Click on words to see what they mean.

संजय उवाच ।तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ ।प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान् ॥ १ ॥
सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः ।दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ॥ २ ॥
रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते ।कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव ॥ ३ ॥
भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः ।कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः ॥ ४ ॥
ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः ।व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः ॥ ५ ॥
ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः ।समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः ॥ ६ ॥
कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् ।व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ॥ ७ ॥
आजानेयैर्महावेगैर्नानादेशसमुत्थितैः ।पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ॥ ८ ॥
कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः ।धनंजयरथं शीघ्रं सर्वतः समुपाद्रवन् ॥ ९ ॥
ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः ।पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् ॥ १० ॥
तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ ।प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि ।देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः ॥ ११ ॥
शब्दस्तु देवदत्तस्य धनंजयसमीरितः ।पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् ॥ १२ ॥
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः ।सर्वशब्दानतिक्रम्य पूरयामास रोदसी ॥ १३ ॥
तस्मिंस्तथा वर्तमाने दारुणे नादसंकुले ।भीरूणां त्रासजनने शूराणां हर्षवर्धने ॥ १४ ॥
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च ।मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः ॥ १५ ॥
महारथसमाख्याता दुर्योधनहितैषिणः ।अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः ।नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः ॥ १६ ॥
अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः ।कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ॥ १७ ॥
बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम् ।उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो ॥ १८ ॥
तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम् ।बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् ॥ १९ ॥
स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत् ।त्रासयामास तत्सैन्यं युगान्त इव संभृतः ॥ २० ॥
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः ।जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ॥ २१ ॥
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत् ।अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः ॥ २२ ॥
तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत् ।अत्यर्थमिव संक्रुद्धः प्रतिविद्धे जनार्दने ॥ २३ ॥
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा ।शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ॥ २४ ॥
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् ।भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥ २५ ॥
कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः ।जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः ।मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे ॥ २६ ॥
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् ।वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः ॥ २७ ॥
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः ।प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् ॥ २८ ॥
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः ।शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत ॥ २९ ॥
सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः ।शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ॥ ३० ॥
गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह ।पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् ॥ ३१ ॥
भूरिश्रवास्तु संक्रुद्धः प्रतोदं चिच्छिदे हरेः ।अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ॥ ३२ ॥
ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः ।प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ॥ ३३ ॥
« »