथ चक्राङ्गः पेतिवानथ वायसः ।विसिस्मापयिषुः पातैराचक्षाणोऽऽत्मनः क्रियाम् ॥ ३३ ॥
अथ काकस्य चित्राणि पतितानीतराणि च ।दृष्ट्वा प्रमुदिताः काका विनेदुरथ तैः स्वरैः ॥ ३४ ॥
हंसांश्चावहसन्ति स्म प्रावदन्नप्रियाणि च ।उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च ॥ ३५ ॥
वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च ।कुर्वाणा विविधान्रावानाशंसन्तस्तदा जयम् ॥ ३६ ॥
हंसस्तु मृदुकेनैव विक्रान्तुमुपचक्रमे ।प्रत्यहीयत काकाच्च मुहूर्तमिव मारिष ॥ ३७ ॥
अवमन्य रयं हंसानिदं वचनमब्रवीत् ।योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते ॥ ३८ ॥
अथ हंसः स तच्छ्रुत्वा प्रापतत्पश्चिमां दिशम् ।उपर्युपरि वेगेन सागरं वरुणालयम् ॥ ३९ ॥
ततो भीः प्राविशत्काकं तदा तत्र विचेतसम् ।द्वीपद्रुमानपश्यन्तं निपतन्तं श्रमान्वितम् ।निपतेयं क्व नु श्रान्त इति तस्मिञ्जलार्णवे ॥ ४० ॥
अविषह्यः समुद्रो हि बहुसत्त्वगणालयः ।महाभूतशतोद्भासी नभसोऽपि विशिष्यते ॥ ४१ ॥
गाम्भीर्याद्धि समुद्रस्य न विशेषः कुलाधम ।दिगम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः ।विदूरपातात्तोयस्य किं पुनः कर्ण वायसः ॥ ४२ ॥
अथ हंसोऽभ्यतिक्रम्य मुहूर्तमिति चेति च ।अवेक्षमाणस्तं काकं नाशक्नोद्व्यपसर्पितुम् ।अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत ॥ ४३ ॥
तं तथा हीयमानं च हंसो दृष्ट्वाब्रवीदिदम् ।उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम् ॥ ४४ ॥
बहूनि पतनानि त्वमाचक्षाणो मुहुर्मुहुः ।पतस्यव्याहरंश्चेदं न नो गुह्यं प्रभाषसे ॥ ४५ ॥
किं नाम पतनं काक यत्त्वं पतसि सांप्रतम् ।जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः ॥ ४६ ॥
स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन जलमर्णवे ।काको दृढं परिश्रान्तः सहसा निपपात ह ॥ ४७ ॥
हंस उवाच ।शतमेकं च पातानां यत्प्रभाषसि वायस ।नानाविधानीह पुरा तच्चानृतमिहाद्य ते ॥ ४८ ॥
काक उवाच ।उच्छिष्टदर्पितो हंस मन्येऽऽत्मानं सुपर्णवत् ।अवमन्य बहूंश्चाहं काकानन्यांश्च पक्षिणः ।प्राणैर्हंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम् ॥ ४९ ॥
यद्यहं स्वस्तिमान्हंस स्वदेशं प्राप्नुयां पुनः ।न कंचिदवमन्येयमापदो मां समुद्धर ॥ ५० ॥
तमेवंवादिनं दीनं विलपन्तमचेतनम् ।काक काकेति वाशन्तं निमज्जन्तं महार्णवे ॥ ५१ ॥
तथैत्य वायसं हंसो जलक्लिन्नं सुदुर्दशम् ।पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारोपयच्छनैः ॥ ५२ ॥
आरोप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम् ।आजगाम पुनर्द्वीपं स्पर्धया पेततुर्यतः ॥ ५३ ॥
संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम् ।गतो यथेप्सितं देशं हंसो मन इवाशुगः ॥ ५४ ॥
उच्छिष्टभोजनात्काको यथा वैश्यकुले तु सः ।एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः ।सदृशाञ्श्रेयसश्चापि सर्वान्कर्णातिमन्यसे ॥ ५५ ॥
द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः ।विराटनगरे पार्थमेकं किं नावधीस्तदा ॥ ५६ ॥
यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना ।सृगाला इव सिंहेन क्व ते वीर्यमभूत्तदा ॥ ५७ ॥
भ्रातरं च हतं दृष्ट्वा निर्जितः सव्यसाचिना ।पश्यतां कुरुवीराणां प्रथमं त्वं पलायथाः ॥ ५८ ॥
तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतः ।कुरून्समग्रानुत्सृज्य प्रथमं त्वं पलायथाः ॥ ५९ ॥
हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे ।कर्ण दुर्योधनं पार्थः सभार्यं सममोचयत् ॥ ६० ॥
पुनः प्रभावः पार्थस्य पुराणः केशवस्य च ।कथितः कर्ण रामेण सभायां राजसंसदि ॥ ६१ ॥
सततं च तदश्रौषीर्वचनं द्रोणभीष्मयोः ।अवध्यौ वदतोः कृष्णौ संनिधौ वै महीक्षिताम् ॥ ६२ ॥
कियन्तं तत्र वक्ष्यामि येन येन धनंजयः ।त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा ॥ ६३ ॥
इदानीमेव द्रष्टासि प्रधने स्यन्दने स्थितौ ।पुत्रं च वसुदेवस्य पाण्डवं च धनंजयम् ॥ ६४ ॥
देवासुरमनुष्येषु प्रख्यातौ यौ नरर्षभौ ।प्रकाशेनाभिविख्यातौ त्वं तु खद्योतवन्नृषु ॥ ६५ ॥
एवं विद्वान्मावमंस्थाः सूतपुत्राच्युतार्जुनौ ।नृसिंहौ तौ नरश्वा त्वं जोषमास्स्व विकत्थन ॥ ६६ ॥
« »