Click on words to see what they mean.

संजय उवाच ।आत्मापराधात्संभूतं व्यसनं भरतर्षभ ।प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि ॥ १ ॥
तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च ।द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् ।आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम ॥ २ ॥
सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः ।वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् ॥ ३ ॥
आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः ।न हि ते सुकृतं किंचिदादौ मध्ये च भारत ।दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः ॥ ४ ॥
तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् ।शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् ॥ ५ ॥
प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे ।भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव ॥ ६ ॥
आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् ।दधारैको रणे पाण्डून्कृतवर्मा महारथः ॥ ७ ॥
यथोद्वृत्तं धारयते वेला वै सलिलार्णवम् ।पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत् ॥ ८ ॥
तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम् ।यदेनं सहिताः पार्था नातिचक्रमुराहवे ॥ ९ ॥
ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः ।शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् ॥ १० ॥
सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः ।शतेन नकुलश्चापि हार्दिक्यं समविध्यत ॥ ११ ॥
द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः ।धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् ।विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः ॥ १२ ॥
शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः ।पुनर्विव्याध विंशत्या सायकानां हसन्निव ॥ १३ ॥
कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् ।एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः ।धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत् ॥ १४ ॥
अथैनं छिन्नधन्वानं त्वरमाणो महारथः ।आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः ॥ १५ ॥
स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः ।चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः ॥ १६ ॥
भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः ।विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन् ॥ १७ ॥
तं तथा कोष्ठकीकृत्य रथवंशेन मारिष ।विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे ॥ १८ ॥
प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः ।शक्तिं जग्राह समरे हेमदण्डामयस्मयीम् ।चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति ॥ १९ ॥
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा ।कृतवर्माणमभितः प्रजज्वाल सुदारुणा ॥ २० ॥
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम् ।द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा ॥ २१ ॥
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा ।द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता ।शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् ॥ २२ ॥
ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम् ।भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् ॥ २३ ॥
अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे ।भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह ॥ २४ ॥
भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष ।रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे ॥ २५ ॥
ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव ।अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत ॥ २६ ॥
त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् ।तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः ॥ २७ ॥
शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः ।धनुश्चिच्छेद समरे प्रहसन्निव भारत ॥ २८ ॥
शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम् ।असिं जग्राह समरे शतचन्द्रं च भास्वरम् ॥ २९ ॥
भ्रामयित्वा महाचर्म चामीकरविभूषितम् ।तमसिं प्रेषयामास कृतवर्मरथं प्रति ॥ ३० ॥
स तस्य सशरं चापं छित्त्वा संख्ये महानसिः ।अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् ॥ ३१ ॥
एतस्मिन्नेव काले तु त्वरमाणा महारथाः ।विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे ॥ ३२ ॥
अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः ।विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ॥ ३३ ॥
विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः ।शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ॥ ३४ ॥
धनुरन्यत्समादाय शिखण्डी तु महायशाः ।अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् ॥ ३५ ॥
ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसंभवः ।अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ॥ ३६ ॥
भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः ।विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् ॥ ३७ ॥
तौ दिशागजसंकाशौ ज्वलिताविव पावकौ ।समासेदतुरन्योन्यं शरसंघैररिंदमौ ॥ ३८ ॥
विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान् ।विसृजन्तौ च शतशो गभस्तीनिव भास्करौ ॥ ३९ ॥
तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ ।युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ॥ ४० ॥
कृतवर्मा तु रभसं याज्ञसेनिं महारथम् ।विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः ॥ ४१ ॥
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः ॥ ४२ ॥
तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ ।हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह ॥ ४३ ॥
शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् ।अपोवाह रणाद्यन्ता त्वरमाणो महारथम् ॥ ४४ ॥
सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् ।परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे ॥ ४५ ॥
तत्राद्भुतं परं चक्रे कृतवर्मा महारथः ।यदेकः समरे पार्थान्वारयामास सानुगान् ॥ ४६ ॥
पार्थाञ्जित्वाजयच्चेदीन्पाञ्चालान्सृञ्जयानपि ।केकयांश्च महावीर्यान्कृतवर्मा महारथः ॥ ४७ ॥
ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः ।इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे ॥ ४८ ॥
जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान् ।हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः ॥ ४९ ॥
ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः ।विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः ॥ ५० ॥
« »