Click on words to see what they mean.

धृतराष्ट्र उवाच ।अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः ।पाञ्चालाः कुरुभिः सार्धं किमकुर्वत संजय ॥ १ ॥
संजय उवाच ।अपराह्णे महाराज संग्रामे लोमहर्षणे ।पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत ॥ २ ॥
पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः ।अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष ॥ ३ ॥
ततः सुतुमुलस्तेषां संग्रामोऽवर्तताद्भुतः ।पाञ्चालानां कुरूणां च घोरो देवासुरोपमः ॥ ४ ॥
सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैः सह ।तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ॥ ५ ॥
द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः ।कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् ॥ ६ ॥
तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः ।प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान् ॥ ७ ॥
तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः ।विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः ॥ ८ ॥
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम् ॥ ९ ॥
तमापतन्तं सहसा व्यादितास्यमिवान्तकम् ।वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ॥ १० ॥
युधिष्ठिरं महाराज जिगीषुं समवस्थितम् ।सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् ॥ ११ ॥
नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी ।अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो ॥ १२ ॥
सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः ।शरैरनेकसाहस्रैः समवाकिरदाशुगैः ॥ १३ ॥
सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् ।शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः ॥ १४ ॥
द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् ।संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत् ॥ १५ ॥
भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम् ।प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः ॥ १६ ॥
तयोः समभवद्युद्धं नरराक्षसयोर्मृधे ।यादृगेव पुरा वृत्तं रामरावणयोर्नृप ॥ १७ ॥
ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् ।आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत ॥ १८ ॥
तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे ।रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ॥ १९ ॥
भूय एव तु विंशत्या सायकानां समाचिनोत् ।साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ॥ २० ॥
ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः ।अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् ॥ २१ ॥
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे ।चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः ॥ २२ ॥
अथैनं छिन्नधन्वानं त्वरमाणो महारथः ।शरैरनेकसाहस्रैः पुरयामास सर्वतः ॥ २३ ॥
अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः ।सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ॥ २४ ॥
केचिच्चैनममन्यन्त तथा वै विमुखीकृतम् ।हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना ॥ २५ ॥
स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः ।त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे ।आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् ॥ २६ ॥
ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः ।चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ॥ २७ ॥
छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः ।शक्तिं जग्राह समरे गिरीणामपि दारणीम् ।स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ॥ २८ ॥
समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली ।नादेन सर्वभूतानि त्रासयन्निव भारत ॥ २९ ॥
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे ।स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ॥ ३० ॥
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा ।प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा ।द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ॥ ३१ ॥
तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते ।प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः ॥ ३२ ॥
तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् ।जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ॥ ३३ ॥
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् ।अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत ॥ ३४ ॥
विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः ।क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः ॥ ३५ ॥
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः ।गदां चिक्षेप सहसा धर्मपुत्राय मारिष ॥ ३६ ॥
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः ।गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परंतपः ॥ ३७ ॥
ते गदे सहसा मुक्ते समासाद्य परस्परम् ।संघर्षात्पावकं मुक्त्वा समेयातां महीतले ॥ ३८ ॥
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष ।चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः ॥ ३९ ॥
धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम् ।केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः ॥ ४० ॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः ।तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ ॥ ४१ ॥
विरथं तं समालोक्य व्यायुधं च विशेषतः ।द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो ॥ ४२ ॥
मुञ्चन्निषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः ।अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः ॥ ४३ ॥
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना ।हा हेति सहसा शब्दः पाण्डूनां समजायत ॥ ४४ ॥
हृतो राजा हृतो राजा भारद्वाजेन मारिष ।इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः ॥ ४५ ॥
ततस्त्वरितमारुह्य सहदेवरथं नृपः ।अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ॥ ४६ ॥
« »