Click on words to see what they mean.

संजय उवाच ।सेनापत्यं तु संप्राप्य भारद्वाजो महारथः ।युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह ॥ १ ॥
सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः ।दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः ॥ २ ॥
प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः ।ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः ॥ ३ ॥
कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः ।दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन् ॥ ४ ॥
तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः ।ययुरश्वैर्महावेगैः शकाश्च यवनैः सह ॥ ५ ॥
मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः ।शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह ॥ ६ ॥
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः ।तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः ॥ ७ ॥
हर्षयन्सर्वसैन्यानि बलेषु बलमादधत् ।ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् ॥ ८ ॥
तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन् ।हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः ॥ ९ ॥
न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत ।विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह ॥ १० ॥
हृष्टाश्च बहवो योधास्तत्राजल्पन्त संगताः ।न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः ॥ ११ ॥
कर्णो हि समरे शक्तो जेतुं देवान्सवासवान् ।किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ॥ १२ ॥
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना ।तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम् ॥ १३ ॥
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते ।राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः ॥ १४ ॥
अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत् ।परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् ।प्रीयमाणेन विहितो धर्मराजेन भारत ॥ १५ ॥
व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ ।वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ ॥ १६ ॥
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् ।आदित्यपथगः केतुः पार्थस्यामिततेजसः ॥ १७ ॥
दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः ।यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम् ॥ १८ ॥
अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् ।वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् ॥ १९ ॥
चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः ।परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् ॥ २० ॥
एवमेतौ महात्मानौ बलसेनाग्रगावुभौ ।तावकानां मुखं कर्णः परेषां च धनंजयः ॥ २१ ॥
ततो जाताभिसंरम्भौ परस्परवधैषिणौ ।अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ ॥ २२ ॥
ततः प्रयाते सहसा भारद्वाजे महारथे ।अन्तर्नादेन घोरेण वसुधा समकम्पत ॥ २३ ॥
ततस्तुमुलमाकाशमावृणोत्सदिवाकरम् ।वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम् ॥ २४ ॥
अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत ।गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः ।उपर्युपरि सेनां ते तदा पर्यपतन्नृप ॥ २५ ॥
गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् ।अकार्षुरपसव्यं च बहुशः पृतनां तव ।चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् ॥ २६ ॥
अपतद्दीप्यमाना च सनिर्घाता सकम्पना ।उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः ॥ २७ ॥
परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् ।भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ ॥ २८ ॥
एते चान्ये च बहवः प्रादुरासन्सुदारुणाः ।उत्पाता युधि वीराणां जीवितक्षयकारकाः ॥ २९ ॥
ततः प्रववृते युद्धं परस्परवधैषिणाम् ।कुरुपाण्डवसैन्यानां शब्देनानादयज्जगत् ॥ ३० ॥
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह ।प्रत्यघ्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः ॥ ३१ ॥
स पाण्डवानां महतीं महेष्वासो महाद्युतिः ।वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः ॥ ३२ ॥
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः ।प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक् ॥ ३३ ॥
संक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः ।व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः ॥ ३४ ॥
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे ।अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् ॥ ३५ ॥
ते वध्यमाना द्रोणेन वासवेनेव दानवाः ।पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः ॥ ३६ ॥
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः ।अभिनच्छरवर्षेण द्रोणानीकमनेकधा ॥ ३७ ॥
द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः ।संनिवार्य ततः सेनां कुरूनप्यवधीद्बली ॥ ३८ ॥
संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे ।स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत् ॥ ३९ ॥
स बाणवर्षं सुमहदसृजत्पार्षतं प्रति ।मघवान्समभिक्रुद्धः सहसा दानवेष्विव ॥ ४० ॥
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः ।पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः ॥ ४१ ॥
अथ पर्यपतद्द्रोणः पाण्डवानां बलं बली ।अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् ॥ ४२ ॥
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्रादिनं वल्गिताश्वम् ।स्फटिकविमलकेतुं तापनं शात्रवाणां रथवरमधिरूढः संजहारारिसेनाम् ॥ ४३ ॥
« »