Click on words to see what they mean.

संजय उवाच ।संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः ।द्रुतं समनुयातश्च द्रोणेन रथिनां वरः ॥ १ ॥
किरन्निषुगणांस्तीक्ष्णान्स्वरश्मीनिव भास्करः ।तापयामास तत्सैन्यं देहं व्याधिगणो यथा ॥ २ ॥
अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः ।छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः ॥ ३ ॥
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः ।इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किंचन ॥ ४ ॥
तेषामायच्छतां संख्ये परस्परमजिह्मगैः ।अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् ॥ ५ ॥
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसंगरः ।अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः ॥ ६ ॥
तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः ।अन्तेवासिनमाचार्यो महेष्वासं समर्दयत् ॥ ७ ॥
तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः ।अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ॥ ८ ॥
तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः ।प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् ॥ ९ ॥
तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि ।यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ॥ १० ॥
क्षरन्निव महामेघो वारिधाराः सहस्रशः ।द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ॥ ११ ॥
अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष ।प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन् ॥ १२ ॥
द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् ।वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः ॥ १३ ॥
पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् ।विसृजन्तं शितान्बाणानवारयत तं युधि ॥ १४ ॥
अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ ।आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ॥ १५ ॥
वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान् ।किरीटमाली कौन्तेयो भोजानीकं न्यपातयत् ॥ १६ ॥
सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम् ।अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् ॥ १७ ॥
ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम ।अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ॥ १८ ॥
तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा ।पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् ॥ १९ ॥
भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् ।एकैकं पञ्चविंशत्या सायकानां समार्पयत् ॥ २० ॥
तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः ।शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः ॥ २१ ॥
अथान्यद्धनुरादाय कृतवर्मा महारथः ।पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत ॥ २२ ॥
पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः ।तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे ॥ २३ ॥
विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति ।चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् ॥ २४ ॥
ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम् ।कुरुसांबन्धिकं कृत्वा प्रमथ्यैनं विशातय ॥ २५ ॥
ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः ।अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम् ॥ २६ ॥
अमर्षितस्तु हार्दिख्यः प्रविष्टे श्वेतवाहने ।विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः ॥ २७ ॥
चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ ।पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः ॥ २८ ॥
तावविध्यत्ततो भोजः सर्वपारशवैः शरैः ।त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ॥ २९ ॥
तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः ।संचिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च ॥ ३० ॥
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः ।कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् ॥ ३१ ॥
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः ।तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् ॥ ३२ ॥
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा ।धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ ॥ ३३ ॥
अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः ।नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः ॥ ३४ ॥
तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः ।अभ्यद्रवत्सुसंक्रुद्धो विधुन्वानो महद्धनुः ॥ ३५ ॥
स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम् ।क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् ॥ ३६ ॥
तमर्जुनो नवत्या तु शराणां नतपर्वणाम् ।आजघान भृशं क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥ ३७ ॥
स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम् ।अथैनं सप्तसप्तत्या नाराचानां समार्पयत् ॥ ३८ ॥
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च ।आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः ॥ ३९ ॥
अथान्यद्धनुरादाय स राजा क्रोधमूर्छितः ।वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ ४० ॥
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिंदमः ।शरैरनेकसाहस्रैः पीडयामास भारत ॥ ४१ ॥
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः ।विव्याध चैनं सप्तत्या नाराचानां महाबलः ॥ ४२ ॥
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः ।अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् ॥ ४३ ॥
वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः ।पर्णाशा जननी यस्य शीततोया महानदी ॥ ४४ ॥
तस्य माताब्रवीद्वाक्यं वरुणं पुत्रकारणात् ।अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम ॥ ४५ ॥
वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम् ।दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति ॥ ४६ ॥
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथंचन ।सर्वेणावश्यमर्तव्यं जातेन सरितां वरे ॥ ४७ ॥
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा ।अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः ॥ ४८ ॥
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् ।यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः ॥ ४९ ॥
उवाच चैनं भगवान्पुनरेव जलेश्वरः ।अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति ॥ ५० ॥
स तया वीरघातिन्या जनार्दनमताडयत् ।प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् ॥ ५१ ॥
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः ।प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता ॥ ५२ ॥
जघान चास्थितं वीरं श्रुतायुधममर्षणम् ।हत्वा श्रुतायुधं वीरं जगतीमन्वपद्यत ॥ ५३ ॥
हाहाकारो महांस्तत्र सैन्यानां समजायत ।स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम् ॥ ५४ ॥
अयुध्यमानाय हि सा केशवाय नराधिप ।क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा ॥ ५५ ॥
यथोक्तं वरुणेनाजौ तथा स निधनं गतः ।व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ॥ ५६ ॥
पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः ।संभग्न इव वातेन बहुशाखो वनस्पतिः ॥ ५७ ॥
ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः ।प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम् ॥ ५८ ॥
तथ काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः ।अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् ॥ ५९ ॥
तस्य पार्थः शरान्सप्त प्रेषयामास भारत ।ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् ॥ ६० ॥
सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे ।अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ॥ ६१ ॥
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः ।तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ॥ ६२ ॥
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः ।स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् ॥ ६३ ॥
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः ।सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने ॥ ६४ ॥
सा ज्वलन्ती महोल्केव तमासाद्य महारथम् ।सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ॥ ६५ ॥
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः ।साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः ।रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः ॥ ६६ ॥
सुदक्षिणं तु काम्बोजं मोघसंकल्पविक्रमम् ।बिभेद हृदि बाणेन पृथुधारेण पाण्डवः ॥ ६७ ॥
स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः ।पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः ॥ ६८ ॥
गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः ।निर्भग्न इव वातेन कर्णिकारो हिमात्यये ॥ ६९ ॥
शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः ।सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः ।पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः ॥ ७० ॥
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते ।हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम् ॥ ७१ ॥
« »