Click on words to see what they mean.

संजय उवाच ।ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः ।स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे ।संतस्तार शुभां शय्यां दर्भैर्वैडूर्यसंनिभैः ॥ १ ॥
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः ।अलंचकार तां शय्यां परिवार्यायुधोत्तमैः ॥ २ ॥
ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः ।दर्शयां नैत्यकं चक्रुर्नैशं त्रैयम्बकं बलिम् ॥ ३ ॥
ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम् ।अलंकृत्योपहारं तं नैशमस्मै न्यवेदयत् ॥ ४ ॥
स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत ।सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् ॥ ५ ॥
स्थापयित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्तायुधान्नरान् ।दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् ।शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् ॥ ६ ॥
न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् ।प्रजागरः सर्वजनमाविवेश विशां पते ॥ ७ ॥
पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना ।सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना ॥ ८ ॥
तत्कथं नु महाबाहुर्वासविः परवीरहा ।प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ॥ ९ ॥
कष्टं हीदं व्यवसितं पाण्डवेन महात्मना ।पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता ॥ १० ॥
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च ।धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् ॥ ११ ॥
स हत्वा सैन्धवं संख्ये पुनरेतु धनंजयः ।जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम् ॥ १२ ॥
अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति ।न ह्येतदनृतं कर्तुमर्हः पार्थो धनंजयः ॥ १३ ॥
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने ।तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः ॥ १४ ॥
यदि नः सुकृतं किंचिद्यदि दत्तं हुतं यदि ।फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् ॥ १५ ॥
एवं कथयतां तेषां जयमाशंसतां प्रभो ।कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत ॥ १६ ॥
तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः ।स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ॥ १७ ॥
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना ।जयद्रथं हनिष्यामि श्वोभूत इति दारुक ॥ १८ ॥
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति ।यथा जयद्रथं पार्थो न हन्यादिति संयुगे ॥ १९ ॥
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् ।द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः ॥ २० ॥
एको वीरः सहस्राक्षो दैत्यदानवमर्दिता ।सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ॥ २१ ॥
सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः ।अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् ॥ २२ ॥
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः ।कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् ॥ २३ ॥
अनर्जुनमिमं लोकं मुहूर्तमपि दारुक ।उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा ॥ २४ ॥
अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः ।अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः ॥ २५ ॥
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे ।धनंजयार्थं समरे पराक्रान्तस्य दारुक ॥ २६ ॥
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च ।साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक ॥ २७ ॥
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् ।मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम् ॥ २८ ॥
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः ।ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ॥ २९ ॥
यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु ।इति संकल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः ॥ ३० ॥
यथा त्वमप्रभातायामस्यां निशि रथोत्तमम् ।कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः ॥ ३१ ॥
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् ।आरोप्य वै रथे सूत सर्वोपकरणानि च ॥ ३२ ॥
स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे ।वैनतेयस्य वीरस्य समरे रथशोभिनः ॥ ३३ ॥
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसंनिभैः ।विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान् ॥ ३४ ॥
बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च ।युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक ॥ ३५ ॥
पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् ।श्रुत्वा तु भैरवं नादमुपयाया जवेन माम् ॥ ३६ ॥
एकाह्नाहममर्षं च सर्वदुःखानि चैव ह ।भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक ॥ ३७ ॥
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे ।पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् ॥ ३८ ॥
यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति ।आशंसे सारथे तत्र भवितास्य ध्रुवो जयः ॥ ३९ ॥
दारुक उवाच ।जय एव ध्रुवस्तस्य कुत एव पराजयः ।यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ॥ ४० ॥
एवं चैतत्करिष्यामि यथा मामनुशाससि ।सुप्रभातामिमां रात्रिं जयाय विजयस्य हि ॥ ४१ ॥
« »