Click on words to see what they mean.

धृतराष्ट्र उवाच ।यथा संशप्तकैः सार्धमर्जुनस्याभवद्रणः ।अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे ॥ १ ॥
संजय उवाच ।शृणु राजन्यथावृत्तं संग्रामं ब्रुवतो मम ।वीराणां शत्रुभिः सार्धं देहपाप्मप्रणाशनम् ॥ २ ॥
पार्थः संशप्तकगणं प्रविश्यार्णवसंनिभम् ।व्यक्षोभयदमित्रघ्नो महावात इवार्णवम् ॥ ३ ॥
शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनंजयः ।पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च ।संतस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव ॥ ४ ॥
सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान् ।सायुधान्सतनुत्राणान्पञ्चास्योरगसंनिभान् ।बाहून्क्षुरैरमित्राणां विचकर्तार्जुनो रणे ॥ ५ ॥
धुर्यान्धुर्यतरान्सूतान्ध्वजांश्चापानि सायकान् ।पाणीनरत्नीनसकृद्भल्लैश्चिच्छेद पाण्डवः ॥ ६ ॥
द्विपान्हयान्रथांश्चैव सारोहानर्जुनो रणे ।शरैरनेकसाहस्रै राजन्निन्ये यमक्षयम् ॥ ७ ॥
तं प्रवीरं प्रतीयाता नर्दमाना इवर्षभाः ।वाशितार्थमभिक्रुद्धा हुंकृत्वा चाभिदुद्रुवुः ।निघ्नन्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः ॥ ८ ॥
तस्य तेषां च तद्युद्धमभवल्लोमहर्षणम् ।त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ॥ ९ ॥
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः ।इषुभिर्बहुभिस्तूर्णं विद्ध्वा प्राणान्ररास सः ॥ १० ॥
छिन्नत्रिवेणुचक्राक्षान्हतयोधाश्वसारथीन् ।विध्वस्तायुधतूणीरान्समुन्मथितकेतनान् ॥ ११ ॥
संछिन्नयोक्त्ररश्मीकान्वित्रिवेणून्विकूबरान् ।विध्वस्तबन्धुरयुगान्विशस्तायुधमण्डलान् ।रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः ॥ १२ ॥
विस्मापयन्प्रेक्षणीयं द्विषातां भयवर्धनम् ।महारथसहस्रस्य समं कर्मार्जुनोऽकरोत् ॥ १३ ॥
सिद्धदेवर्षिसंघाश्च चारणाश्चैव तुष्टुवुः ।देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् ।केशवार्जुनयोर्मूर्ध्नि प्राह वाक्चाशरीरिणी ॥ १४ ॥
चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिबलद्युतीः ।यौ सदा बिभ्रतुर्वीरौ ताविमौ केशवार्जुनौ ॥ १५ ॥
ब्रह्मेशानाविवाजय्यौ वीरावेकरथे स्थितौ ।सर्वभूतवरौ वीरौ नरनारायणावुभौ ॥ १६ ॥
इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत ।अश्वत्थामा सुसंयत्तः कृष्णावभ्यद्रवद्रणे ॥ १७ ॥
अथ पाण्डवमस्यन्तं यमकालान्तकाञ्शरान् ।सेषुणा पाणिनाहूय हसन्द्रौणिरथाब्रवीत् ॥ १८ ॥
यदि मां मन्यसे वीर प्राप्तमर्हमिवातिथिम् ।ततः सर्वात्मनाद्य त्वं युद्धातिथ्यं प्रयच्छ मे ॥ १९ ॥
एवमाचार्यपुत्रेण समाहूतो युयुत्सया ।बहु मेनेऽर्जुनोऽऽत्मानमिदं चाह जनार्दनम् ॥ २० ॥
संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम् ।यदत्रानन्तरं प्राप्तं प्रशाधि त्वं महाभुज ॥ २१ ॥
एवमुक्तोऽवहत्पार्थं कृष्णो द्रोणात्मजान्तिकम् ।जैत्रेण विधिनाहूतं वायुरिन्द्रमिवाध्वरे ॥ २२ ॥
तमामन्त्र्यैकमनसा केशवो द्रौणिमब्रवीत् ।अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च ॥ २३ ॥
निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम् ।सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ ॥ २४ ॥
यां न संक्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम् ।तामाप्तुमिच्छन्युध्यस्व स्थिरो भूत्वाद्य पाण्डवम् ॥ २५ ॥
इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः ।विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः ॥ २६ ॥
तस्यार्जुनः सुसंक्रुद्धस्त्रिभिर्भल्लैः शरासनम् ।चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः ॥ २७ ॥
सज्यं कृत्वा निमेषात्तद्विव्याधार्जुनकेशवौ ।त्रिभिः शरैर्वासुदेवं सहस्रेण च पाण्डवम् ॥ २८ ॥
ततः शरसहस्राणि प्रयुतान्यर्बुदानि च ।ससृजे द्रौणिरायस्तः संस्तभ्य च रणेऽर्जुनम् ॥ २९ ॥
इषुधेर्धनुषो ज्याया अङ्गुलीभ्यश्च मारिष ।बाह्वोः कराभ्यामुरसो वदनघ्राणनेत्रतः ॥ ३० ॥
कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्त्मभ्य एव च ।रथध्वजेभ्यश्च शरा निष्पेतुर्ब्रह्मवादिनः ॥ ३१ ॥
शरजालेन महता विद्ध्वा केशवपाण्डवौ ।ननाद मुदितो द्रौणिर्महामेघौघनिस्वनः ॥ ३२ ॥
तस्य नानदतः श्रुत्वा पाण्डवोऽच्युतमब्रवीत् ।पश्य माधव दौरात्म्यं द्रोणपुत्रस्य मां प्रति ॥ ३३ ॥
वधप्राप्तौ मन्यते नौ प्रवेश्य शरवेश्मनि ।एषोऽस्य हन्मि संकल्पं शिक्षया च बलेन च ॥ ३४ ॥
अश्वत्थाम्नः शरानस्तांश्छित्त्वैकैकं त्रिधा त्रिधा ।व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः ॥ ३५ ॥
ततः संशप्तकान्भूयः साश्वसूतरथद्विपान् ।ध्वजपत्तिगणानुग्रैर्बाणैर्विव्याध पाण्डवः ॥ ३६ ॥
ये ये ददृशिरे तत्र यद्यद्रूपं यथा यथा ।ते ते तत्तच्छरैर्व्याप्तं मेनिरेऽऽत्मानमेव च ॥ ३७ ॥
ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः ।क्रोशे साग्रे स्थितान्घ्नन्ति द्विपांश्च पुरुषान्रणे ॥ ३८ ॥
भल्लैश्छिन्नाः कराः पेतुः करिणां मदकर्षिणाम् ।छिन्ना यथा परशुभिः प्रवृद्धाः शरदि द्रुमाः ॥ ३९ ॥
पश्चात्तु शैलवत्पेतुस्ते गजाः सह सादिभिः ।वज्रिवज्रप्रमथिता यथैवाद्रिचयास्तथा ॥ ४० ॥
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् ।विनीतजवनान्युक्तानास्थितान्युद्धदुर्मदान् ॥ ४१ ॥
शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत् ।अलंकृतानश्वसादीन्पत्तींश्चाहन्धनंजयः ॥ ४२ ॥
धनंजययुगान्तार्कः संशप्तकमहार्णवम् ।व्यशोषयत दुःशोषं तीव्रैः शरगभस्तिभिः ॥ ४३ ॥
पुनर्द्रौणिमहाशैलं नाराचैः सूर्यसंनिभैः ।निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम् ॥ ४४ ॥
तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः ।युयुत्सुर्नाशकद्योद्धुं पार्थस्तानन्तराच्छिनत् ॥ ४५ ॥
ततः परमसंक्रुद्धः काण्डकोशानवासृजत् ।अश्वत्थामाभिरूपाय गृहानतिथये यथा ॥ ४६ ॥
अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् ।अपाङ्क्तेयमिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम् ॥ ४७ ॥
ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः ।नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव ॥ ४८ ॥
संतापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः ।लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव ॥ ४९ ॥
ततोऽविध्यद्भ्रुवोर्मध्ये नाराचेनार्जुनो भृशम् ।स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः ॥ ५० ॥
अथ कृष्णौ शरशतैरश्वत्थाम्नार्दितौ भृशम् ।सरश्मिजालनिकरौ युगान्तार्काविवासतुः ॥ ५१ ॥
ततोऽर्जुनः सर्वतोधारमस्त्रमवासृजद्वासुदेवाभिगुप्तः ।द्रौणायनिं चाभ्यहनत्पृषत्कैर्वज्राग्निवैवस्वतदण्डकल्पैः ॥ ५२ ॥
स केशवं चार्जुनं चातितेजा विव्याध मर्मस्वतिरौद्रकर्मा ।बाणैः सुमुक्तैरतितीव्रवेगैर्यैराहतो मृत्युरपि व्यथेत ॥ ५३ ॥
द्रौणेरिषूनर्जुनः संनिवार्य व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः ।तं साश्वसूतध्वजमेकवीरमावृत्य संशप्तकसैन्यमार्छत् ॥ ५४ ॥
धनूंषि बाणानिषुधीर्धनुर्ज्याः पाणीन्भुजान्पाणिगतं च शस्त्रम् ।छत्राणि केतूंस्तुरगानथैषां वस्त्राणि माल्यान्यथ भूषणानि ॥ ५५ ॥
चर्माणि वर्माणि मनोरथांश्च प्रियाणि सर्वाणि शिरांसि चैव ।चिच्छेद पार्थो द्विषतां प्रमुक्तैर्बाणैः स्थितानामपराङ्मुखानाम् ॥ ५६ ॥
सुकल्पिताः स्यन्दनवाजिनागाः समास्थिताः कृतयत्नैर्नृवीरैः ।पार्थेरितैर्बाणगणैर्निरस्तास्तैरेव सार्धं नृवरैर्निपेतुः ॥ ५७ ॥
पद्मार्कपूर्णेन्दुसमाननानि किरीटमालामुकुटोत्कटानि ।भल्लार्धचन्द्रक्षुरहिंसितानि प्रपेतुरुर्व्यां नृशिरांस्यजस्रम् ॥ ५८ ॥
अथ द्विपैर्देवपतिद्विपाभैर्देवारिदर्पोल्बणमन्युदर्पैः ।कलिङ्गवङ्गाङ्गनिषादवीरा जिघांसवः पाण्डवमभ्यधावन् ॥ ५९ ॥
तेषां द्विपानां विचकर्त पार्थो वर्माणि मर्माणि करान्नियन्तॄन् ।ध्वजाः पताकाश्च ततः प्रपेतुर्वज्राहतानीव गिरेः शिरांसि ॥ ६० ॥
तेषु प्ररुग्णेषु गुरोस्तनूजं बाणैः किरीटी नवसूर्यवर्णैः ।प्रच्छादयामास महाभ्रजालैर्वायुः समुद्युक्तमिवांशुमन्तम् ॥ ६१ ॥
ततोऽर्जुनेषूनिषुभिर्निरस्य द्रौणिः शरैरर्जुनवासुदेवौ ।प्रच्छादयित्व दिवि चन्द्रसूर्यौ ननाद सोऽम्भोद इवातपान्ते ॥ ६२ ॥
तमर्जुनस्तांश्च पुनस्त्वदीयानभ्यर्दितस्तैरविकृत्तशस्त्रैः ।बाणान्धकारं सहसैव कृत्वा विव्याध सर्वानिषुभिः सुपुङ्खैः ॥ ६३ ॥
नाप्याददत्संदधन्नैव मुञ्चन्बाणान्रणेऽदृश्यत सव्यसाची ।हतांश्च नागांस्तुरगान्पदातीन्संस्यूतदेहान्ददृशू रथांश्च ॥ ६४ ॥
संधाय नाराचवरान्दशाशु द्रौणिस्त्वरन्नेकमिवोत्ससर्ज ।तेषां च पञ्चार्जुनमभ्यविध्यन्पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः ॥ ६५ ॥
तैराहतौ सर्वमनुष्यमुख्यावसृक्क्षरन्तौ धनदेन्द्रकल्पौ ।समाप्तविद्येन यथाभिभूतौ हतौ स्विदेतौ किमु मेनिरेऽन्ये ॥ ६६ ॥
अथार्जुनं प्राह दशार्हनाथः प्रमाद्यसे किं जहि योधमेतम् ।कुर्याद्धि दोषं समुपेक्षितोऽसौ कष्टो भवेद्व्याधिरिवाक्रियावान् ॥ ६७ ॥
तथेति चोक्त्वाच्युतमप्रमादी द्रौणिं प्रयत्नादिषुभिस्ततक्ष ।छित्त्वाश्वरश्मींस्तुरगानविध्यत्ते तं रणादूहुरतीव दूरम् ॥ ६८ ॥
आवृत्य नेयेष पुनस्तु युद्धं पार्थेन सार्धं मतिमान्विमृश्य ।जानञ्जयं नियतं वृष्णिवीरे धनंजये चाङ्गिरसां वरिष्ठः ॥ ६९ ॥
प्रतीपकाये तु रणादश्वत्थाम्नि हृते हयैः ।मन्त्रौषधिक्रियादानैर्व्याधौ देहादिवाहृते ॥ ७० ॥
संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ ।वातोद्धूतपताकेन स्यन्दनेनौघनादिना ॥ ७१ ॥
« »