Click on words to see what they mean.

संजय उवाच ।ततः कर्णं पुरस्कृत्य त्वदीया युद्धदुर्मदाः ।पुनरावृत्य संग्रामं चक्रुर्देवासुरोपमम् ॥ १ ॥
द्विरदरथनराश्वशङ्खशब्दैः परिहृषिता विविधैश्च शस्त्रपातैः ।द्विरदरथपदातिसार्थवाहाः परिपतिताभिमुखाः प्रजह्रिरे ते ॥ २ ॥
शरपरशुवरासिपट्टिशैरिषुभिरनेकविधैश्च सादिताः ।द्विरदरथहया महाहवे वरपुरुषैः पुरुषाश्च वाहनैः ॥ ३ ॥
कमलदिनकरेन्दुसंनिभैः सितदशनैः सुमुखाक्षिनासिकैः ।रुचिरमुकुटकुण्डलैर्मही पुरुषशिरोभिरवस्तृता बभौ ॥ ४ ॥
परिघमुसलशक्तितोमरैर्नखरभुशुण्डिगदाशतैर्द्रुताः ।द्विरदनरहयाः सहस्रशो रुधिरनदीप्रवहास्तदाभवन् ॥ ५ ॥
प्रहतनररथाश्वकुञ्जरं प्रतिभयदर्शनमुल्बणं तदा ।तदहितनिहतं बभौ बलं पितृपतिराष्ट्रमिव प्रजाक्षये ॥ ६ ॥
अथ तव नरदेव सैनिकास्तव च सुताः सुरसूनुसंनिभाः ।अमितबलपुरःसरा रणे कुरुवृषभाः शिनिपुत्रमभ्ययुः ॥ ७ ॥
तदतिरुचिरभीममाबभौ पुरुषवराश्वरथद्विपाकुलम् ।लवणजलसमुद्धतस्वनं बलममरासुरसैन्यसंनिभम् ॥ ८ ॥
सुरपतिसमविक्रमस्ततस्त्रिदशवरावरजोपमं युधि ।दिनकरकिरणप्रभैः पृषत्कै रवितनयोऽभ्यहनच्छिनिप्रवीरम् ॥ ९ ॥
तमपि सरथवाजिसारथिं शिनिवृषभो विविधैः शरैस्त्वरन् ।भुजगविषसमप्रभै रणे पुरुषवरं समवास्तृणोत्तदा ॥ १० ॥
शिनिवृषभशरप्रपीडितं तव सुहृदो वसुषेणमभ्ययुः ।त्वरितमतिरथा रथर्षभं द्विरदरथाश्वपदातिभिः सह ॥ ११ ॥
तमुदधिनिभमाद्रवद्बली त्वरिततरैः समभिद्रुतं परैः ।द्रुपदसुतसखस्तदाकरोत्पुरुषरथाश्वगजक्षयं महत् ॥ १२ ॥
अथ पुरुषवरौ कृताह्निकौ भवमभिपूज्य यथाविधि प्रभुम् ।अरिवधकृतनिश्चयौ द्रुतं तव बलमर्जुनकेशवौ सृतौ ॥ १३ ॥
जलदनिनदनिस्वनं रथं पवनविधूतपताककेतनम् ।सितहयमुपयान्तमन्तिकं हृतमनसो ददृशुस्तदारयः ॥ १४ ॥
अथ विस्फार्य गाण्डीवं रणे नृत्यन्निवार्जुनः ।शरसंबाधमकरोत्खं दिशः प्रदिशस्तथा ॥ १५ ॥
रथान्विमानप्रतिमान्सज्जयन्त्रायुधध्वजान् ।ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत् ॥ १६ ॥
गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान् ।सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम् ॥ १७ ॥
तमन्तकमिव क्रुद्धमनिवार्यं महारथम् ।दुर्योधनोऽभ्ययादेको निघ्नन्बाणैः पृथग्विधैः ॥ १८ ॥
तस्यार्जुनो धनुः सूतं केतुमश्वांश्च सायकैः ।हत्वा सप्तभिरेकैकं छत्रं चिच्छेद पत्रिणा ॥ १९ ॥
नवमं च समासाद्य व्यसृजत्प्रतिघातिनम् ।दुर्योधनायेषुवरं तं द्रौणिः सप्तधाच्छिनत् ॥ २० ॥
ततो द्रौणेर्धनुश्छित्त्वा हत्वा चाश्ववराञ्शरैः ।कृपस्यापि तथात्युग्रं धनुश्चिच्छेद पाण्डवः ॥ २१ ॥
हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वं तथावधीत् ।दुःशासनस्येषुवरं छित्त्वा राधेयमभ्ययात् ॥ २२ ॥
अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः ।विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनस्त्रिभिः ॥ २३ ॥
अथ सात्यकिरागत्य कर्णं विद्ध्वा शितैः शरैः ।नवत्या नवभिश्चोग्रैः शतेन पुनरार्दयत् ॥ २४ ॥
ततः प्रवीराः पाण्डूनां सर्वे कर्णमपीडयन् ।युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥ २५ ॥
उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च ।चेदिकारूषमत्स्यानां केकयानां च यद्बलम् ।चेकितानश्च बलवान्धर्मराजश्च सुव्रतः ॥ २६ ॥
एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः ।परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन् ।भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे वृताः ॥ २७ ॥
तां शस्त्रवृष्टिं बहुधा छित्त्वा कर्णः शितैः शरैः ।अपोवाह स्म तान्सर्वान्द्रुमान्भङ्क्त्वेव मारुतः ॥ २८ ॥
रथिनः समहामात्रान्गजानश्वान्ससादिनः ।शरव्रातांश्च संक्रुद्धो निघ्नन्कर्णो व्यदृश्यत ॥ २९ ॥
तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा ।विशस्त्रक्षतदेहं च प्राय आसीत्पराङ्मुखम् ॥ ३० ॥
अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्वयम् ।दिशः खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः ॥ ३१ ॥
मुसलानीव निष्पेतुः परिघा इव चेषवः ।शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि वापरे ॥ ३२ ॥
तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम् ।निमीलिताक्षमत्यर्थमुदभ्राम्यत्समन्ततः ॥ ३३ ॥
निष्कैवल्यं तदा युद्धं प्रापुरश्वनरद्विपाः ।वध्यमानाः शरैरन्ये तदा भीताः प्रदुद्रुवुः ॥ ३४ ॥
एवं तेषां तदा युद्धे संसक्तानां जयैषिणाम् ।गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान् ॥ ३५ ॥
तमसा च महाराज रजसा च विशेषतः ।न किंचित्प्रत्यपश्याम शुभं वा यदि वाशुभम् ॥ ३६ ॥
ते त्रसन्तो महेष्वासा रात्रियुद्धस्य भारत ।अपयानं ततश्चक्रुः सहिताः सर्ववाजिभिः ॥ ३७ ॥
कौरवेषु च यातेषु तदा राजन्दिनक्षये ।जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः ॥ ३८ ॥
वादित्रशब्दैर्विविधैः सिंहनादैश्च नर्तितैः ।परानवहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ ॥ ३९ ॥
कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते ।आशिषः पाण्डवेयेषु प्रायुज्यन्त नरेश्वराः ॥ ४० ॥
ततः कृतेऽवहारे च प्रहृष्टाः कुरुपाण्डवाः ।निशायां शिबिरं गत्वा न्यविशन्त नरेश्वराः ॥ ४१ ॥
यक्षरक्षःपिशाचाश्च श्वापदानि च संघशः ।जग्मुरायोधनं घोरं रुद्रस्यानर्तनोपमम् ॥ ४२ ॥
« »