Click on words to see what they mean.

संजय उवाच ।श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् ।चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः ॥ १ ॥
शोकसंमूढहृदयो दुःखेनाभिहतो भृशम् ।मज्जमान इवागाधे विपुले शोकसागरे ॥ २ ॥
जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु ।स तेषां नरदेवानां सकाशे परिदेवयन् ॥ ३ ॥
अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत् ।योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना ॥ ४ ॥
स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम् ।तत्स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया ॥ ५ ॥
अथ वा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः ।पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभयम् ॥ ६ ॥
द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः ।दुःशासनादयः शक्तास्त्रातुमप्यन्तकार्दितम् ॥ ७ ॥
किमङ्ग पुनरेकेन फल्गुनेन जिघांसता ।न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः ॥ ८ ॥
प्रहर्षं पाण्डवेयानां श्रुत्वा मम महद्भयम् ।सीदन्तीव च मेऽङ्गानि मुमूर्षोरिव पार्थिवाः ॥ ९ ॥
वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना ।तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः ॥ १० ॥
न देवा न च गन्धर्वा नासुरोरगराक्षसाः ।उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः ॥ ११ ॥
तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः ।अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ॥ १२ ॥
एवं विलपमानं तं भयाद्व्याकुलचेतसम् ।आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् ॥ १३ ॥
न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ ।मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि ॥ १४ ॥
अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः ।भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ॥ १५ ॥
पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः ।सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखः सहः ॥ १६ ॥
दुःशासनः सुबाहुश्च कलिङ्गश्चाप्युदायुधः ।विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौबलः ॥ १७ ॥
त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युतिः ।स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव ॥ १८ ॥
अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे ।यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम् ॥ १९ ॥
एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः ।दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् ॥ २० ॥
उपसंग्रहणं कृत्वा द्रोणाय स विशां पते ।उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा ॥ २१ ॥
निमित्ते दूरपातित्वे लघुत्वे दृढवेधने ।मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च ॥ २२ ॥
विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः ।ममार्जुनस्य च विभो यथातत्त्वं प्रचक्ष्व मे ॥ २३ ॥
द्रोण उवाच ।सममाचार्यकं तात तव चैवार्जुनस्य च ।योगाद्दुःखोचितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः ॥ २४ ॥
न तु ते युधि संत्रासः कार्यः पार्थात्कथंचन ।अहं हि रक्षिता तात भयात्त्वां नात्र संशयः ॥ २५ ॥
न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि ।व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति ॥ २६ ॥
तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय ।पितृपैतामहं मार्गमनुयाहि नराधिप ॥ २७ ॥
अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया ।इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभयाद्भयम् ॥ २८ ॥
दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु ।भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् ॥ २९ ॥
कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः ।अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् ॥ ३० ॥
पर्यायेण वयं सर्वे कालेन बलिना हताः ।परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः ॥ ३१ ॥
तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः ।क्षत्रधर्माश्रिताः शूराः क्षत्रियाः प्राप्नुवन्ति तान् ॥ ३२ ॥
संजय उवाच ।एवमाश्वासितो राजन्भारद्वाजेन सैन्धवः ।अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे ॥ ३३ ॥
« »