Click on words to see what they mean.

संजय उवाच ।अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः ।रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् ॥ १ ॥
निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत् ।वाहयन्नेव तुरगान्गरुडानिलरंहसः ॥ २ ॥
मागधोऽथाप्यतिक्रान्तो द्विरदेन प्रमाथिना ।भगदत्तादनवरः शिक्षया च बलेन च ॥ ३ ॥
एनं हत्वा निहन्तासि पुनः संशप्तकानिति ।वाक्यान्ते प्रापयत्पार्थं दण्डधारान्तिकं प्रति ॥ ४ ॥
स मागधानां प्रवरोऽङ्कुशग्रहो ग्रहेष्वसह्यो विकचो यथा ग्रहः ।सपत्नसेनां प्रममाथ दारुणो महीं समग्रां विकचो यथा ग्रहः ॥ ५ ॥
सुकल्पितं दानवनागसंनिभं महाभ्रसंह्रादममित्रमर्दनम् ।रथाश्वमातङ्गगणान्सहस्रशः समास्थितो हन्ति शरैर्द्विपानपि ॥ ६ ॥
रथानधिष्ठाय सवाजिसारथीन्रथांश्च पद्भिस्त्वरितो व्यपोथयत् ।द्विपांश्च पद्भ्यां चरणैः करेण च द्विपास्थितो हन्ति स कालचक्रवत् ॥ ७ ॥
नरांश्च कार्ष्णायसवर्मभूषणान्निपात्य साश्वानपि पत्तिभिः सह ।व्यपोथयद्दन्तिवरेण शुष्मिणा सशब्दवत्स्थूलनडान्यथा तथा ॥ ८ ॥
अथार्जुनो ज्यातलनेमिनिस्वने मृदङ्गभेरीबहुशङ्खनादिते ।नराश्वमातङ्गसहस्रनादितै रथोत्तमेनाभ्यपतद्द्विपोत्तमम् ॥ ९ ॥
ततोऽर्जुनं द्वादशभिः शरोत्तमैर्जनार्दनं षोडशभिः समार्दयत् ।स दण्डधारस्तुरगांस्त्रिभिस्त्रिभिस्ततो ननाद प्रजहास चासकृत् ॥ १० ॥
ततोऽस्य पार्थः सगुणेषुकार्मुकं चकर्त भल्लैर्ध्वजमप्यलंकृतम् ।पुनर्नियन्तॄन्सह पादगोप्तृभिस्ततस्तु चुक्रोध गिरिव्रजेश्वरः ॥ ११ ॥
ततोऽर्जुनं भिन्नकटेन दन्तिना घनाघनेनानिलतुल्यरंहसा ।अतीव चुक्षोभयिषुर्जनार्दनं धनंजयं चाभिजघान तोमरैः ॥ १२ ॥
अथास्य बाहू द्विपहस्तसंनिभौ शिरश्च पूर्णेन्दुनिभाननं त्रिभिः ।क्षुरैः प्रचिच्छेद सहैव पाण्डवस्ततो द्विपं बाणशतैः समार्दयत् ॥ १३ ॥
स पार्थबाणैस्तपनीयभूषणैः समारुचत्काञ्चनवर्मभृद्द्विपः ।तथा चकाशे निशि पर्वतो यथा दवाग्निना प्रज्वलितौषधिद्रुमः ॥ १४ ॥
स वेदनार्तोऽम्बुदनिस्वनो नदंश्चलन्भ्रमन्प्रस्खलितोऽऽतुरो द्रवन् ।पपात रुग्णः सनियन्तृकस्तथा यथा गिरिर्वज्रनिपातचूर्णितः ॥ १५ ॥
हिमावदातेन सुवर्णमालिना हिमाद्रिकूटप्रतिमेन दन्तिना ।हते रणे भ्रातरि दण्ड आव्रजज्जिघांसुरिन्द्रावरजं धनंजयम् ॥ १६ ॥
स तोमरैरर्ककरप्रभैस्त्रिभिर्जनार्दनं पञ्चभिरेव चार्जुनम् ।समर्पयित्वा विननाद चार्दयंस्ततोऽस्य बाहू विचकर्त पाण्डवः ॥ १७ ॥
क्षुरप्रकृत्तौ सुभृशं सतोमरौ च्युताङ्गदौ चन्दनरूषितौ भुजौ ।गजात्पतन्तौ युगपद्विरेजतुर्यथाद्रिशृङ्गात्पतितौ महोरगौ ॥ १८ ॥
अथार्धचन्द्रेण हृतं किरीटिना पपात दण्डस्य शिरः क्षितिं द्विपात् ।तच्छोणिताभं निपतद्विरेजे दिवाकरोऽस्तादिव पश्चिमां दिशम् ॥ १९ ॥
अथ द्विपं श्वेतनगाग्रसंनिभं दिवाकरांशुप्रतिमैः शरोत्तमैः ।बिभेद पार्थः स पपात नानदन्हिमाद्रिकूटः कुलिशाहतो यथा ॥ २० ॥
ततोऽपरे तत्प्रतिमा गजोत्तमा जिगीषवः संयति सव्यसाचिनम् ।तथा कृतास्तेन यथैव तौ द्विपौ ततः प्रभग्नं सुमहद्रिपोर्बलम् ॥ २१ ॥
गजा रथाश्वाः पुरुषाश्च संघशः परस्परघ्नाः परिपेतुराहवे ।परस्परप्रस्खलिताः समाहता भृशं च तत्तत्कुलभाषिणो हताः ॥ २२ ॥
अथार्जुनं स्वे परिवार्य सैनिकाः पुरंदरं देवगणा इवाब्रुवन् ।अभैष्म यस्मान्मरणादिव प्रजाः स वीर दिष्ट्या निहतस्त्वया रिपुः ॥ २३ ॥
न चेत्परित्रास्य इमाञ्जनान्भयाद्द्विषद्भिरेवं बलिभिः प्रपीडितान् ।तथाभविष्यद्द्विषतां प्रमोदनं यथा हतेष्वेष्विह नोऽरिषु त्वया ॥ २४ ॥
इतीव भूयश्च सुहृद्भिरीरिता निशम्य वाचः सुमनास्ततोऽर्जुनः ।यथानुरूपं प्रतिपूज्य तं जनं जगाम संशप्तकसंघहा पुनः ॥ २५ ॥
« »