Click on words to see what they mean.

संजय उवाच ।बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम् ।क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः ॥ १ ॥
बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् ।आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया ॥ २ ॥
क्षेमधूर्तिस्तु संक्रुद्धः केकयस्य महात्मनः ।धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥ ३ ॥
अथैनं छिन्नधन्वानं शरेण नतपर्वणा ।विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम् ॥ ४ ॥
अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव ।व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम् ॥ ५ ॥
ततोऽपरेण भल्लेन पीतेन निशितेन च ।जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम् ॥ ६ ॥
तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् ।सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् ॥ ७ ॥
तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः ।सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात् ॥ ८ ॥
धृष्टकेतुमथायान्तं द्रोणहेतोः पराक्रमी ।वीरधन्वा महेष्वासो वारयामास भारत ॥ ९ ॥
तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ ।शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः ॥ १० ॥
तावुभौ नरशार्दूलौ युयुधाते परस्परम् ।महावने तीव्रमदौ वारणाविव यूथपौ ॥ ११ ॥
गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ ।युयुधाते महावीर्यौ परस्परजिघांसया ॥ १२ ॥
तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशां पते ।सिद्धचारणसंघानां विस्मयाद्भुतदर्शनम् ॥ १३ ॥
वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् ।द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत ॥ १४ ॥
तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः ।शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम् ॥ १५ ॥
तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत ।चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति ॥ १६ ॥
स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम् ।निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् ॥ १७ ॥
तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे ।बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः ॥ १८ ॥
सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत् ।ननाद च महानादं तर्जयन्पाण्डवं रणे ॥ १९ ॥
मद्रेयस्तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः ।भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव ॥ २० ॥
तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् ।दुर्मुखो नवभिर्बाणैस्ताडयामास भारत ॥ २१ ॥
दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः ।जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ २२ ॥
अथापरेण भल्लेन पीतेन निशितेन च ।चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम् ॥ २३ ॥
क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः ।सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः ॥ २४ ॥
हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा ।आरुरोह रथं राजन्निरमित्रस्य भारत ॥ २५ ॥
सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे ।जघान पृतनामध्ये भल्लेन परवीरहा ॥ २६ ॥
स पपात रथोपस्थान्निरमित्रो जनेश्वरः ।त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् ॥ २७ ॥
तं तु हत्वा महाबाहुः सहदेवो व्यरोचत ।यथा दाशरथी रामः खरं हत्वा महाबलम् ॥ २८ ॥
हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर ।राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम् ॥ २९ ॥
नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् ।मुहूर्ताज्जितवान्संख्ये तदद्भुतमिवाभवत् ॥ ३० ॥
सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः ।चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे ॥ ३१ ॥
तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत् ।साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् ॥ ३२ ॥
कुमारे निहते तस्मिन्मगधस्य सुते प्रभो ।मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् ॥ ३३ ॥
विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः ।भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि ॥ ३४ ॥
अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम् ।तांस्तु सर्वान्स बलवान्सात्यक्तिर्युद्धदुर्मदः ।नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ ॥ ३५ ॥
मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः ।बलं तेऽभज्यत विभो युयुधानशरार्दितम् ॥ ३६ ॥
नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः ।विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः ॥ ३७ ॥
भज्यमानं बलं राजन्सात्वतेन महात्मना ।नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना ॥ ३८ ॥
ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी ।सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे ॥ ३९ ॥
« »