Click on words to see what they mean.

धृतराष्ट्र उवाच ।ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया ।पार्थानां मामकानां च तान्ममाचक्ष्व संजय ॥ १ ॥
संजय उवाच ।ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् ।रूपतो वर्णतश्चैव नामतश्च निबोध मे ॥ २ ॥
तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः ।प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ॥ ३ ॥
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलंकृताः ।काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ॥ ४ ॥
ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः ।नानावर्णविरागाभिर्विबभुः सर्वतो वृताः ॥ ५ ॥
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः ।नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः ॥ ६ ॥
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ ।दोधूयमाना रथिनां शोभयन्ति महारथान् ॥ ७ ॥
सिंहलाङ्गूलमुग्रास्यं धजं वानरलक्षणम् ।धनंजयस्य संग्रामे प्रत्यपश्याम भैरवम् ॥ ८ ॥
स वानरवरो राजन्पताकाभिरलंकृतः ।त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ॥ ९ ॥
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत ।ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् ॥ १० ॥
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् ।नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम् ॥ ११ ॥
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे ।आहवे खं महाराज ददृशे पूरयन्निव ॥ १२ ॥
पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे ।नृत्यतीव रथोपस्थे श्वसनेन समीरितः ॥ १३ ॥
आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः ।गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः ॥ १४ ॥
स तेन भ्राजते राजन्गोवृषेण महारथः ।त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते ॥ १५ ॥
मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् ।व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभयन् ॥ १६ ॥
तेन तस्य रथो भाति मयूरेण महात्मनः ।यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता ॥ १७ ॥
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव ।सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ॥ १८ ॥
सा सीता भ्राजते तस्य रथमास्थाय मारिष ।सर्वबीजविरूढेव यथा सीता श्रिया वृता ॥ १९ ॥
वराहः सिन्धुराजस्य राजतोऽभिविराजते ।ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः ॥ २० ॥
शुशुभे केतुना तेन राजतेन जयद्रथः ।यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ॥ २१ ॥
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः ।ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ॥ २२ ॥
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते ।राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ॥ २३ ॥
शलस्य तु महाराज राजतो द्विरदो महान् ।केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः ॥ २४ ॥
स केतुः शोभयामास सैन्यं ते भरतर्षभ ।यथा श्वेतो महानागो देवराजचमूं तथा ॥ २५ ॥
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः ।किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे ॥ २६ ॥
व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते ।ध्वजेन महता संख्ये कुरूणामृषभस्तदा ॥ २७ ॥
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः ।व्यदीपयंस्ते पृतनां युगान्तादित्यसंनिभाः ॥ २८ ॥
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः ।अदीप्यतार्जुनो येन हिमवानिव वह्निना ॥ २९ ॥
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः ।कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परंतपाः ॥ ३० ॥
तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः ।गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ॥ ३१ ॥
तवापराधाद्धि नरा निहता बहुधा युधि ।नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः ॥ ३२ ॥
तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम् ।दुर्योधनमुखानां च पाण्डूनामृषभस्य च ॥ ३३ ॥
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः ।यदेको बहुभिः सार्धं समागच्छदभीतवत् ॥ ३४ ॥
अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः ।जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जयद्रथम् ॥ ३५ ॥
तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः ।अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः ॥ ३६ ॥
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः ।अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ॥ ३७ ॥
संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने ।महानासीत्समुद्धूतस्तस्य सैन्यस्य निस्वनः ॥ ३८ ॥
« »