Click on words to see what they mean.

दुर्योधन उवाच ।अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति ।कृष्णादभ्यधिको यन्ता देवेन्द्रस्येव मातलिः ॥ १ ॥
यथा हरिहयैर्युक्तं संगृह्णाति स मातलिः ।शल्यस्तव तथाद्यायं संयन्ता रथवाजिनाम् ॥ २ ॥
योधे त्वयि रथस्थे च मद्रराजे च सारथौ ।रथश्रेष्ठो ध्रुवं संख्ये पार्थो नाभिभविष्यति ॥ ३ ॥
संजय उवाच ।ततो दुर्योधनो भूयो मद्रराजं तरस्विनम् ।उवाच राजन्संग्रामे संयच्छन्तं हयोत्तमान् ॥ ४ ॥
त्वयाभिगुप्तो राधेयो विजेष्यति धनंजयम् ।इत्युक्तो रथमास्थाय तथेति प्राह भारत ॥ ५ ॥
शल्येऽभ्युपगते कर्णः सारथिं सुमनोऽब्रवीत् ।स्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन् ॥ ६ ॥
ततो जैत्रं रथवरं गन्धर्वनगरोपमम् ।विधिवत्कल्पितं भर्त्रे जयेत्युक्त्वा न्यवेदयत् ॥ ७ ॥
तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि ।संपादितं ब्रह्मविदा पूर्वमेव पुरोधसा ॥ ८ ॥
कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम् ।समीपस्थं मद्रराजं समारोपयदग्रतः ॥ ९ ॥
ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् ।आरुरोह महातेजाः शल्यः सिंह इवाचलम् ॥ १० ॥
ततः शल्यास्थितं राजन्कर्णः स्वरथमुत्तमम् ।अध्यतिष्ठद्यथाम्भोदं विद्युत्वन्तं दिवाकरः ॥ ११ ॥
तावेकरथमारूढावादित्याग्निसमत्विषौ ।व्यभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि ॥ १२ ॥
संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तरौ ।ऋत्विक्सदस्यैरिन्द्राग्नी हूयमानाविवाध्वरे ॥ १३ ॥
स शल्यसंगृहीताश्वे रथे कर्णः स्थितोऽभवत् ।धनुर्विस्फारयन्घोरं परिवेषीव भास्करः ॥ १४ ॥
आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् ।प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान् ॥ १५ ॥
तं रथस्थं महावीरं यान्तं चामिततेजसम् ।दुर्योधनः स्म राधेयमिदं वचनमब्रवीत् ॥ १६ ॥
अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे ।कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम् ॥ १७ ॥
मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ ।अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम् ॥ १८ ॥
ताभ्यां यदकृतं वीर वीरकर्म महामृधे ।तत्कर्म कुरु राधेय वज्रपाणिरिवापरः ॥ १९ ॥
गृहाण धर्मराजं वा जहि वा त्वं धनंजयम् ।भीमसेनं च राधेय माद्रीपुत्रौ यमावपि ॥ २० ॥
जयश्च तेऽस्तु भद्रं च प्रयाहि पुरुषर्षभ ।पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् ॥ २१ ॥
ततस्तूर्यसहस्राणि भेरीणामयुतानि च ।वाद्यमानान्यरोचन्त मेघशब्दा यथा दिवि ॥ २२ ॥
प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः ।अभ्यभाषत राधेयः शल्यं युद्धविशारदम् ॥ २३ ॥
चोदयाश्वान्महाबाहो यावद्धन्मि धनंजयम् ।भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम् ॥ २४ ॥
अद्य पश्यतु मे शल्य बाहुवीर्यं धनंजयः ।अस्यतः कङ्कपत्राणां सहस्राणि शतानि च ॥ २५ ॥
अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् ।पाण्डवानां विनाशाय दुर्योधनजयाय च ॥ २६ ॥
शल्य उवाच ।सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे ।सर्वास्त्रज्ञान्महेष्वासान्सर्वानेव महारथान् ॥ २७ ॥
अनिवर्तिनो महाभागानजेयान्सत्यविक्रमान् ।अपि संजनयेयुर्ये भयं साक्षाच्छतक्रतोः ॥ २८ ॥
यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः ।राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि ॥ २९ ॥
संजय उवाच ।अनादृत्य तु तद्वाक्यं मद्रराजेन भाषितम् ।द्रक्ष्यस्यद्येत्यवोचद्वै शल्यं कर्णो नरेश्वर ॥ ३० ॥
दृष्ट्वा कर्णं महेष्वासं युयुत्सुं समवस्थितम् ।चुक्रुशुः कुरवः सर्वे हृष्टरूपाः परंतप ॥ ३१ ॥
ततो दुन्दुभिघोषेण भेरीणां निनदेन च ।बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् ।निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम् ॥ ३२ ॥
प्रयाते तु ततः कर्णे योधेषु मुदितेषु च ।चचाल पृथिवी राजन्ररास च सुविस्वरम् ॥ ३३ ॥
निश्चरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः ।उल्कापातश्च संजज्ञे दिशां दाहस्तथैव च ।तथाशन्यश्च संपेतुर्ववुर्वाताश्च दारुणाः ॥ ३४ ॥
मृगपक्षिगणाश्चैव बहुशः पृतनां तव ।अपसव्यं तदा चक्रुर्वेदयन्तो महद्भयम् ॥ ३५ ॥
प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि ।अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम् ॥ ३६ ॥
जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे ।अश्रूणि च व्यमुञ्चन्त वाहनानि विशां पते ॥ ३७ ॥
एते चान्ये च बहव उत्पातास्तत्र मारिष ।समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः ॥ ३८ ॥
न च तान्गणयामासुः सर्वे ते दैवमोहिताः ।प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नरा भुवि ।निर्जितान्पाण्डवांश्चैव मेनिरे तव कौरवाः ॥ ३९ ॥
ततो रथस्थः परवीरहन्ता भीष्मद्रोणावात्तवीर्यौ निरीक्ष्य ।समज्वलद्भारत पावकाभो वैकर्तनोऽसौ रथकुञ्जरो वृषः ॥ ४० ॥
स शल्यमाभाष्य जगाद वाक्यं पार्थस्य कर्माप्रतिमं च दृष्ट्वा ।मानेन दर्पेण च दह्यमानः क्रोधेन दीप्यन्निव निःश्वसित्वा ॥ ४१ ॥
नाहं महेन्द्रादपि वज्रपाणेः क्रुद्धाद्बिभेम्यात्तधनू रथस्थः ।दृष्ट्वा तु भीष्मप्रमुखाञ्शयानान्न त्वेव मां स्थिरता संजहाति ॥ ४२ ॥
महेन्द्रविष्णुप्रतिमावनिन्दितौ रथाश्वनागप्रवरप्रमाथिनौ ।अवध्यकल्पौ निहतौ यदा परैस्ततो ममाद्यापि रणेऽस्ति साध्वसम् ॥ ४३ ॥
समीक्ष्य संख्येऽतिबलान्नराधिपैर्नराश्वमातङ्गरथाञ्शरैर्हतान् ।कथं न सर्वानहितान्रणेऽवधीन्महास्त्रविद्ब्राह्मणपुंगवो गुरुः ॥ ४४ ॥
स संस्मरन्द्रोणहवं महाहवे ब्रवीमि सत्यं कुरवो निबोधत ।न वो मदन्यः प्रसहेद्रणेऽर्जुनं क्रमागतं मृत्युमिवोग्ररूपिणम् ॥ ४५ ॥
शिक्षा प्रसादश्च बलं धृतिश्च द्रोणे महास्त्राणि च संनतिश्च ।स चेदगान्मृत्युवशं महात्मा सर्वानन्यानातुरानद्य मन्ये ॥ ४६ ॥
नेह ध्रुवं किंचिदपि प्रचिन्त्यं विदुर्लोके कर्मणोऽनित्ययोगात् ।सूर्योदये को हि विमुक्तसंशयो गर्वं कुर्वीताद्य गुरौ निपातिते ॥ ४७ ॥
न नूनमस्त्राणि बलं पराक्रमः क्रिया सुनीतं परमायुधानि वा ।अलं मनुष्यस्य सुखाय वर्तितुं तथा हि युद्धे निहतः परैर्गुरुः ॥ ४८ ॥
हुताशनादित्यसमानतेजसं पराक्रमे विष्णुपुरंदरोपमम् ।नये बृहस्पत्युशनःसमं सदा न चैनमस्त्रं तदपात्सुदुःसहम् ॥ ४९ ॥
संप्रक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे ।मया कृत्यमिति जानामि शल्य प्रयाहि तस्माद्द्विषतामनीकम् ॥ ५० ॥
यत्र राजा पाण्डवः सत्यसंधो व्यवस्थितो भीमसेनार्जुनौ च ।वासुदेवः सृञ्जयाः सात्यकिश्च यमौ च कस्तौ विषहेन्मदन्यः ॥ ५१ ॥
तस्मात्क्षिप्रं मद्रपते प्रयाहि रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च ।तान्वा हनिष्यामि समेत्य संख्ये यास्यामि वा द्रोणमुखाय मन्ये ॥ ५२ ॥
न त्वेवाहं न गमिष्यामि मध्यं तेषां शूराणामिति मा शल्य विद्धि ।मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ॥ ५३ ॥
प्राज्ञस्य मूढस्य च जीवितान्ते प्राणप्रमोक्षोऽन्तकवक्त्रगस्य ।अतो विद्वन्नभियास्यामि पार्थं दिष्टं न शक्यं व्यतिवर्तितुं वै ॥ ५४ ॥
कल्याणवृत्तः सततं हि राजन्वैचित्रवीर्यस्य सुतो ममासीत् ।तस्यार्थसिद्ध्यर्थमहं त्यजामि प्रियान्भोगान्दुस्त्यजं जीवितं च ॥ ५५ ॥
वैयाघ्रचर्माणमकूजनाक्षं हैमत्रिकोशं रजतत्रिवेणुम् ।रथप्रबर्हं तुरगप्रबर्हैर्युक्तं प्रादान्मह्यमिदं हि रामः ॥ ५६ ॥
धनूंषि चित्राणि निरीक्ष्य शल्य ध्वजं गदां सायकांश्चोग्ररूपान् ।असिं च दीप्तं परमायुधं च शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ॥ ५७ ॥
पताकिनं वज्रनिपातनिस्वनं सिताश्वयुक्तं शुभतूणशोभितम् ।इमं समास्थाय रथं रथर्षभं रणे हनिष्याम्यहमर्जुनं बलात् ॥ ५८ ॥
तं चेन्मृत्युः सर्वहरोऽभिरक्षते सदाप्रमत्तः समरे पाण्डुपुत्रम् ।तं वा हनिष्यामि समेत्य युद्धे यास्यामि वा भीष्ममुखो यमाय ॥ ५९ ॥
यमवरुणकुबेरवासवा वा यदि युगपत्सगणा महाहवे ।जुगुपिषव इहैत्य पाण्डवं किमु बहुना सह तैर्जयामि तम् ॥ ६० ॥
इति रणरभसस्य कत्थतस्तदुपनिशम्य वचः स मद्रराट् ।अवहसदवमन्य वीर्यवान्प्रतिषिषिधे च जगाद चोत्तरम् ॥ ६१ ॥
विरम विरम कर्ण कत्थनादतिरभसोऽस्यति चाप्ययुक्तवाक् ।क्व च हि नरवरो धनंजयः क्व पुनरिह त्वमुपारमाबुध ॥ ६२ ॥
यदुसदनमुपेन्द्रपालितं त्रिदिवमिवामरराजरक्षितम् ।प्रसभमिह विलोक्य को हरेत्पुरुषवरावरजामृतेऽर्जुनात् ॥ ६३ ॥
त्रिभुवनसृजमीश्वरेश्वरं क इह पुमान्भवमाह्वयेद्युधि ।मृगवधकलहे ऋतेऽर्जुनात्सुरपतिवीर्यसमप्रभावतः ॥ ६४ ॥
असुरसुरमहोरगान्नरान्गरुडपिशाचसयक्षराक्षसान् ।इषुभिरजयदग्निगौरवात्स्वभिलषितं च हविर्ददौ जयः ॥ ६५ ॥
स्मरसि ननु यदा परैर्हृतः स च धृतराष्ट्रसुतो विमोक्षितः ।दिनकरज नरोत्तमैर्यदा मरुषु बहून्विनिहत्य तानरीन् ॥ ६६ ॥
प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः ।स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः ॥ ६७ ॥
समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे ।सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयार्जुनः ॥ ६८ ॥
इदमपरमुपस्थितं पुनस्तव निधनाय सुयुद्धमद्य वै ।यदि न रिपुभयात्पलायसे समरगतोऽद्य हतोऽसि सूतज ॥ ६९ ॥
संजय उवाच ।इति बहुपरुषं प्रभाषति प्रमनसि मद्रपतौ रिपुस्तवम् ।भृशमतिरुषितः परं वृषः कुरुपृतनापतिराह मद्रपम् ॥ ७० ॥
भवतु भवतु किं विकत्थसे ननु मम तस्य च युद्धमुद्यतम् ।यदि स जयति मां महाहवे तत इदमस्तु सुकत्थितं तव ॥ ७१ ॥
एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् ।याहि मद्रेश चाप्येनं कर्णः प्राह युयुत्सया ॥ ७२ ॥
स रथः प्रययौ शत्रूञ्श्वेताश्वः शल्यसारथिः ।निघ्नन्नमित्रान्समरे तमो घ्नन्सविता यथा ॥ ७३ ॥
ततः प्रायात्प्रीतिमान्वै रथेन वैयाघ्रेण श्वेतयुजाथ कर्णः ।स चालोक्य ध्वजिनीं पाण्डवानां धनंजयं त्वरया पर्यपृच्छत् ॥ ७४ ॥
« »