Click on words to see what they mean.

धृतराष्ट्र उवाच ।संप्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम् ।निर्ह्रीका मम ते पुत्राः किमकुर्वत संजय ॥ १ ॥
कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम् ।शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः ॥ २ ॥
किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः ।कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः ॥ ३ ॥
कथं च मम पुत्राणां जीवतां तत्र संजय ।शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व तत्त्वतः ॥ ४ ॥
अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् ।एकस्य बहुभिर्युद्धं शत्रुभिर्वै महारथैः ॥ ५ ॥
विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति ।यत्रावध्यन्त समरे सात्वतेन महात्मना ॥ ६ ॥
एकस्य हि न पर्याप्तं मत्सैन्यं तस्य संजय ।क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः ॥ ७ ॥
निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम् ।यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम ॥ ८ ॥
कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे ।युयुधानो न शकितो हन्तुं यः पुरुषर्षभः ॥ ९ ॥
नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः ।यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः ॥ १० ॥
संजय उवाच ।तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च ।शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत ॥ ११ ॥
ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः ।परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् ॥ १२ ॥
त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः ।शकाः काम्बोजबाह्लीका यवनाः पारदास्तथा ॥ १३ ॥
कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः ।अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा ॥ १४ ॥
युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् ।शूराः पञ्चशता राजञ्शैनेयं समुपाद्रवन् ॥ १५ ॥
ततो रथसहस्रेण महारथशतेन च ।द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः ॥ १६ ॥
शरवर्षाणि मुञ्चन्तो विविधानि महारथाः ।अभ्यद्रवन्त शैनेयमसंख्येयाश्च पत्तयः ॥ १७ ॥
तांश्च संचोदयन्सर्वान्घ्नतैनमिति भारत ।दुःशासनो महाराज सात्यकिं पर्यवारयत् ॥ १८ ॥
तत्राद्भुतमपश्याम शैनेयचरितं महत् ।यदेको बहुभिः सार्धमसंभ्रान्तमयुध्यत ॥ १९ ॥
अवधीच्च रथानीकं द्विरदानां च तद्बलम् ।सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः ॥ २० ॥
तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः ।अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः ॥ २१ ॥
कूबरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः ।वर्मभिश्चामरैश्चैव व्यवकीर्णा वसुंधरा ॥ २२ ॥
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष ।संछन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत ॥ २३ ॥
गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः ।अञ्जनस्य कुले जाता वामनस्य च भारत ।सुप्रतीककुले जाता महापद्मकुले तथा ॥ २४ ॥
ऐरावणकुले चैव तथान्येषु कुलेषु च ।जाता दन्तिवरा राजञ्शेरते बहवो हताः ॥ २५ ॥
वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् ।तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः ॥ २६ ॥
नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः ।निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः ॥ २७ ॥
तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत् ।निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ २८ ॥
तांश्चापि सर्वान्संप्रेक्ष्य पुत्रो दुःशासनस्तव ।पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् ॥ २९ ॥
अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः ।अश्मयुद्धमजानन्तं घ्नतैनं युद्धकामुकम् ॥ ३० ॥
तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः ।अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः ॥ ३१ ॥
ततो गजशिशुप्रख्यैरुपलैः शैलवासिनः ।उद्यतैर्युयुधानस्य स्थिता मरणकाङ्क्षिणः ॥ ३२ ॥
क्षेपणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः ।चोदितास्तव पुत्रेण रुरुधुः सर्वतोदिशम् ॥ ३३ ॥
तेषामापततामेव शिलायुद्धं चिकीर्षताम् ।सात्यकिः प्रतिसंधाय त्रिंशतं प्राहिणोच्छरान् ॥ ३४ ॥
तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् ।बिभेदोरगसंकाशैर्नाराचैः शिनिपुंगवः ॥ ३५ ॥
तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः ।प्रायः सैन्यान्यवध्यन्त हाहाभूतानि मारिष ॥ ३६ ॥
ततः पञ्चशताः शूराः समुद्यतमहाशिलाः ।निकृत्तबाहवो राजन्निपेतुर्धरणीतले ॥ ३७ ॥
पाषाणयोधिनः शूरान्यतमानानवस्थितान् ।अवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् ॥ ३८ ॥
ततः पुनर्बस्तमुखैरश्मवृष्टिं समन्ततः ।अयोहस्तैः शूलहस्तैर्दरदैः खशतङ्गणैः ॥ ३९ ॥
अम्बष्ठैश्च कुणिन्दैश्च क्षिप्तां क्षिप्तां स सात्यकिः ।नाराचैः प्रतिविव्याध प्रेक्षमाणो महाबलः ॥ ४० ॥
अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः ।शब्देन प्राद्रवन्राजन्गजाश्वरथपत्तयः ॥ ४१ ॥
अश्मचूर्णैः समाकीर्णा मनुष्याश्च वयांसि च ।नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः ॥ ४२ ॥
हतशिष्टा विरुधिरा भिन्नमस्तकपिण्डिकाः ।कुञ्जराः संन्यवर्तन्त युयुधानरथं प्रथि ॥ ४३ ॥
ततः शब्दः समभवत्तव सैन्यस्य मारिष ।माधवेनार्द्यमानस्य सागरस्येव दारुणः ॥ ४४ ॥
तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत् ।एष सूत रणे क्रुद्धः सात्वतानां महारथः ॥ ४५ ॥
दारयन्बहुधा सैन्यं रणे चरति कालवत् ।यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय ॥ ४६ ॥
पाषाणयोधिभिर्नूनं युयुधानः समागतः ।तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः ॥ ४७ ॥
विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च ।न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् ॥ ४८ ॥
इत्येवं ब्रुवतो राजन्भारद्वाजस्य धीमतः ।प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् ॥ ४९ ॥
आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः ।पश्य योधान्रणे भिन्नान्धावमानांस्ततस्ततः ॥ ५० ॥
एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह ।त्वामेव हि जिघांसन्तः प्राद्रवन्ति समन्ततः ॥ ५१ ॥
अत्र कार्यं समाधत्स्व प्राप्तकालमरिंदम ।स्थाने वा गमने वापि दूरं यातश्च सात्यकिः ॥ ५२ ॥
तथैवं वदतस्तस्य भारद्वाजस्य मारिष ।प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान् ॥ ५३ ॥
ते वध्यमानाः समरे युयुधानेन तावकाः ।युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः ॥ ५४ ॥
यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत ।ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति ॥ ५५ ॥
« »