Click on words to see what they mean.

संजय उवाच ।प्रयानेव तदा कर्णो हर्षयन्वाहिनीं तव ।एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत ॥ १ ॥
यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम् ।तस्मै दद्यामभिप्रेतं वरं यं मनसेच्छति ॥ २ ॥
स चेत्तदभिमन्येत तस्मै दद्यामहं पुनः ।शकटं रत्नसंपूर्णं यो मे ब्रूयाद्धनंजयम् ॥ ३ ॥
स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।अन्यं तस्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम् ॥ ४ ॥
तथा तस्मै पुनर्दद्यां स्त्रीणां शतमलंकृतम् ।श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् ॥ ५ ॥
स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।अन्यं तस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान् ॥ ६ ॥
हेमभाण्डपरिच्छन्नान्सुमृष्टमणिकुण्डलान् ।सुदान्तानपि चैवाहं दद्यामष्टशतान्परान् ॥ ७ ॥
रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलंकृतम् ।युक्तं परमकाम्बोजैर्यो मे ब्रूयाद्धनंजयम् ॥ ८ ॥
अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट् ।काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः ।उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः ॥ ९ ॥
स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम् ॥ १० ॥
पुत्रदारान्विहारांश्च यदन्यद्वित्तमस्ति मे ।तच्च तस्मै पुनर्दद्यां यद्यत्स मनसेच्छति ॥ ११ ॥
हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः ।तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ ॥ १२ ॥
एता वाचः सुबहुशः कर्ण उच्चारयन्युधि ।दध्मौ सागरसंभूतं सुस्वनं शङ्खमुत्तमम् ॥ १३ ॥
ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु ।दुर्योधनो महाराज प्रहृष्टः सानुगोऽभवत् ॥ १४ ॥
ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः ।सिंहनादः सवादित्रः कुञ्जराणां च निस्वनः ॥ १५ ॥
प्रादुरासीत्तदा राजंस्त्वत्सैन्ये भरतर्षभ ।योधानां संप्रहृष्टानां तथा समभवत्स्वनः ॥ १६ ॥
तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम् ।विकत्थमानं समरे राधेयमरिकर्शनम् ।मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत ॥ १७ ॥
मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम् ।प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनंजयम् ॥ १८ ॥
बाल्यादिव त्वं त्यजसि वसु वैश्रवणो यथा ।अयत्नेनैव राधेय द्रष्टास्यद्य धनंजयम् ॥ १९ ॥
परासृजसि मिथ्या किं किं च त्वं बहु मूढवत् ।अपात्रदाने ये दोषास्तान्मोहान्नावबुध्यसे ॥ २० ॥
यत्प्रवेदयसे वित्तं बहुत्वेन खलु त्वया ।शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः ॥ २१ ॥
यच्च प्रार्थयसे हन्तुं कृष्णौ मोहान्मृषैव तत् ।न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ ॥ २२ ॥
अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते ।ये त्वां न वारयन्त्याशु प्रपतन्तं हुताशने ॥ २३ ॥
कालकार्यं न जानीषे कालपक्वोऽस्यसंशयम् ।बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः ॥ २४ ॥
समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम् ।गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम् ॥ २५ ॥
सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः ।धनंजयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि ॥ २६ ॥
हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वा न हिंसया ।श्रद्धत्स्वैतन्मया प्रोक्तं यदि तेऽस्ति जिजीविषा ॥ २७ ॥
कर्ण उवाच ।स्ववीर्येऽहं पराश्वस्य प्रार्थयाम्यर्जुनं रणे ।त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि ॥ २८ ॥
न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत् ।अपीन्द्रो वज्रमुद्यम्य किं नु मर्त्यः करिष्यति ॥ २९ ॥
संजय उवाच ।इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः ।चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः ॥ ३० ॥
यदा वै त्वां फल्गुनवेगनुन्ना ज्याचोदिता हस्तवता विसृष्टाः ।अन्वेतारः कङ्कपत्राः शिताग्रास्तदा तप्स्यस्यर्जुनस्याभियोगात् ॥ ३१ ॥
यदा दिव्यं धनुरादाय पार्थः प्रभासयन्पृतनां सव्यसाची ।त्वामर्दयेत निशितैः पृषत्कैस्तदा पश्चात्तप्स्यसे सूतपुत्र ॥ ३२ ॥
बालश्चन्द्रं मातुरङ्के शयानो यथा कश्चित्प्रार्थयतेऽपहर्तुम् ।तद्वन्मोहाद्यतमानो रथस्थस्त्वं प्रार्थयस्यर्जुनमद्य जेतुम् ॥ ३३ ॥
त्रिशूलमाश्लिष्य सुतीक्ष्णधारं सर्वाणि गात्राणि निघर्षसि त्वम् ।सुतीक्ष्णधारोपमकर्मणा त्वं युयुत्ससे योऽर्जुनेनाद्य कर्ण ॥ ३४ ॥
सिद्धं सिंहं केसरिणं बृहन्तं बालो मूढः क्षुद्रमृगस्तरस्वी ।समाह्वयेत्तद्वदेतत्तवाद्य समाह्वानं सूतपुत्रार्जुनस्य ॥ ३५ ॥
मा सूतपुत्राह्वय राजपुत्रं महावीर्यं केसरिणं यथैव ।वने सृगालः पिशितस्य तृप्तो मा पार्थमासाद्य विनङ्क्ष्यसि त्वम् ॥ ३६ ॥
ईषादन्तं महानागं प्रभिन्नकरटामुखम् ।शशकाह्वयसे युद्धे कर्ण पार्थं धनंजयम् ॥ ३७ ॥
बिलस्थं कृष्णसर्पं त्वं बाल्यात्काष्ठेन विध्यसि ।महाविषं पूर्णकोशं यत्पार्थं योद्धुमिच्छसि ॥ ३८ ॥
सिंहं केसरिणं क्रुद्धमतिक्रम्याभिनर्दसि ।सृगाल इव मूढत्वान्नृसिंहं कर्ण पाण्डवम् ॥ ३९ ॥
सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम् ।लट्वेवाह्वयसे पाते कर्ण पार्थं धनंजयम् ॥ ४० ॥
सर्वाम्भोनिलयं भीममूर्मिमन्तं झषायुतम् ।चन्द्रोदये विवर्तन्तमप्लवः संतितीर्षसि ॥ ४१ ॥
ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम् ।वत्स आह्वयसे युद्धे कर्ण पार्थं धनंजयम् ॥ ४२ ॥
महाघोषं महामेघं दर्दुरः प्रतिनर्दसि ।कामतोयप्रदं लोके नरपर्जन्यमर्जुनम् ॥ ४३ ॥
यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत् ।तथा त्वं भषसे कर्ण नरव्याघ्रं धनंजयम् ॥ ४४ ॥
सृगालोऽपि वने कर्ण शशैः परिवृतो वसन् ।मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति ॥ ४५ ॥
तथा त्वमपि राधेय सिंहमात्मानमिच्छसि ।अपश्यञ्शत्रुदमनं नरव्याघ्रं धनंजयम् ॥ ४६ ॥
व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि ।समास्थितावेकरथे सूर्याचन्द्रमसाविव ॥ ४७ ॥
यावद्गाण्डीवनिर्घोषं न शृणोषि महाहवे ।तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि ॥ ४८ ॥
रथशब्दधनुःशब्दैर्नादयन्तं दिशो दश ।नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि ॥ ४९ ॥
नित्यमेव सृगालस्त्वं नित्यं सिंहो धनंजयः ।वीरप्रद्वेषणान्मूढ नित्यं क्रोष्टेव लक्ष्यसे ॥ ५० ॥
यथाखुः स्याद्बिडालश्च श्वा व्याघ्रश्च बलाबले ।यथा सृगालः सिंहश्च यथा च शशकुञ्जरौ ॥ ५१ ॥
यथानृतं च सत्यं च यथा चापि विषामृते ।तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः ॥ ५२ ॥
संजय उवाच ।अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा ।शल्यमाह सुसंक्रुद्धो वाक्शल्यमवधारयन् ॥ ५३ ॥
गुणान्गुणवतः शल्य गुणवान्वेत्ति नागुणः ।त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यस्यगुणो गुणान् ॥ ५४ ॥
अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान् ।अहं शल्याभिजानामि न त्वं जानासि तत्तथा ॥ ५५ ॥
एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे ।जानन्नेवाह्वये युद्धे शल्य नाग्निं पतंगवत् ॥ ५६ ॥
अस्ति चायमिषुः शल्य सुपुङ्खो रक्तभोजनः ।एकतूणीशयः पत्री सुधौतः समलंकृतः ॥ ५७ ॥
शेते चन्दनपूर्णेन पूजितो बहुलाः समाः ।आहेयो विषवानुग्रो नराश्वद्विपसंघहा ॥ ५८ ॥
एकवीरो महारौद्रस्तनुत्रास्थिविदारणः ।निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम् ॥ ५९ ॥
तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते ।कृष्णाद्वा देवकीपुत्रात्सत्यं चात्र शृणुष्व मे ॥ ६० ॥
तेनाहमिषुणा शल्य वासुदेवधनंजयौ ।योत्स्ये परमसंक्रुद्धस्तत्कर्म सदृशं मम ॥ ६१ ॥
सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः प्रतिष्ठिता ।सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः ।उभयं तत्समासाद्य कोऽतिवर्तितुमर्हति ॥ ६२ ॥
तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ ।मामेकमभिसंयातौ सुजातं शल्य पश्य मे ॥ ६३ ॥
पितृष्वसामातुलजौ भ्रातरावपराजितौ ।मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया ॥ ६४ ॥
अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ ।भीरूणां त्रासजननौ शल्य हर्षकरौ मम ॥ ६५ ॥
त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः ।भयावतीर्णः संत्रासादबद्धं बहु भाषसे ॥ ६६ ॥
संस्तौषि त्वं तु केनापि हेतुना तौ कुदेशज ।तौ हत्वा समरे हन्ता त्वामद्धा सहबान्धवम् ॥ ६७ ॥
पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन ।सुहृद्भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्नसि ॥ ६८ ॥
तौ वा ममाद्य हन्तारौ हन्तास्मि समरे स्थितौ ।नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम् ॥ ६९ ॥
वासुदेवसहस्रं वा फल्गुनानां शतानि च ।अहमेको हनिष्यामि जोषमास्स्व कुदेशज ॥ ७० ॥
स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः ।या गाथाः संप्रगायन्ति कुर्वन्तोऽध्ययनं यथा ।ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु ॥ ७१ ॥
ब्राह्मणैः कथिताः पूर्वं यथावद्राजसंनिधौ ।श्रुत्वा चैकमना मूढ क्षम वा ब्रूहि वोत्तरम् ॥ ७२ ॥
मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः ।मद्रके संगतं नास्ति क्षुद्रवाक्ये नराधमे ॥ ७३ ॥
दुरात्मा मद्रको नित्यं नित्यं चानृतिकोऽनृजुः ।यावदन्तं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम् ॥ ७४ ॥
पिता माता च पुत्रश्च श्वश्रूश्वशुरमातुलाः ।जामाता दुहिता भ्राता नप्ता ते ते च बान्धवाः ॥ ७५ ॥
वयस्याभ्यागताश्चान्ये दासीदासं च संगतम् ।पुंभिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया ॥ ७६ ॥
येषां गृहेषु शिष्टानां सक्तुमन्थाशिनां सदा ।पीत्वा सीधुं सगोमांसं नर्दन्ति च हसन्ति च ॥ ७७ ॥
यानि चैवाप्यबद्धानि प्रवर्तन्ते च कामतः ।कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत् ॥ ७८ ॥
मद्रकेषु विलुप्तेषु प्रख्याताशुभकर्मसु ।नापि वैरं न सौहार्दं मद्रकेषु समाचरेत् ॥ ७९ ॥
मद्रके संगतं नास्ति मद्रको हि सचापलः ।मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च ॥ ८० ॥
राजयाजकयाज्येन नष्टं दत्तं हविर्भवेत् ॥ ८१ ॥
शूद्रसंस्कारको विप्रो यथा याति पराभवम् ।तथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् ॥ ८२ ॥
मद्रके संगतं नास्ति हतं वृश्चिकतो विषम् ।आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत् ॥ ८३ ॥
इति वृश्चिकदष्टस्य नानाविषहतस्य च ।कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते ।एवं विद्वञ्जोषमास्स्व शृणु चात्रोत्तरं वचः ॥ ८४ ॥
वासांस्युत्सृज्य नृत्यन्ति स्त्रियो या मद्यमोहिताः ।मिथुनेऽसंयताश्चापि यथाकामचराश्च ताः ।तासां पुत्रः कथं धर्मं मद्रको वक्तुमर्हति ॥ ८५ ॥
यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रीदशेरके ।तासां विभ्रष्टलज्जानां निर्लज्जानां ततस्ततः ।त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि ॥ ८६ ॥
सुवीरकं याच्यमाना मद्रका कषति स्फिजौ ।अदातुकामा वचनमिदं वदति दारुणम् ॥ ८७ ॥
मा मा सुवीरकं कश्चिद्याचतां दयितो मम ।पुत्रं दद्यां प्रतिपदं न तु दद्यां सुवीरकम् ॥ ८८ ॥
नार्यो बृहत्यो निर्ह्रीका मद्रकाः कम्बलावृताः ।घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम ॥ ८९ ॥
एवमादि मयान्यैर्वा शक्यं वक्तुं भवेद्बहु ।आ केशाग्रान्नखाग्राच्च वक्तव्येषु कुवर्त्मसु ॥ ९० ॥
मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह ।पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः ॥ ९१ ॥
एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम् ।यदाजौ निहतः शेते सद्भिः समभिपूजितः ॥ ९२ ॥
आयुधानां संपराये यन्मुच्येयमहं ततः ।न मे स प्रथमः कल्पो निधने स्वर्गमिच्छतः ॥ ९३ ॥
सोऽहं प्रियः सखा चास्मि धार्तराष्ट्रस्य धीमतः ।तदर्थे हि मम प्राणा यच्च मे विद्यते वसु ॥ ९४ ॥
व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज ।यथा ह्यमित्रवत्सर्वं त्वमस्मासु प्रवर्तसे ॥ ९५ ॥
कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि ।संग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः ॥ ९६ ॥
सारङ्ग इव घर्मार्तः कामं विलप शुष्य च ।नाहं भीषयितुं शक्यः क्षत्रवृत्ते व्यवस्थितः ॥ ९७ ॥
तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम् ।या गतिर्गुरुणा प्राङ्मे प्रोक्ता रामेण तां स्मर ॥ ९८ ॥
स्वेषां त्राणार्थमुद्युक्तं वधाय द्विषतामपि ।विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम् ॥ ९९ ॥
न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रक ।यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः ॥ १०० ॥
एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे ।मा त्वा हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम ॥ १०१ ॥
मित्रप्रतीक्षया शल्य धार्तराष्ट्रस्य चोभयोः ।अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि ॥ १०२ ॥
पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि ।शिरस्ते पातयिष्यामि गदया वज्रकल्पया ॥ १०३ ॥
श्रोतारस्त्विदमद्येह द्रष्टारो वा कुदेशज ।कर्णं वा जघ्नतुः कृष्णौ कर्णो वापि जघान तौ ॥ १०४ ॥
एवमुक्त्वा तु राधेयः पुनरेव विशां पते ।अब्रवीन्मद्रराजानं याहि याहीत्यसंभ्रमम् ॥ १०५ ॥
« »