Click on words to see what they mean.

संजय उवाच ।प्रयाते तव सैन्यं तु युयुधाने युयुत्सया ।धर्मराजो महाराज स्वेनानीकेन संवृतः ।प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः ॥ १ ॥
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः ।प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः ॥ २ ॥
आगच्छत प्रहरत द्रुतं विपरिधावत ।यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः ॥ ३ ॥
महारथा हि बहवो यतिष्यन्त्यस्य निर्जये ।इति ब्रुवन्तो वेगेन समापेतुर्बलं तव ॥ ४ ॥
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः ।ततः शब्दो महानासीद्युयुधानरथं प्रति ॥ ५ ॥
प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी ।सात्वतेन महाराज शतधाभिव्यदीर्यत ॥ ६ ॥
तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः ।सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत् ॥ ७ ॥
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना ।आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम् ॥ ८ ॥
रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष ।चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः ॥ ९ ॥
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः ।बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते ॥ १० ॥
हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः ।ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम ॥ ११ ॥
शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः ।पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ॥ १२ ॥
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः ।रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः ॥ १३ ॥
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः ।उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरंगमाः ।गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना ॥ १४ ॥
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः ।प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् ॥ १५ ॥
ततस्तेनैव मार्गेण येन यातो धनंजयः ।इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः ॥ १६ ॥
भरद्वाजं समासाद्य युयुधानस्तु मारिष ।नाभ्यवर्तत संक्रुद्धो वेलामिव जलाशयः ॥ १७ ॥
निवार्य तु रणे द्रोणो युयुधानं महारथम् ।विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः ॥ १८ ॥
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः ।हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ॥ १९ ॥
तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् ।स तं न ममृषे द्रोणं युयुधानो महारथः ॥ २० ॥
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः ।दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च ॥ २१ ॥
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः ।एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् ।ध्वजमेकेन बाणेन विव्याध युधि मारिष ॥ २२ ॥
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः ।त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः ॥ २३ ॥
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः ।प्राच्छादयदसंभ्रान्तस्ततो द्रोण उवाच ह ॥ २४ ॥
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा ।युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत ॥ २५ ॥
त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव ।यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ॥ २६ ॥
सात्यकिरुवाच ।धनंजयस्य पदवीं धर्मराजस्य शासनात् ।गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् ॥ २७ ॥
संजय उवाच ।एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् ।प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् ॥ २८ ॥
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे ।यत्तो याहि रणे सूत शृणु चेदं वचः परम् ॥ २९ ॥
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् ।अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम् ॥ ३० ॥
तदनन्तरमेतच्च बाह्लिकानां बलं महत् ।बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम् ॥ ३१ ॥
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे ।अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् ॥ ३२ ॥
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् ।मध्यमं जवमास्थाय वह मामत्र सारथे ॥ ३३ ॥
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः ।दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः ॥ ३४ ॥
हस्त्यश्वरथसंबाधं यच्चानीकं विलोक्यते ।नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् ॥ ३५ ॥
एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन् ।स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम् ॥ ३६ ॥
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् ।युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम् ॥ ३७ ॥
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः ।प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः ॥ ३८ ॥
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च ।अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् ॥ ३९ ॥
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः ।चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् ॥ ४० ॥
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः ।सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे ॥ ४१ ॥
स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः ।सात्वतेन महाराज कृतवर्मा न चक्षमे ॥ ४२ ॥
स वत्सदन्तं संधाय जिह्मगानलसंनिभम् ।आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् ॥ ४३ ॥
स तस्य देहावरणं भित्त्वा देहं च सायकः ।सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः ॥ ४४ ॥
अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् ।समार्गणगुणं राजन्कृतवर्मा शरासनम् ॥ ४५ ॥
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् ।दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे ॥ ४६ ॥
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः ।अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः ॥ ४७ ॥
ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः ।व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः ॥ ४८ ॥
सरथं कृतवर्माणं समन्तात्पर्यवाकिरत् ।छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः ॥ ४९ ॥
अथास्य भल्लेन शिरः सारथेः समकृन्तत ।स पपात हतः सूतो हार्दिक्यस्य महारथात् ।ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम् ॥ ५० ॥
अथ भोजस्त्वसंभ्रान्तो निगृह्य तुरगान्स्वयम् ।तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् ॥ ५१ ॥
स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत् ।व्यपेतभीरमित्राणामावहत्सुमहद्भयम् ।सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत् ॥ ५२ ॥
युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः ।प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम् ॥ ५३ ॥
स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः ।न चचाल तदा राजन्सात्यकिः सत्यविक्रमः ॥ ५४ ॥
संधाय च चमूं द्रोणो भोजे भारं निवेश्य च ।अन्वधावद्रणे यत्तो युयुधानं युयुत्सया ॥ ५५ ॥
तथा तमनुधावन्तं युयुधानस्य पृष्ठतः ।न्यवारयन्त संक्रुद्धाः पाण्डुसैन्ये बृहत्तमाः ॥ ५६ ॥
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् ।पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः ।विक्रम्य वारिता राजन्वीरेण कृतवर्मणा ॥ ५७ ॥
यतमानांस्तु तान्सर्वानीषद्विगतचेतसः ।अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत् ॥ ५८ ॥
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे ।अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः ॥ ५९ ॥
« »