Click on words to see what they mean.

धृतराष्ट्र उवाच ।अतितीव्राणि दुःखानि दुःसहानि बहूनि च ।तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम् ॥ १ ॥
तथा तु मे कथयसे यथा युद्धं तु वर्तते ।न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः ॥ २ ॥
दुर्योधनस्तु विरथः कृतस्तत्र महारणे ।धर्मपुत्रः कथं चक्रे तस्मिन्वा नृपतिः कथम् ॥ ३ ॥
अपराह्णे कथं युद्धमभवल्लोमहर्षणम् ।तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय ॥ ४ ॥
संजय उवाच ।संसक्तेषु च सैन्येषु युध्यमानेषु भागशः ।रथमन्यं समास्थाय पुत्रस्तव विशां पते ॥ ५ ॥
क्रोधेन महताविष्टः सविषो भुजगो यथा ।दुर्योधनस्तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम् ।उवाच सूत त्वरितं याहि याहीति भारत ॥ ६ ॥
अत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः ।ध्रियमाणेन छत्रेण राजा राजति दंशितः ॥ ७ ॥
स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् ।युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ॥ ८ ॥
ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवः ।सारथिं चोदयामास याहि यत्र सुयोधनः ॥ ९ ॥
तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ ।समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ ।ततक्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ॥ १० ॥
ततो दुर्योधनो राजा धर्मशीलस्य मारिष ।शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे ।तं नामृष्यत संक्रुद्धो व्यवसायं युधिष्ठिरः ॥ ११ ॥
अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः ।अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे ॥ १२ ॥
दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च ।अथान्यद्धनुरादाय प्रत्यविध्यत पाण्डवम् ॥ १३ ॥
तावन्योन्यं सुसंरब्धौ शरवर्षाण्यमुञ्चताम् ।सिंहाविव सुसंक्रुद्धौ परस्परजिगीषया ॥ १४ ॥
अन्योन्यं जघ्नतुश्चैव नर्दमानौ वृषाविव ।अन्योन्यं प्रेक्षमाणौ च चेरतुस्तौ महारथौ ॥ १५ ॥
ततः पूर्णायतोत्सृष्टैरन्योन्यं सुकृतव्रणौ ।विरेजतुर्महाराज पुष्पिताविव किंशुकौ ॥ १६ ॥
ततो राजन्प्रतिभयान्सिंहनादान्मुहुर्मुहुः ।तलयोश्च तथा शब्दान्धनुषोश्च महाहवे ॥ १७ ॥
शङ्खशब्दरवांश्चैव चक्रतुस्तौ रथोत्तमौ ।अन्योन्यं च महाराज पीडयां चक्रतुर्भृशम् ॥ १८ ॥
ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिः शरैः ।आजघानोरसि क्रुद्धो वज्रवेगो दुरासदः ॥ १९ ॥
प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम् ।पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥ २० ॥
ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत ।सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा ॥ २१ ॥
तामापतन्तीं सहसा धर्मराजः शिलाशितैः ।त्रिभिश्चिच्छेद सहसा तं च विव्याध सप्तभिः ॥ २२ ॥
निपपात ततः साथ हेमदण्डा महाघना ।निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा ॥ २३ ॥
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते ।नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् ॥ २४ ॥
सोऽतिविद्धो बलवतामग्रणीः शत्रुतापनः ।दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ॥ २५ ॥
समाधत्त च तं बाणं धनुष्युग्रं महाबलः ।चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी ॥ २६ ॥
स तु बाणः समासाद्य तव पुत्रं महारथम् ।व्यमोहयत राजानं धरणीं च जगाम ह ॥ २७ ॥
ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः ।विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम् ॥ २८ ॥
तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम् ।धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे ।दीप्यमानां महावेगां महोल्कां ज्वलितामिव ॥ २९ ॥
रथस्थः स तया विद्धो वर्म भित्त्वा महाहवे ।भृशं संविग्नहृदयः पपात च मुमोह च ॥ ३० ॥
ततस्त्वरितमागत्य कृतवर्मा तवात्मजम् ।प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे ॥ ३१ ॥
भीमोऽपि महतीं गृह्य गदां हेमपरिष्कृताम् ।अभिदुद्राव वेगेन कृतवर्माणमाहवे ।एवं तदभवद्युद्धं त्वदीयानां परैः सह ॥ ३२ ॥
« »