Click on words to see what they mean.

संजय उवाच ।ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुंगवः ।सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत् ॥ १ ॥
रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम् ।खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् ॥ २ ॥
प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम् ।योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम् ॥ ३ ॥
तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् ।जलसंधबलेनाजौ पुरुषादैरिवावृतम् ॥ ४ ॥
अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव ।तर्तव्यामल्पसलिलां चोदयाश्वानसंभ्रमम् ॥ ५ ॥
हस्तप्राप्तमहं मन्ये सांप्रतं सव्यसाचिनम् ।निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे ॥ ६ ॥
हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनंजयम् ।न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः ।वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् ॥ ७ ॥
पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना ।पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् ॥ ८ ॥
अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् ।स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः ॥ ९ ॥
यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै ।अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः ॥ १० ॥
शनैर्विश्रम्भयन्नश्वान्याहि यत्तोऽरिवाहिनीम् ।यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः ॥ ११ ॥
दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः ।शरबाणासनधरा यवनाश्च प्रहारिणः ॥ १२ ॥
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः ।अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ।मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः ॥ १३ ॥
एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः ।इदं दुर्गं महाघोरं तीर्णमेवोपधारय ॥ १४ ॥
सूत उवाच ।न संभ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम ।यद्यपि स्यात्सुसंक्रुद्धो जामदग्न्योऽग्रतः स्थितः ॥ १५ ॥
द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा ।तथापि संभ्रमो न स्यात्त्वामाश्रित्य महाभुज ॥ १६ ॥
त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन ।न च मे संभ्रमः कश्चिद्भूतपूर्वः कदाचन ।किमु चैतत्समासाद्य वीर संयुगगोष्पदम् ॥ १७ ॥
आयुष्मन्कतरेण त्वा प्रापयामि धनंजयम् ।केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः ।केषां संयमनीमद्य गन्तुमुत्सहते मनः ॥ १८ ॥
के त्वां युधि पराक्रान्तं कालान्तकयमोपमम् ।दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे ।केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज ॥ १९ ॥
सात्यकिरुवाच ।मुण्डानेतान्हनिष्यामि दानवानिव वासवः ।प्रतिज्ञां पारयिष्यामि काम्बोजानेव मा वह ।अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् ॥ २० ॥
अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः ।मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् ॥ २१ ॥
अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे ।श्रुत्वा विरावं बहुधा संतप्स्यति सुयोधनः ॥ २२ ॥
अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः ।आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे ॥ २३ ॥
अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः ।दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति ॥ २४ ॥
अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् ।अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः ॥ २५ ॥
मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु ।सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयोधनः ॥ २६ ॥
अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् ।द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः ॥ २७ ॥
अद्य राजसहस्राणि निहतानि मया रणे ।दृष्ट्वा दुर्योधनो राजा संतप्स्यति महामृधे ॥ २८ ॥
अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु ।हत्वा राजसहस्राणि दर्शयिष्यामि राजसु ॥ २९ ॥
संजय उवाच ।एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः ।शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भृशम् ॥ ३० ॥
ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः ।प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः ॥ ३१ ॥
सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् ।बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् ॥ ३२ ॥
तेषामिषूनथास्त्राणि वेगवन्नतपर्वभिः ।अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः ॥ ३३ ॥
रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः ।उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि ॥ ३४ ॥
शैक्यायसानि वर्माणि कांस्यानि च समन्ततः ।भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् ॥ ३५ ॥
ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे ।शतशो न्यपतंस्तत्र व्यसवो वसुधातले ॥ ३६ ॥
सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः ।पञ्च षट्सप्त चाष्टौ च बिभेद यवनाञ्शरैः ॥ ३७ ॥
काम्बोजानां सहस्रैस्तु शकानां च विशां पते ।शबराणां किरातानां बर्बराणां तथैव च ॥ ३८ ॥
अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् ।कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् ॥ ३९ ॥
दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः ।तत्र तत्र मही कीर्णा विबर्हैरण्डजैरिव ॥ ४० ॥
रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ ।कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् ॥ ४१ ॥
वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः ।ते साश्वयाना निहताः समावव्रुर्वसुंधराम् ॥ ४२ ॥
अल्पावशिष्टाः संभग्नाः कृच्छ्रप्राणा विचेतसः ।जिताः संख्ये महाराज युयुधानेन दंशिताः ॥ ४३ ॥
पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरंगमान् ।जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् ॥ ४४ ॥
काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत ।यवनानां च तत्सैन्यं शकानां च महद्बलम् ॥ ४५ ॥
स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः ।प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् ॥ ४६ ॥
तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशां पते ।चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाप्यपूजयन् ॥ ४७ ॥
« »