Click on words to see what they mean.

संजय उवाच ।दुःशासनबलं हत्वा सव्यसाची धनंजयः ।सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत् ॥ १ ॥
स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् ।कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् ॥ २ ॥
शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे ।भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम् ॥ ३ ॥
भवान्पितृसमो मह्यं धर्मराजसमोऽपि च ।तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते ॥ ४ ॥
अश्वत्थामा यथा तात रक्षणीयस्तवानघ ।तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम ॥ ५ ॥
तव प्रसादादिच्छामि सिन्धुराजानमाहवे ।निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो ॥ ६ ॥
एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव ।मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः ॥ ७ ॥
एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत् ।सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् ॥ ८ ॥
ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः ।द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः ॥ ९ ॥
विव्याध च रणे द्रोणमनुमान्य विशां पते ।क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः ॥ १० ॥
तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ ।विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ ॥ ११ ॥
इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम् ।तस्य चिन्तयतस्त्वेवं फल्गुनस्य महात्मनः ।द्रोणः शरैरसंभ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् ॥ १२ ॥
विव्याध च हयानस्य ध्वजं सारथिमेव च ।अर्जुनं च शरैर्वीरं स्मयमानोऽभ्यवाकिरत् ॥ १३ ॥
एतस्मिन्नन्तरे पार्थः सज्जं कृत्वा महद्धनुः ।विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम् ।मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम् ॥ १४ ॥
पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम् ।चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम् ॥ १५ ॥
तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना ।मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः ॥ १६ ॥
विद्रुताश्च रणे पेतुः संछिन्नायुधजीविताः ।रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः ॥ १७ ॥
चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः ।तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् ॥ १८ ॥
पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः ।हंसा हिमवतः पृष्ठे वारिविप्रहता इव ॥ १९ ॥
रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः ।युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर्हताः ॥ २० ॥
तं पाण्डवादित्यशरांशुजालं कुरुप्रवीरान्युधि निष्टपन्तम् ।स द्रोणमेघः शरवर्षवेगैः प्राच्छादयन्मेघ इवार्करश्मीन् ॥ २१ ॥
अथात्यर्थविसृष्टेन द्विषतामसुभोजिना ।आजघ्ने वक्षसि द्रोणो नाराचेन धनंजयम् ॥ २२ ॥
स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः ।धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः ॥ २३ ॥
द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत् ।अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः ॥ २४ ॥
विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी ।अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः ॥ २५ ॥
प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान् ।मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् ॥ २६ ॥
तेऽभ्ययुः समरे राजन्वासुदेवधनंजयौ ।द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः ॥ २७ ॥
तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा ।वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत् ॥ २८ ॥
ततोऽब्रवीद्वासुदेवो धनंजयमिदं वचः ।पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् ॥ २९ ॥
द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम् ।पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशव ॥ ३० ॥
ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः ।परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् ॥ ३१ ॥
ततोऽब्रवीत्स्मयन्द्रोणः क्वेदं पाण्डव गम्यते ।ननु नाम रणे शत्रुमजित्वा न निवर्तसे ॥ ३२ ॥
अर्जुन उवाच ।गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते ।न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् ॥ ३३ ॥
संजय उवाच ।एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः ।त्वरायुक्तो महाबाहुस्तत्सैन्यं समुपाद्रवत् ॥ ३४ ॥
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।अन्वयातां महात्मानौ विशन्तं तावकं बलम् ॥ ३५ ॥
ततो जयो महाराज कृतवर्मा च सात्त्वतः ।काम्बोजश्च श्रुतायुश्च धनंजयमवारयन् ॥ ३६ ॥
तेषां दशसहस्राणि रथानामनुयायिनाम् ।अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ ३७ ॥
माचेल्लका ललित्थाश्च केकया मद्रकास्तथा ।नारायणाश्च गोपालाः काम्बोजानां च ये गणाः ॥ ३८ ॥
कर्णेन विजिताः पूर्वं संग्रामे शूरसंमताः ।भारद्वाजं पुरस्कृत्य त्यक्तात्मानोऽर्जुनं प्रति ॥ ३९ ॥
पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम् ।त्यजन्तं तुमुले प्राणान्संनद्धं चित्रयोधिनम् ॥ ४० ॥
गाहमानमनीकानि मातङ्गमिव यूथपम् ।महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् ॥ ४१ ॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च ॥ ४२ ॥
जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम् ।न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम् ॥ ४३ ॥
« »