Click on words to see what they mean.

संजय उवाच ।सलिले जनिते तस्मिन्कौन्तेयेन महात्मना ।निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥ १ ॥
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः ।मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः ॥ २ ॥
अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत् ।सिद्धचारणसंघानां सैनिकानां च सर्वशः ॥ ३ ॥
पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः ।नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ॥ ४ ॥
आपतत्सु रथौघेषु प्रभूतगजवाजिषु ।नासंभ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥ ५ ॥
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः ।न चाव्यथत धर्मात्मा वासविः परवीरहा ॥ ६ ॥
स तानि शरजालानि गदाः प्रासांश्च वीर्यवान् ।आगतानग्रसत्पार्थः सरितः सागरो यथा ॥ ७ ॥
अस्त्रवेगेन महता पार्थो बाहुबलेन च ।सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ॥ ८ ॥
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः ।अपूजयन्महाराज कौरवाः परमाद्भुतम् ॥ ९ ॥
किमद्भुततरं लोके भविताप्यथ वाप्यभूत् ।यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे ॥ १० ॥
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ ।तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि ॥ ११ ॥
अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत ।अर्जुनेन कृते संख्ये शरगर्भगृहे तदा ॥ १२ ॥
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः ।मिषतां सर्वसैन्यानां त्वदीयानां विशां पते ॥ १३ ॥
तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान् ।सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ॥ १४ ॥
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् ।उपावृत्य यथान्यायं पाययामास वारि सः ॥ १५ ॥
स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् ।योजयामास संहृष्टः पुनरेव रथोत्तमे ॥ १६ ॥
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः ।समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥ १७ ॥
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः ।दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥ १८ ॥
विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः ।धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ॥ १९ ॥
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ ।बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥ २० ॥
क्रोशतां यतमानानामसंसक्तौ परंतपौ ।दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु ॥ २१ ॥
तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन् ।त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥ २२ ॥
रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् ।जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥ २३ ॥
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः ।अदृष्टपूर्वं संग्रामे तद्दृष्ट्वा महदद्भुतम् ॥ २४ ॥
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः ।दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ॥ २५ ॥
विलयं समनुप्राप्ता तच्च राजा न बुध्यते ।इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ॥ २६ ॥
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् ।तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥ २७ ॥
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति ।निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥ २८ ॥
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् ।नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ॥ २९ ॥
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः ।यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ॥ ३० ॥
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् ।बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् ॥ ३१ ॥
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः ।तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः ॥ ३२ ॥
वातोद्धूतपताकान्तं रथं जलदनिस्वनम् ।घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥ ३३ ॥
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् ।शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् ॥ ३४ ॥
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनंजयम् ।क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥ ३५ ॥
अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम् ।दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे ॥ ३६ ॥
« »